विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितं वदेत्
सौत्रान्तिकसिद्धान्तविशेषविमर्शः
विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितं वदेत्
सुधा
स्यादेतत् । वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः स एव सूत्रकृता निराकृतः । यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः ‘प्रमाणं तावद्विविधम् । प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वोऽपि रूपादिप्रपञ्चोऽनुमेय एव न तु प्रत्यक्षः । ज्ञानं(तु) नीलाद्याकारं प्रत्यक्षवेद्यमि’ति । स कस्मान्न निराकृत इत्यत आह विश्वमिति ।
अनुव्याख्यानम्
विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितं वदेत् ॥
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥
तयोर् वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिको विश्वं रूपादिकं प्रत्यक्षगं त्यक्त्वा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत् । अनुमितं वेदद् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात् । मायावादिना तुल्यं वर्तत इति मायावादिवत् । एतदुक्तं भवति । यथा सर्वान्दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादोऽत्र पादे निराकृतः । तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या । न त्वीषत्सदलैः साङ्ख्यादिसमयैः सह निरास इति ज्ञापनार्थम् । तथा बाह्यानुमेयतावादोऽपीति । ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी । तस्य कथं निरासप्रसक्तिः । मैवम् । ‘अनादिकालतो वृत्ता’ इत्युक्तत्वात् । अन्यथा साङ्ख्यादिनिरासस्याप्यप्रसक्तेरिति ।
शेषवाक्यार्थचन्द्रिका
साधारण इति । बाह्यार्थो घटादिः परमाणुपुञ्जरूपः क्षणिकः सन्नित्येवंरूप इत्यर्थः । ननु विश्वं त्यक्त्वेत्यत्र त्यागो नामानभ्युपगम एव वाच्यः । अन्यस्यासम्भवात् । न चासाविहास्ति । रूपादेर्विश्वस्य तेनाभ्युपगमादित्याशङ्क्य विश्वं प्रत्यक्षगं त्यक्त्वेत्यस्य विशिष्टनिषेधत्वद्विशिष्टनिषेधस्य च सति विशेष्ये बाधे विशेषणविषयतायाः ‘सविशेषणे ही’ति न्यायसिद्धत्वात् प्रत्यक्षवेद्यत्वरूपविशेषणविषयत्वप्राप्त्या रूपादेर्विश्वस्याभ्युपगमेऽपि तस्य प्रत्यक्षवेद्यताया अनभ्युपगमान्नानुपपत्तिरिति भावेन विशिष्टनिषेधस्य विशेषणविशिष्टतया तात्पर्यमाह रूपादेर्विश्वस्येत्यादि । षष्ठ्यर्थसप्तम्यर्थयोः प्रकृतान्वयासम्भवेन मायावादिन इवेति वा मायावादिनीवेति वा षष्ठीसमर्थात्सप्तमीसमर्थाद्वा ‘तत्र तस्येवे’त्यनेन वतेरसम्भवात्तदनुपपत्तिमाशङ्क्य ‘तेन तुल्यं क्रिया चेद्वतिरि’ति लक्षणान्तरेण वतिप्रत्ययसम्भवान्न दोष इत्याशयेन तत्तुल्यक्रियतामुपदर्शयति मायावादिनेति । कथं सौत्रान्तिकस्य मायावादिना तुल्यक्रियात्वमित्यतस्तदुक्तेस्तात्पर्यमाह एतदुक्तं भवतीति ॥ तथा बाह्यानुमेयतावादोऽपीति । अत्यन्तं निर्दलस्य बाह्यानुमेयतावादस्योपेक्षैव कार्या न त्वीषत्सदलैर्वैभाषिकादिभिः समयैः सह निरासः कार्य इति ज्ञापनार्थं बाह्यानुमेयतावादोऽप्यत्र पादे न निराकृत इत्यर्थः । सूत्रोत्पत्त्युत्तरकालभावीति तस्य सूत्रव्याख्यानरूपत्वाव्द्याख्यानस्य च पश्चात्तनत्वनियमात्सूत्रोत्पत्त्युत्तरकालभावित्वं मायावादस्येति भावः ॥ उक्तत्वादिति । एतत्पादारम्भसमर्थनावसर इति शेषः । तथा च सूत्रोत्पत्तेः प्रागपि मायावादसत्वाद्युक्तैव तन्निरासप्रसक्तिरिति भावः ॥ अन्यथेति । अनादिकालतो वृत्तत्वव्यतिरेकेण तन्निरासप्रसञ्जकस्यान्यस्याभावादिति भावः ।
**परिमल **
द्विविधमिति । प्रत्यक्षानुमानभेदेनेति भावः । ननु मायावादिवदिति कथम् । तत्प्रतियोगिनः सौत्रान्तिकस्यासाविति प्रथमान्तनिर्देशेन मयावादी यथोपेक्ष्यस् तथा सौत्रान्तकोऽप्युपेक्ष्य इति वाच्यत्वात् । तत्र प्रथमासमर्थाद् इवार्थे वतिप्रत्ययस्य विधायकाभावादित्यत आह मायावादिनेति । तथा च तेन तुल्यं क्रिया चेद्वतिरि’ति सूत्रेण तृतीयासमर्थात्तुल्यार्थे वतिप्रत्ययः । उपेक्षणरूपक्रियातुल्यत्वस्योभयत्र भावादिति भावः । कथमनेनोक्तशङ्कानिरास इत्यत आह एतदुक्तमिति । न मायावादोऽत्र पादे निराकृत इति । कण्ठत इति योज्यम् । मताविशेषेणार्थान्निराकरणस्योत्तरनये स्फुटत्वात् । इत्युक्तत्वादिति । एतत्पादादाविति भावः ।
यादुपत्यम्
मायावादिना तुल्यं वर्तत इति । तथा च ‘तेन तुल्यं क्रिया चेद्वतिरि’त्यनेनेवात्र वतिर्न ‘तत्र तस्ये’त्यनेन, षष्ठीसप्तम्यर्थयाः प्रकृतेऽन्यवासम्भवादिति ज्ञातव्यम् ।
**श्रीनिवासतीर्थीया **
द्विविधं प्रत्यक्षमनुमानं चेति द्विविधमित्यर्थः । कुतो द्वैविध्यमित्यत आह प्रमेयेति । परोक्षापरोक्षरूपप्रमेयेत्यर्थः । ‘तत्र तस्येवे’त्यस्यायोगादाह मायावादिनेति ॥ अप्रसक्तेरिति । तस्यापि सूत्रोत्पत्युत्तरकालीनत्वदित्यर्थः ।
**वाक्यार्थरत्नमाला **
सति विशेष्ये बाध इति । एतच्च न्यायस्य बाधमूलकत्वं पररीत्यैवाङ्गीकृत्योक्तम् । वस्तुतः स्वमते न जीर्णमलवद्वासाः स्नातकः स्यादित्यादौ उभयनिषेधगौरवेण लाघवादेकस्य विशेषणस्यैव निषेध इति जिज्ञासाधिकरणोक्तरीत्याऽत्रापि उभयस्य त्यागविषयत्वस्वीकारे गौरवादेकस्य विशेषणस्यैव त्यागविषयत्वमिति नानुपपत्तिरिति बोध्यम् । अभ्युपगमेपीति । तेनेति शेषः । अनुवर्तते वा । अनभ्युपगमादित्यत्राप्येवमेव । वैभाषिकादिभिरित्यादिपदेन सौत्रान्तिकव्यतिरिक्तमाध्यमिकादिपरिग्रहः ।