तसुद्दिश्य जगाद जगतां गुरुः
माध्यमिकमतनिरासः
तसुद्दिश्य जगाद जगतां गुरुः
सुधा
एवमुपन्यस्तमतनिरासार्थत्वेनाधिकरणमवतारयति तमुद्दिश्येति ।
अनुव्याख्यानम्
…… तसुद्दिश्य जगाद जगतां गुरुः ॥
जगाद इदमधिकरणमिति शेषः । यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ॐ नासतोऽदृष्टत्वात् ॐ इति । तद्-व्याचष्टे नासत इति ।
अनुव्याख्यानम्
॥ ॐ नासतोऽदृष्टत्वात् ॐ ॥
नासतो जगतो भावो ……..
असतः सर्वविशेषविनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्याज्जगतो भावो जन्म नोपपद्यते । कुत इत्यत आह न हीति ।
अनुव्याख्यानम्
…….. न हि दृष्टाऽसतो जनिः ॥
सतः क्वचित् ……….
सतो भवतः कार्यस्येति यावत् । क्वचित् । असतो जनिर्न दृष्टा यतः । अत्र सर्वत्र शून्यस्यासत्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् ।
शेषवाक्यार्थचन्द्रिका
॥ नासतोऽदृष्टत्वात् ॐ ॥ यथाश्रुतमिति । यद्यपि शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तत’ इति ग्रन्थानुरोधेन जगतः शून्याविद्याकल्पितत्वसिध्द्या तदारोपाधिष्ठानत्वमेव शून्यस्य जगत्कारणत्वं परस्याभिमतमिति तदेव निराकर्तुमुचितम् । न्यथाऽनभिमतपक्षनिरासेन छलप्रसङ्गात् । तथाऽपि शून्याज्जगदुत्पद्यत इति वदतः किं यथाश्रुत एव कार्यकारणभावोऽभिमतः किंवा तदविद्याकल्पितत्वात्तत्राध्यस्तत्वरूप इति विकल्पद्वयं मनसि निधाय द्वितीये वक्ष्याम इति भावेन यथाश्रुत एव शून्यजगतोः साध्यसाधनभावो विवक्षित इत्याद्यपक्षस्य नासतोऽदृष्टत्वादित्येतदुत्तरमित्येवं विकल्पमुखेन दूषणप्रवृत्तेर्न छलप्रसङ्ग इति ध्येयम् । ननु ‘पारमार्थिकसत्यत्वं शून्यादन्यस्य न क्वचिदि’ति वदता परेण शून्यस्य पारमार्थिकसत्यतव्राभ्युपगमेन तदसत्वाभावान्नासत इत्यादिदोषस्य निरालम्बनत्वमित्याङ्क्याह अत्र सर्वत्रेति । यदि शून्यं निर्विशेषं स्यात्तर्ह्यप्रामाणिकं स्यात् सधर्मक एव प्रमाणप्रवृत्तेर्दर्शनात् । ततश्च गगनकुसुमवदसत्स्यादित्यसत्वापादनपूर्वकमेवैतद्दूषणप्रवृत्तेर्न तन्निरालम्बनत्वमित्यर्थः ।
**परिमल **
यथाश्रुतमिति । शून्यविवर्तत्वमनाश्रित्य शून्याज्जगज्जायत इति यथाश्रुतमित्यर्थः ।
यादुपत्यं
यथाश्रुतमिति । शून्याविद्यया शून्येऽध्यस्तमेव जगच्छून्यकारणकमित्युच्यत इति तदभिप्रेतपक्षस्याप्यग्रे ‘स्वप्नभान्तिवदेवेदं संवृत्यैवोपलभ्यते । यदि सत्वेने’त्यादिना दूषयिष्यमाणत्वादिति भावः । अत्र शून्याज्जगदुत्पद्यत इति परेणोक्ते किं यथाश्रुत एव कार्यकारणभावोऽत्राभिप्रेत उत तदविद्याकल्पितत्वादिरूप इति विकल्पेनोत्थानान्न छलप्रसङ्ग इति ज्ञातव्यम् । ननु परेण शून्ये पारमार्थिकसत्त्वस्याङ्गीकारात्कथं तस्यासत्वमाश्रित्य दूषणाभिधानमित्यत आह अत्र सर्वत्रेति । यदि शून्यं सर्वविशेषविनिर्मुक्तं स्यात्तर्ह्यप्रमाणिकं स्यात् सधर्मक एव प्रमाणप्रवृत्तेर्दर्शनात् ततश्च गगनकुसुमवदसत्स्यादित्यापाद्येत्यर्थः ।
**वाक्यार्थरत्नमाला **
न हि दृष्टेति भाष्ये कुत इत्याशङ्कानिवारकत्वोपपत्यर्थं हेत्वर्थकपदप्रयोगस्याकरणान्न्यूनतेति न शङ्कनीयम् । हीत्यस्यैव हेत्वर्थकतया भाष्ये प्रयुक्तत्वादित्याशयेन मूले दृष्टा यत इति हिशब्दो व्याख्यात इति ज्ञेयम् । अत्र सर्वत्र शून्यस्यासत्वमापाद्य दूषणाभिधानमिति मूले अत्र सर्वत्रेत्यस्य शून्यस्य कारणत्वादेरसत्वयुक्तयानिराकरणस्थल इत्यर्थः । तेनासदिति चेन्न प्रतिषेधमात्रत्वादित्यादिस्थलान्तरेऽपि उक्तयुक्तिसञ्चारो यत्र यत्रास्ति तत्र तत्रासत्वापादनमुखेन दूषणं ज्ञातव्यमिति प्राप्नोतीति ज्ञेयम् । असदिति चेदित्यत्र प्रागभावो सच्छब्दवाच्य इति पक्षे तदतिरिक्तस्थलं ग्राह्यम् ।