ॐ नासतोऽदृष्टत्वात् ॐ
अथ असदधिकरणम्
अथ शून्यवादापाकरणम्
माध्यमिकमतानुवादः
ॐ नासतोऽदृष्टत्वात् ॐ
सुधा
ॐ नासतोऽदृष्टत्वात् ॐ ॥ माध्यमिकमतमत्रापाक्रियते । तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यति अपर इति ।
अनुव्याख्यानम्
॥ ॐ नासतोऽदृष्टत्वात् ॐ ॥
अपरः शून्यमखिलं मनोवाचामगोचरम् ॥
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥
अशेषदोषरहितमनन्तं देशकालतः ॥
वस्तुतश्च …………………
अपरो माध्यमिकः, ‘इति ब्रूत’ इति वक्ष्यमाणेन सम्बन्धः । शून्यमेव तत्वं न ततोऽन्यदस्तीति शेषः । ननु पञ्चस्कन्धास्ततोऽतिरिक्ताः सन्तीत्यत उक्तम् अखिलमिति । पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततोऽन्यदित्यर्थः । तच्छून्यं कुतः सिद्धमित्यत उक्तं स्वयम्भातमिति । स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् । किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तम् मन इति । प्रमाणमात्रोपलक्षणमेतत् ॥ कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात् । सधर्मक एव प्रमाणप्रवृत्तिरित्युक्तं निर्विशेषमिति । निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आह निर्लेपमिति । लेपो धर्माधर्मसम्बन्धः । दोषा दुःखादयः । वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् । यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते । तत्कथं निर्विशेष(मु)मित्युच्यत इत्यत एतदुक्तम् । लेपादिदोषाभावमात्रेण शुद्धमुच्यते । देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, न तु कमपि धर्ममाश्रित्येति ।
शेषवाक्यार्थचन्द्रिका
॥ ॐ नासतोऽदृष्टत्वात् ॐ ॥ अधिकरणप्रतिपाद्यानुक्तेर्मूले न्यूनतामाशङ्क्य भाष्य एव तस्योक्तत्वादत्रानुक्तिर्न दोषायेत्यभिप्रेत्य शून्यवादमपाकरोतीति भाष्यं मनसि निधायैतदधिकरणप्रतिपाद्यमाह माध्यमिकेति । नन्वपरः शून्यमित्यादिग्रन्थोऽनर्थकः । न चायं तन्मतोपन्यासः । तस्याप्यनर्थकत्वादित्यतो विप्रतिपत्तिविषयसूचनेन तदनिरस्यताशङ्कानिरसनद्वारा तन्निरस्यतासमर्थनार्थत्वात्तस्य नानर्थक्यमित्यभिप्रेत्य तन्मतोपन्यासवैयर्थ्यं परिहरंस्तन्मतोपन्यासपरतयोत्तरग्रन्थं सङ्गमयति तस्येति । मूले शून्यमित्युक्त्या प्रसक्तं निःस्वरूपत्वं ‘शून्यं तत्वमविज्ञेयमि’त्यादितद्वाक्यानुसारेणापेक्षितशेषं पूरयन्परिहरति शून्यमेवेत्यादिना । अत्र मूलस्थं शून्यपदं सावधारणमित्यभिप्रेत्य शून्यमेवेत्यनुवादः, तत्वमित्यादिस्तु शेष इति द्रष्टव्यम् । न स्वकर्मकप्रकाशत्वमिति । विषयविषयिभावस्य प्रत्यक्पराग्भावरूपत्वेनैकस्य युगपदुभयरूपताया विरुद्धतया स्वस्य स्वविषयकज्ञानताया अयोगादिति भावः । यद्वा ज्ञानमर्थं विषयीकरोतीति व्यवहारान्यथाऽनुपपत्त्या ज्ञानस्यापि विषयीकरणलक्षणव्यापारं प्रति कर्तृत्वेन स्वविषयत्वे कर्तृकर्मभावो वाच्यः । न चासौ वक्तुं शक्यः । परसमवेतक्रियाफलशालित्वस्यैव कर्मलक्षणत्वेनैकस्यां क्रियायां कर्तृकर्मणोरेकत्वस्य विरुद्धत्वादतो न स्वविषयत्वं ज्ञानस्येति भावः । प्रमाणविशेषभूतमनोवागगोरत्वमात्रेण न परप्रकाश्यत्वाभावसिद्धिः । तथा सति चक्षुराद्यगोचरत्वमात्रेण रसरूपादेरपि तत्सिद्धिप्रसङ्गादित्यतोऽत्र वाक्ये विशेषवाचकमनोवाक्शब्दयोः प्रमाणसामान्योपलक्षणकत्वेन प्रमाणमात्रागोचरत्वलाभात्परप्रकाश्यत्वाभावसिद्धिरविकलैवेत्याशयेनाह प्रमाणमात्रोपलक्षणमेतदिति ॥
सधर्मक एवेति । रूपादिमत्येव चक्षुरादेः, व्याप्त्या व्यापकतावच्छेदकधर्मविशिष्टत्वेन पक्षधर्मतया च पक्षसंसृष्टत्वेन, साध्यस्य सिध्द्योक्तधर्मवत्येव साध्येऽनुमानस्य, शब्दप्रत्तृत्तिनिमित्तादिमत्येव च शब्दस्य प्रवृत्तिदर्शनादित्यर्थः । निर्विशेषत्वादिकमित्यादिपदेन स्वयम्भातत्वमनोवाचामगोचरत्वयोः परिग्रहः । निर्लेपमशेषदोषरहितमिति पदद्वयान्तर्गतयोर्लेपदोषपदयोः पौनरुक्त्यनिरासायार्थभेदमाह लेपो धर्माधर्मसम्बन्ध इत्यादिना । अनन्तमित्यस्य देशकालाभ्यामिव वस्तुत इत्यनेनापि सम्बन्धान्न साकाङ्क्षतेत्यभिप्रेत्य तथासम्बन्धमाह वस्तुतश्चानन्तमिति । वस्तुतोऽनन्तत्वं नाम सकलवस्त्वात्मकत्वमिति प्रतीतिनिरासाय तन्निर्वक्ति वस्त्वन्तरेति । स्वव्यतिरिक्तस्य सर्वस्य कल्पितत्वेना वस्तुत्वान्न वस्त्वन्तरप्रतियोगिकभेदवत्वं तस्येत्यर्थः ॥ एतदिति । निर्लेपमित्यादिकमित्यर्थः । देशादीत्यादिपदेन कालवस्तुनोः परिग्रहः । सर्वगतत्वादीत्यादिपदेन नित्यत्वसर्वात्मकत्वयोः परिग्रहः ॥ कमपि धर्ममिति । परममहत्परिमाणाप्रच्युतसत्तासर्वतादात्म्यरूपमित्यर्थः ।
**परिमल **
ॐ नासतोऽदृष्टत्वात् ॐ । पाठक्रमादाकांक्षाक्रमो बलीयानिति भावेनाह तच्छून्यं कुत इत्यादिना ॥ अपरप्रकाश्यत्वमिति । परप्रकाश्यत्वाभाव इत्यर्थः ॥ सधर्मक एवेति । महत्वादिमत्येव प्रत्यक्षस्य व्यापकताशक्यतावच्छेदकादिमत्येवानुमानादेः प्रवृत्तेरिति भावः । तद्धर्माः क इत्यत आह लेपेति । लेपदेषपदयोरपौनरुक्त्यायार्थभेदमाह लेपो धर्माधर्मेति ।
यादुपत्यम्
ॐ नासतोऽदृष्ट्वात् ॐ ॥ सधर्मक एवेति । रूपादिमत्येव प्रत्यक्षस्य, व्यापकतावच्छेदकधर्मवत्येवानुमानस्य, प्रवृत्तिनिमित्तादिमत्येव शब्दस्य, प्रवृत्तेरित्यर्थः । निर्लेपमशेषदोषरहितमित्यत्रत्ययोर्लेपदोषपदयोः पौनरुक्त्यपरिहारायार्थभेदमाह लेपो धर्माधर्मेत्यादिना ॥ वस्त्वन्तरेति । स्वव्यतिरिक्तवस्त्वन्तरस्यैव परमार्थतोऽभावादिति भावः ।
**श्रीनिवासतीर्थीया **
ॐ नासतोऽदृष्टत्वात् ॐ ॥ एतदुक्तं निर्लेपमिति वाक्यम् ॥ दोषाभावमात्रेणेति । अन्यापोहेनेत्यर्थः ।
**वाक्यार्थरत्नमाला **
ॐ नासतोदृष्टत्वात् ॥ गोचरशब्दे नपुंसकत्वमीक्षत्यधिकरणमूलटीकानु सारेणोपपाद्यम् । स्वविषयत्वं हि कर्तृकर्मविरोधात्तैर्नाङ्गीक्रियत इति तत्वोद्योतव्याख्यानावसरे ननु ज्ञानस्य स्वविषयत्वेत्याद्यभिधाय अतो विषयविषयीभावस्येत्याशङ्कितं पक्षमाह । विषयविषयीभावस्येति । मैवं ज्ञानस्यापीत्याद्युक्तस्थलीयटीकानुसारेण कर्तृकर्मविरोध इति ते वदन्तीति तत्वनिर्णयटीकास्थनिष्कर्षन्यायेन च पक्षान्तरमाह । यद्वा ज्ञानमिति । चक्षुरादेर्व्याप्त्या व्यापकतावच्छेदकेत्यादिरुक्त धर्मवत्येव साध्येऽनुमानस्येति पाठः । पांक्तशोधाक्षरक्रमव्यत्यासेनान्यथाचेत्पाठः स लेखकनिमित्तक इति बोध्यम् । चक्षुरादेरित्यस्यानुमानस्येत्यस्य प्रवृत्तिदर्शनादित्युत्तरेण सम्बन्धः । व्याप्त्या पक्षधर्मतयेत्येतयोर्हेतोरिति शेषः । विशिष्टत्वेनेत्यस्य साध्यस्येत्युत्तरेण सम्बन्धः । उक्तधर्मेति । व्यापकतावच्छेदकेत्याद्युक्तेत्यर्थः । धर्माधर्मसम्बन्ध इति मूलम् । नन्वधर्मसम्बन्धस्य दोषत्वेऽपि धर्मसम्बन्धस्य कथं दोषत्वम् । येनादोषप्रकारेण लेपपदमुभयार्थतया व्याख्यातुं शक्यं भवेदिति चेन्न । पुण्यपापे विधूयेति श्रुतौ पुण्यपापाञ्जनाख्याविद्याविधूननाभिधानादिति पृथगधिकरणीयसुधानुसारेणाविद्याविधूननसमकक्षतया पुण्यपापविधूननस्योक्ततया पापस्येव पुण्यस्यापि हेयत्वान्यथानुपपत्या दोषत्वस्य जीवे श्रुतिसिद्धत्वेन शरीरस्थोऽपि कौन्तेय न करोति न लिप्यत इति गीताव्याख्यानावसरे, ‘‘कुर्वाणोऽपि यतः सर्वं पुण्यपापैर्न लिप्यत’’ इति पुण्यपापासम्बन्धस्यैव स्पष्टं लेपपदार्थतया तात्पर्यकृतोक्तत्वेन उक्ततात्पर्यवाक्यव्याख्यानावसरे जीवो न करोति न लिप्यत एवेति द्रष्टव्यम् । लेपश्च तत्फलेनेति पुण्यपापरूपकर्मफलसम्बन्धाभावस्यैव मूलकृताऽभिहितत्वेन
कुर्वाणोपि यतः सर्वं पुण्यपापैर्न लिप्यते ।
जन्ममृत्यादिरहितः सत्वादिगुणवर्जितः ।
विष्णुस्तद्विपरीतस्तु जीवोऽतस्तौ पृथक्सदा ।
इति तात्पर्योदाहृतप्रमाणवाक्ये पुण्यपापसम्बन्धादिधर्मशून्यत्वं विष्णुरित्यन्तेन विष्णोरभिधाय जीवस्य तद्विपरीतत्वोक्तया पुण्यपापसम्बन्धादिधर्मयुक्तत्वस्योक्ततया निर्दोषत्वसदोषत्वरूपभेदक धर्मोक्तयन्यथानुपपत्या पुण्यस्यापि जन्मादिसमानकक्ष्यतया जीवे दोषतायाः सिद्धेः । अत एव ‘‘स गुणाल्पत्वमात्रत्वान्नर्जुत्वेन विरुध्यते’’ इत्युपासनापादीयानुव्याख्यानव्याख्यानरूपमूले महोद्यमाभावो दोष एव हेयत्वादित्युक्तम् । मुक्तिगतानन्दातिशयहेतुभूतेषु पुण्यस्यादोषत्वेऽपि संसारापादकानिष्टपुण्यस्य दोषताया अनिवार्यत्वाच्च । बहुलस्येश्वरेदोषत्वाभावेपि जीवे दोषत्ववत्पुण्यस्य जीवे दोषत्वाभावेऽपीश्वरे दोषतया तन्न्यायेन शून्येपि तथात्वमित्यप्याहुः । तत्वप्रकाशिकास्थचिन्तासन्तापलेपेत्येतदभिनवचन्द्रिकायां तु चिन्तासाधारणदोषसमभिव्याहृतलेपपदार्थः पुण्यसम्बन्धोऽपि भवतीत्युक्तम् । न चात्र लेपपदसमभिव्याहृतं साधारणं दोषान्तरं कल्प्यते । वस्तुतस्तु परव्याख्यानानुसारान्नात्र शङ्कावकाशः । तस्माद्युक्तमुक्तं मूले धर्माधर्मसम्बन्ध इति । देशकालाभ्यामिवेति । देशकालज इत्यनेनेत्यर्थः । फलितार्थाभिप्रायेण देशकालाभ्यामित्युक्तमिति न दोषः । साकाङ्क्षतेति । वस्तुत इत्यस्येति शेषः ।
तदस्मीति नित्योपासाऽपरोक्षितम्
तदस्मीति नित्योपासाऽपरोक्षितम्
सुधा
उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः । अतस्तत्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयति तदस्मीति ।
अनुव्याख्यानम्
….. तदस्मीति नित्योपासाऽपरोक्षितम् ॥
रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥
तच्छून्यमहमस्मीति नित्योपासयाऽपरोक्षीकृतम् । तच्छून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेदिति सम्बन्धः । यथोक्तम् । ‘प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः (तापिनः) (भाविनः)’ इति ।
शेषवाक्यार्थचन्द्रिका
शास्त्रधर्म इति । वक्तृश्रोत्रोरभिमतमनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तमर्थं प्रतिपादयतां वाक्यानां समूहस्यैव शास्त्रत्वेनोपायोपेयभावानवस्थितपदार्थख्यापकस्य निर्विषयत्वेन निष्प्रयोजनत्वेन च काकदन्तपरीक्षादिग्रन्थवदशास्त्रत्वादिति भावः । तदस्मीति नित्योपासनाऽपरोक्षितमित्यत्र विशेष्यानुक्त्या न्यूनतामाशङ्क्य तदस्मीति पूर्वप्रकृततच्छब्दोत्तशून्यस्यैव विशेष्यत्वान्नानुपपत्तिरिति भावेन विशेष्यं पूरयति तच्छून्यमिति ॥ शून्यत्वलक्षणमिति । आदौ कर्तृत्वादिविशिष्टात्मविनाशलक्षणं, पश्चान्महाशून्यत्वलक्षणं चेत्यर्थः । ‘यस्य शून्यैकरसताज्ञानात्सात्वपगच्छति । स पुद्गलत्वान्निर्मुक्तो महाशून्यत्वमेष्यती’ति वक्ष्यमाणत्वादिति ध्येयम् । आदावात्मविनाशरूपो मोक्षो भवतीत्येतत्कुतोऽवगतमित्यतस्तद्वाक्यादेवेत्यभिप्रेत्य तत्पठति यथोक्तमित्यादिना । तनोतीति तायी तनु विस्तार इति धातोः । तायिनो विस्तरिणस्तस्यावबोधसन्तानस्य प्रदीपस्यैव निर्वाणं निवृत्तिर्मोक्ष इत्यर्थः । न चैवं ज्ञाननाशस्यैव मोक्षत्वमित्यस्माद्वाक्याल्लभ्यते न त्वात्मनाशस्य, तत्कथमस्योदाहरणत्वमिति वाच्यम् । परेण ज्ञानस्यैवात्मत्वाङ्गीकारादिति भावः ।
**परिमल **
तस्य तायिन इति । तायृ सन्तानपालनयोः । तायिनः सन्तन्यमानस्य तस्य कर्तृत्वभोक्तृत्वादिभ्रांत्यात्मकस्य संसारस्य प्रदीपस्येव निर्वाणं निवृत्तिर्मोक्ष इत्यर्थः । केचित्तु भाविन इति पाठमुपेत्य शून्यभावनावधृतस्यात्मन इति व्याचक्षते । अन्ये तु तापिन इति पाठमुपेत्य योगिनस्तस्यात्मन इत्यर्थ इत्याहुः ॥
यादुपत्यं
शून्यत्वलक्षणमिति । आदौ कर्तृत्वादिविशिष्टात्मविनाशलक्षणं, पश्चान्महाशून्यत्वलक्षणं चेत्यर्थः । यद्वक्ष्यति । ‘यस्य शून्यैकरसताज्ञानात्सा त्वपगच्छति । स पुद्गलत्वान्निर्मुक्तो महाशून्यत्वमेष्यती’ति । आदावात्मविनाशरूपो मोक्ष इत्यत्र तत्सम्मतिमाह यथोक्तमिति ॥ प्रदीपस्येवेति । यथा तैलाद्यपगमे प्रदीपस्य निर्वाणं विनाशस्तथा भाविनः शून्यभावनावतस्तस्य कर्तृत्वादिविशिष्टस्यात्मनः संवृत्त्यपगमे निर्वाणं विमोक्ष इत्यर्थः । तापिन इति पाठे ज्ञानिन इत्यर्थ इत्याहुः ॥
**श्रीनिवासतीर्थीया **
उपायोपेये मोक्षसाधने धर्मादौ मोक्षे चेत्यर्थः ॥
**वाक्यार्थरत्नमाला **
समयप्रयोजनाभावादित्येतत्तत्वनिर्णयव्याख्यानमनुसृत्याह । वक्तृश्रोत्रोरिति । आदिपदेन स्फीतालोकमध्यवर्तिघटप्रतिपादकवाक्यादिकं गृह्यते । एतच्च जिज्ञासाधिकरणपूर्वपक्षप्रदर्शनपरमूले विषयादिसद्भावोहीत्यादिनोक्तं ज्ञातव्यम् । तच्छून्यमहमित्येतदवतारयति तदस्मीतीति । वक्ष्यमाणत्वादिति । सपरिकरशून्यमतोपन्यासपरमोक्षवादीयानुव्याख्याने चतुर्थस्य द्वितीये वक्ष्यमाणत्वादित्यर्थः । मोक्षवादीयन्यायमकरन्दस्य प्रदीपस्येवेति संमतिवाक्यस्य तायिन इत्येतद्-व्याख्यानरूपतायिनो विस्तारिणो बोधसन्तानस्येत्यादितत्वप्रदीपिकानुसारेण न्यायवाचस्पत्याद्यनुसारेण च व्याचष्टे । तायिनो विस्तारिण इति । तायतीति तायिविस्तारी इत्यादि व्याख्यानप्रकारोपि शोधयित्वा लेखनीयः । अनेन तस्य तायिन इत्येव संमतिवाक्यपाठ इति सूचितं भवति । न्यायमकरन्दन्यायवाचस्पत्याद्यननुसारिभाविन इत्येतत्पाठाश्रयणेन प्रवृत्तान्यथाख्यातिव्याख्यानं तु वाक्यार्थविनोदे दूषितमिति ध्येयम् ।