अतो निर्मानमखिलप्रमाणप्रतिपक्षगम्
वैभाषिकसौत्रान्तिकमतनिराकरणोपसंहारः
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम्
सुधा
वैभाषिकसौत्रान्तिक(मत)समयनिराकरणमुपसंहरति अत इति ।
अनुव्याख्यानम्
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ॥
दुर्मतं को नु गृह्णीयाद्विनाऽसुरततिं क्वचित् ॥ २२७ ॥
अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम् । अत एव दुर्मतम् । दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात्कथं को नु गृह्णीयादित्याक्षेप इत्यत उक्तं विनेति । सत्पुरुषविषय एवायमाक्षेप इति भावः ॥ न चैवं निराकरणवैयर्थ्यम् । उक्तार्थानुसन्धाने को न गृह्णीयादिति व्याख्यानादिति ॥ २२७ ॥
शेषवाक्यार्थचन्द्रिका
मूले ‘निर्मानमखिलप्रमाणप्रतिपक्षगमि’ति दुर्मतत्वोपपादनं हेतुगर्भं विशेषणद्वयमिति भावेन तथैव योजयति अत एवेति । निर्मानत्वादेरेवेत्यर्थः । एवमिति । आक्षेपस्य सत्पुरुषमात्रविषयत्वभ्युपगम इत्यर्थः । आक्षेपस्य सत्पुरुषमात्रविषयत्वे सत्पुरुषाणां तद्ग्रहणप्रसक्तेरेवाभावेन तन्निवारणार्थत्वयोगात्तदर्थकनिराकरणस्य वैयर्थ्यं स्यादित्याशयः ॥ उक्तार्थानुसन्धान इति । तथा चोक्तरीत्या हेयत्वप्रतिपादनेन तदनुसन्धाने सत्पुरुषाणां तद्ग्रहणप्रसक्त्यभावेऽपि मतनिराकरणाभावे तद्धेयत्वानुसन्धानाभावेन सत्पुरुषाणामपि तद्ग्रहणप्रसक्तेः सत्वेन तन्निराकरणार्थत्व सम्भवात्तदर्थकनिराकरणस्यार्थवत्वमेवेति भावः ॥ २२७ ॥
**श्रीनिवासतीर्थीया **
सत्पुरुषेति । तथा च को नु गृह्णीयादित्यस्य कः सज्जनो गृह्णीयान्न कोऽपीत्यर्थो द्रष्टव्यः । ननु स्वत एव सज्जनेनेदं मतं न गृह्यतेऽतो वैभाषिकसौत्रान्तिकयोर्निराकरणमयुक्तमित्याङ्क्य निराकरोति न चैवमिति । कुतो न वैयर्थ्यमित्यत आह उक्तार्थेति । उक्तार्थानुसन्धान इति मूले शषोक्तिः । तथा च सज्जनस्यापि यद्यस्मदुक्तं तन्निराकरणप्रकारानुसन्धानं स्यात्तदैव न गृह्णीयात् । नो चेद्गृह्णीयादेव । ततस्तस्य सज्जनस्य तन्मताग्रहणप्रयोजकभूतोक्तार्थानुसन्धानायास्माभिर्निराकरणं कृतमिति न तस्य वैयर्थ्यमिति भावः ॥ २२७ ॥
॥ इति समुदायाधिकरणम् ॥