दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत्
विश्वमिथ्यात्वनिरासः
दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत्
सुधा
प्राग्विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्क्य तत्परिहारत्वेन वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्-व्या)व्याख्यातुं मिथ्यात्वेऽनुमानं तावच्छङ्कते दृश्यत्वादिति ।
अनुव्याख्यानम्
दृश्यत्वाद्विमतं मिथ्या स्वप्नवच्चेत् ….
सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात् । अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्)सत्यत्वमङ्गीक्रियत इत्यर्थः ।
शेषवाक्यार्थचन्द्रिका
ननु ‘दृश्यत्वाद्विमतमि’त्युत्तरग्रन्थोऽनर्थकः । न चायं विश्वमिथ्यात्वेऽनुमानमाशङ्क्य तन्निरासार्थत्वान्नानर्थक्यमिति वाच्यम् । तस्यापि प्रकृते सङ्गत्यदर्शनात् । न च वैधर्म्याच्च न स्वप्नादिवदित्येतत्सूत्रव्याख्यानत्वात्तस्यापि प्रकृतसङ्गतिरिति वाच्यम् । किञ्चेत्यादिना तस्य प्रागेव व्याख्यातत्वादित्याशङ्क्य प्रकारान्तरेण व्याख्यानार्थत्वादस्य ग्रन्थस्य नानर्थक्यमिति भावेन पूर्वोत्तरग्रन्थयोर्विषयभेदं दर्शयंस्तत्सूत्रव्याख्यानतयोत्तरग्रन्थं सङ्गमयति प्रागित्यादिना ॥ शुक्तिरजतादाविति । ननु शुक्तिरजतादौ तत्सिद्धावपि नांशे सिद्धसाधनम् । पक्षतावच्छेदकावच्छेदेन साध्यसिद्धेरिहोद्देश्यतया तदवच्छिन्ने साध्यसिद्धेरभावात् । न च तत्सामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वात्तत्सिद्धेरंशतः सिद्धसाधनमिति वाच्यम् । तथा सत्युद्देश्यसिध्द्या सम्पूर्णसिद्धसाधनत्वप्रसङ्गेनांशतः सिद्धसाधनत्वानवकाशात् । किञ्चैवं तत्सामानाधिकरण्येन साध्यसिद्धिरूपोद्देश्यसिद्धेरविकलत्वेनोद्देश्यसिध्द्यविरोधादंशतो बाधस्यादोषत्वप्रसङ्गः । ततश्च यद्यत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्यातर्ह्यशतः सिद्धसाधनत्वेऽपि नांशतो बाधः । यदि च पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरुद्देश्या, तर्ह्यंशतो बाधप्रसक्तावपि नांशतः सिद्धसाधनतेति कथमुक्तदोषद्वयसमावेशोऽत्रेति चेत् । किमत्र पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरुद्देश्यतयाऽभिमता, किंवा पक्षतावच्छेदकावच्छेदेन । आद्ये शुक्तिरजतादौ पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिध्द्योद्देश्यसिद्धेः सम्पूर्णैव सिद्धसाधनता, द्वितीये अंशे बाध इति पक्षभेदेन दूषणद्वयस्याभिमतत्वात् । यद्यपि समानप्रकारकविरहज्ञानस्यैव प्रतिबन्धकतया शून्यत्वावच्छेदेन साध्याभावनिश्चयेऽपि सर्वत्वावच्छेदेन तदसिध्द्या नांशबाधस्य दूषणत्वं सम्भवति । तथाऽपि पक्षतावच्छेदकावच्छिन्ने सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्वप्रतिबन्धकतया तस्य दोषत्वमित्यत्र तात्पर्याददोपः । यत्तु उक्तविधया विकल्पद्वयमाश्रित्याद्येंऽशतः सिद्धसाधनत्वं, द्वितीयेंऽशतो बाध, इत्यत्रैद्ग्रन्थतात्पर्यवर्णनं, तन्न । मूलकोशेषु सिद्धसाधनत्वमात्रस्योक्तत्वात्तस्य चोक्तरीत्या सम्पूर्णस्यैव सम्भवेनांशतः सिद्धसाधनत्वपर्यन्तं धावनानर्थक्यात् । पक्षतावच्छेदकनानात्व एव तस्य दोषतया तदैक्ये तद्दूषणत्वासम्मतेश्चेति ॥
**परिमल **
सम्प्रतिपन्नमिथ्यात्व इति बहुव्रीहिः । विमतमित्यस्य विशेष्यमाह गगनादिकमिति । शून्यासत्प्रातीतिकेभ्योऽन्यदित्यर्थः । अधिकं न्यायामृते ॥
यादुपत्यं
सिद्धसाधनतेति । पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे रजतादौ तादृशसिद्धेर्जातत्वात्सिद्धसाधनतैव, नांशतः सिद्धसाधनता । पक्षतावच्छेदकनानात्व एव तस्य दोषत्वादित्यवधेयम् ॥ बाधश्चेति । यद्यपि समानप्रकारकविरहज्ञानस्यैव सिद्धिप्रतिबन्धकतया नांशे बाधस्य प्रतिबन्धकत्वं, तथाऽपि पक्षतावच्छेदकावच्छिन्ने सर्वत्र जायमानाया अनुमितेस्तदंशे प्रमात्वबाध इत्यत्र तात्पर्यमित्याहुः ।
**श्रीनिवासतीर्थीया **
अन्यथासिद्धिमिति । सदित्युपलम्भेन न विश्वस्य सत्यत्वसिद्धिः, असदेव विश्वं सत्वेन प्रतीयत इत्यङ्गीकारादित्युक्तान्यथासिद्धिमित्यर्थः ।
**वाक्यार्थरत्नमाला **
शुक्तिरजतादौ शून्य इति विशिष्य मूलेऽभिधानेनांशे सिद्धसाधनताबाधावुक्ताविति सिद्धवत्कृत्याह । नांशेसिद्धसाधनमिति । इति चेदित्यनन्तरं नेति प्रतिज्ञापदयुक्तः पाठः । एवं शुक्तिरजतादौ शून्य इत्युक्तयांऽशे सिद्धसाधनताबाधावुक्ताविति भ्रान्त्याशङ्कायां तत्परिहाराय संपूर्णसिद्धसाधनता । अंशेचबाध इति विवेकेन दर्शयति । किमत्रेत्यादिना । न्यायामृतटीकायां जिज्ञासाधिकरणीयवाक्यार्थचन्द्रिकायां चांशतः सिद्धसाधनत्वादिविचारः मिथ्यात्वखण्डनटीकाव्याख्यानेच अत्र स्पष्टनीयोऽस्ति । जिज्ञासाधिकरणीयास्मदुपपादनं चात्रावधेयम् । समानप्रकारकविरहेति । तत्तद्विरहेत्यर्थः । अनुमानीयरुचिदत्तादौ विचारितमेतत् । अंशसिद्धसाधनतेति प्राचीनानां पक्षस्तं निराकर्तुमनुवदति । यत्विति । असंमतेश्चेतीतिशब्दो दूषणसमाप्तौ ।