०५ क्षणिकत्वानुमाननिराकरणम्

स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु

क्षणिकत्वानुमाननिराकरणम्

स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु

सुधा

सूत्रद्वयार्थमुपसंहरति स्वीकारेति ।

अनुव्याख्यानम्

स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु ॥

गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥

अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तो दृष्टस्य स्थिरत्वादेस्त्यागतः । असौ सौगतः । अधिकं स्वत इति शेषः । उन्मत्तमपि स्वस्मादधिकविवेकवन्तं (स्था) ख्यापयतीत्यर्थः । न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।

ननु (च) यदि नीलादिकं क्षणिकं न स्यात्तदा सन्न स्यात् । अर्थक्रियाकारित्वं हि सत्वम् । व्याप्तं च क्रमयौगपद्याभ्याम् । तृतीयप्रकाराभावात् । न च स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् । तथा हि । स्थायीभावः किं (स्वी)स्वकीयामर्थक्रियां क्रमेण कुर्याद्युगपद्वा । आद्ये कालान्तरभाविनीमर्थक्रियां प्रतीदानीं समर्थो न वा । प्रथमे तामपीदानीमेव कुर्यात् । समर्थस्य क्षेपायोगात् । द्वितीये तदाऽपि न कुर्यात् । इदानीमसमर्थोऽपि तदानीं समर्थत्वात्करिष्यतीति चेत् । तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । द्वितीये त्वाद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वाद् द्वितीयादिक्षणेऽसत्वमवर्जनीयमेव । तदेवमनुकूलतर्कबललब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्वात्प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति । मैवम् । एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽऽभासत्वात् ।

शेषवाक्यार्थचन्द्रिका

नन्वक्षणिकत्वेऽपि सत्वं भविष्यतीत्यप्रयोजकमेतदित्यतोऽक्षणिकत्वे सत्वानुपपत्तिं दर्शयितुं हेतूकृतं सत्वं तावन्निर्वक्ति । अर्थेति । अर्थक्रियाकारित्वमेव सत्वमित्यर्थः । निष्प्रमाणकत्वात्सामान्यविशेषसमवायानां सत्तासामान्याधारत्वानभ्युपगमेन तेषामसत्वप्रसङ्गाच्च सत्तासामान्यस्य, प्रमां प्रत्यालम्बनत्वस्यार्थक्रियाकारित्वप्रभेदरूपतया प्रमाणविषयतारूपप्रमाणग्राह्यताया अपि तत्वायोगादिति भावः । नन्वक्षणिकस्य भावस्याप्यर्थक्रियाकारित्वरूपं सत्वं नानुपपन्नमित्यप्रयोकत्वतादवस्थ्यमित्यतोऽक्षणिके भावेऽर्थक्रियाकारित्वरूपसत्वव्यापकस्य निवृत्त्या तद्-व्याप्यसत्वस्यापि निवृत्त्युपपत्तेर्नानुपपत्तिरित्यभिप्रेत्य किं तत्सत्त्वव्यापकं, यन्निवृत्याऽर्थक्रियाकारित्वरूपसत्त्वनिवृत्तिः स्यादित्यतस्तव्द्यापकं तावदुपदर्शयति व्याप्तं चेति । क्रमयौगपद्यान्यतरेण व्याप्तमित्यर्थः । ननु क्रमयौगपद्याभ्यामिव विधान्तरेणाप्यर्थक्रियाकारित्वसम्भवान्न तस्य तव्द्याप्यत्वमित्यतः क्रमाक्रमयोः परस्पराभावरूपतयाऽन्यतरनिषेधस्यान्यतरविधिनान्तरीयकत्वेन प्रकारान्तराभावात्तत्सिद्धिरित्यभिप्रेत्य तदभावमाह तृतीयेति । अस्त्वर्थक्रियाकारित्वस्य क्रमाक्रमान्यतरव्याप्तत्वं, किं तावताऽपीत्यतोऽक्षणिकेऽर्थक्रियाकारित्वरूपसत्त्वव्यापकयोः क्रमाक्रमयोरसम्भवेन व्यापकव्यावृत्त्या तव्द्याप्यस्यार्थक्रियाकारित्वरूपसत्वस्यपि व्यावृत्तिसिद्धेर्नाप्रयोजकत्वमित्यभिप्रेत्याक्षणिके व्यापकयोः क्रमाक्रमयोरसम्भवमाह न चेति । तत्सम्भवः क्रमयौगपद्ययोः सम्भव इत्यर्थः ।

तत्र हेतुमाह प्रसङ्गेति । अक्षणिकस्य भावस्य क्रमेणार्थक्रियाकारितायामक्रमेणार्थक्रियाकारितयां च प्रसङ्गस्य प्रसङ्गविपर्ययस्य च प्राप्त्या न क्रमाक्रमौ सम्भवत इति भावः । कथं पक्षद्वयेऽपि प्रसङ्गतद्विपर्ययप्राप्तिरित्यत एकैकपक्षेऽपि तदुभयमुपदर्शयितुं प्रतिजानीते तथा हीति । पक्षद्वयेऽपि प्रसङ्गतद्विपर्ययावुपदर्शयितुं विकल्पयति स्थायीभाव इत्यादिना । तत्र क्रमपक्षे कथं प्रसङ्गतद्विपर्ययावित्यत एकत्रैव पक्षे तयोरप्रवृत्तेः पक्षभेदेन तावुपस्थापयितुं विकल्पयति आद्य इति । क्रमे प्रसङ्गमुपदर्शयति प्रथम इति । यद्यदा यत्कार्यं प्रति समर्थं तत्तदा तत्करोत्येव, यथा सहकारिमध्यमध्यासीनं बीजमङ्कुरसमर्थमङ्कुरकारीति नियमात्स्थायीभावस्य प्रथमक्षणे कालान्तरभाव्यर्थक्रियाकारित्वसमर्थत्वे तत्कारित्वमवर्जनीयमेवेत्याह समर्थस्येति । क्षेपो विक्षेपो विलम्ब इति यावत् । क्रमे तद्विपर्यमप्युपपादयति द्वितीय इति । तद्यदसमर्थं तन्न तत्कारि, यथा शिलाशकलमङ्कुरासमर्थं न तत्कारीति नियमादसमर्थत्वे कालान्तरभाव्यर्थक्रियाकारितायां स्थायीभावस्य कालन्तरेऽपि तदकारित्वमावश्यकमिति भावः । तन्मतेऽभावस्य तुच्छत्वेन विरुद्धधर्माध्यासस्य तत्र भेदकत्वासम्भवाद्भावं भिन्द्यादित्यत्र भावपदमिति बोध्यम् । यौगपद्यपक्षेऽपि यावद्धि कार्यं तेनाक्षणिकेन प्रथमे क्षणे सम्पादितं तावत्सर्वमपि सम्पादयितुं द्वितीयादिक्षणेषु समर्थो न वेति वाच्यम् । आद्ये तावत्सर्वमपि द्वितीयादिक्षणेष्वपि सम्पादयेत् । तावत्कार्यसम्पादनस्वरूपस्य द्वितीयादिक्षणेष्वपि भावात् । न च सम्पादितं पुनः शक्यसम्पादनमित्यतो यद्द्वितीयादिक्षणेषु सम्पादयति तत्प्रथमक्षणे संपादितादन्यदित्येव वाच्यम् । तथा च क्रमपक्ष एव पर्यवसन्नः । तत्र च द्वितीयक्षणे सम्पदनीयामर्थक्रियां प्रतीदानीं समर्थो न वा । प्रथमे तामपीदानीमेव कुर्यात् । द्वितीये तदाऽपि न कुर्यात् । इदानीमसमर्थोऽपि तदानीं समर्थत्वात्करिष्यतीति चेत् । तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् । प्रथमक्षणे यावत्सम्पादितं तावत्सर्वमपि द्वितीयादिक्षणे सम्पादयितुमसमर्थ इति द्वितीये प्रथमक्षणेऽपि न कुर्यात् । तदानीं समर्थोऽपीदानीमसमर्थत्वान्न करिष्यतीति च न वाच्यम् । तथा सति सामर्थ्यासमार्थ्यलक्षणविरुद्धधर्माध्यासप्राप्त्या भावभेदप्रसङ्गादिति पूर्वोक्तप्रकारेणैव प्रसङ्गतद्विपर्यययोः स्पष्टप्रतिभासत्वेन शिष्यैरेव ज्ञातुं शक्यत्वात्किं तद्वचनेनेत्यभिप्रेत्य तावनुपपाद्य दूषणान्तरमेवाह द्वितीयेति ।

**परिमल **

सूत्रद्वयार्थमिति । ‘समुदाय उभयहेतुकेऽपी’ति ‘इतरेतरप्रत्ययत्वादि’ति च सूत्रद्वयार्थमित्यर्थः । यद्वा ‘आकाशे चाविशेषात्’ ‘अनुस्मृतेश्चे’ति सूत्रद्वयार्थमित्यर्थः । ‘दृश्यते प्रत्यभिज्ञात’ इत्यनेनानुस्मृतेरित्यस्य, ‘आकाशस्याविशेषत’ इत्यनेनाकाशे चेत्यस्य च व्याख्योपक्रमा ॥ क्षणिकत्वादेरिति । न दृश्यते, दृश्यते चेति क्षणिकत्वस्थायित्वादेरदृष्टत्वदृष्टत्वयोरुक्तेरिति भावः । क्षणिकत्वानुमानस्य प्राबल्यमाशङ्कते ननु च यदीति ॥ क्रमयौगपद्याभ्यामिति । क्रमेण यौगपद्येन वा व्याप्तमित्यर्थः ॥ तत्सम्भव इति । क्रमयौगपद्ययोः सम्भवो न चेत्यर्थः । तत्र हेतुः प्रसङ्गतद्विपर्ययाभ्यामिति । प्रसङ्गोऽनिष्टापादनं, तद्विपर्ययस्तद्विपर्यये पर्यवसानम् । विकल्पमुखेन प्रसङ्गमात्रं तावव्द्यनक्ति स्थायीभावः किमिति । भावं भिन्द्यादित्यनन्तरमतो न क्रमेणेति । अवर्जनीयमेवेत्यनन्तरं न युगपदर्थक्रियाकारित्वमिति च व्यापकीभूतक्रमयौगपद्ययोरयोगे तव्द्याप्यार्थक्रियाकारित्वं सत्वं स्थायित्वे वस्तुनो न युक्तमिति तस्य विपर्यये पर्यवसानं स्फुटत्वान्नोक्तम् । लब्धपतिबन्धस्य लब्धव्याप्तिकस्येत्यर्थः । न स्थैर्यसाधनायेति विभागः । तर्कपराहतत्वादिनेत्यादिपदेन ‘अनुमानेन तर्कोऽपि व्याख्यात’ इति वक्ष्यमाणव्याप्तिरहितत्वादिग्रहः । यद्वा पूर्वभावभवमित्यादौ वक्ष्यमाणाननुकूलत्वाभावग्रहः ।

यादुपत्यं

क्रमयौगपद्याभ्यामिति । क्रमयौगपद्यान्यतरेण व्याप्तमित्यर्थः ॥ तत्सम्भव इति । क्रमयौगपद्ययोः सम्भव इत्यर्थः ॥ प्रसङ्गेति । अत्र क्रमे प्रसङ्गो यौगपद्ये तद्विपर्ययो हेतुरिति विवेकः । प्रसङ्गशब्देन चानिष्टप्रसङ्गोऽतिप्रसङ्गो वा ग्राह्यः । तद्विपर्ययशब्दस्य च तस्यार्थक्रियाकारित्वरूपसत्वस्य विपर्ययोऽभाव इत्यर्थो विवक्षितः । क्रमे प्रसङ्गमुपपादयितुमाह आद्ये कालान्तरेति ॥ क्षेपेति । क्षेपो विक्षेपो, विलम्ब इति यावत् । कारणे सति कार्यं भवत्येवेति तन्मते नियमादिति भावः॥ विरुद्धधर्मेति । न च कालभेदेनाविरोधान्न भेद इति वाच्यम् । सामर्थ्यस्य धर्मिस्वरूपत्वेन तदभावे धर्मिभेदस्यावश्यकत्वादित्याशयात् । भावं भिन्द्यादित्यत्र भावशब्दः पदार्थशब्दपर्यायः । तेन विरुद्धधर्माधिकरणत्वस्याभावेऽपि भेदहेतुत्वाद्भावपदमनर्थकमिति शङ्काऽनवकाशः । केचित्वभावस्य तन्मते निर्धर्मकत्वात्तत्र विरुद्धधर्माध्यासो न भेदहेतुरित्यभिप्रेत्य भावपदं प्रसिद्धभावपरमेवेत्याहुः । यौगपद्ये तद्विपर्ययमुपपादयति द्वितीये त्विति । यद्वा प्रसङ्गतद्विपर्ययमुपपादयति द्वितीये त्विति । यद्वा प्रसङ्गतद्विपर्ययाभ्यामित्यस्य विपर्ययपर्यवसानसहितानिष्टप्रसङ्गसद्भावादित्येवार्थः । अत्र च विपर्ययपर्यवसानमध्याहार्यमतो न न्यूनतेति ध्येयम् ।

**वाक्यार्थरत्नमाला **

…….. अनुसारेणाह । निष्प्रमाणकत्वादित्यादिना । …… अनुसारेणाह । यद्यदा यत्कार्यं प्रतीत्यादिना । ….. अनुसारेण स्वयं दूषणान्तरमभिधायमूले तदनुक्तौ निमित्तमाह । यौगपद्यपक्षेऽ पीत्यादिना दूषणान्तरमेवाहेत्यन्तेन । यथास्थितपूर्वप्रकारायोगात्तत्र तत्रप्रकारान्तराश्रयणमिति ज्ञेयम् ।


स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु

स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु

सुधा

तथा हि । यद्यात्मानात्मप्रपञ्चः सर्वोऽपि क्षणिकः स्यात्तदा प्रमाऽप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत । तर्कस्याप्यस्य नोत्थानं स्यात् । तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयःसम्बन्धावगमे (न) तादात्म्यतदुत्पत्त्यवधारणेन चो(वो)पाध्यभावा(द्य)वधारणेन वा व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम् । अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च । ततोऽनुभूतव्याप्तिस्मरणम् । अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षेऽस्तीत्यनुसन्धानम् । अथेदानीमनुमितिरित्यनुमानप्रक्रिया । न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति । येन हि सकृद् धूमो दृष्टो नष्ट एवासौ । कस्य भूयोदर्शनं कस्य च व्याप्त्यवधारणादि । यस्मिंश्च पर्वते धूमो दृष्टो नष्ट एवासौ । कुत्र पुनर्व्याप्ति लिङ्गानुसन्धानम् । कुत्र च साध्याध्यवसायः ।

शेषवाक्यार्थचन्द्रिका

अनुकूलतर्कबललब्धप्रतिबन्धस्येत्यत्र प्रतिबन्धो व्याप्तिर्जात्यादिरूपैकव्यक्तिकहेत्वाद्यभिप्रायेणाह तस्य तेनेति । धूमवन्ह्यादिरूपानेकव्यक्तिकहेत्वाद्यभिप्रायेणाह तज्जातीयस्य तज्जातीयेनेति । शिंशुपात्वस्य वृक्षत्वेन तादात्म्यावधारणेन, धूमस्य वह्निना तदुत्पत्त्यवधारणेन तत्र व्यभिचाराभावनिश्चयसम्भवेऽपि रसेन रूपानुमानस्थले उक्तेन प्रकारद्वयेन न व्यभिचाराभावनिश्चयः सम्भवति । तत्र तादात्म्यतदुत्पत्त्योत्सत्वात्कथं तत्र व्यभिचाराभावनिश्चय इत्यत उक्तम् उपाध्यभावाद्यवधारणेन वेति ॥ व्याप्तत्वेन ज्ञातमिति । अत्र व्याप्तिज्ञानस्य पूर्वमसत्वे व्याप्तलिङ्गमत्रास्तीति परामर्शो न सम्भवतीत्यिभिप्रेत्यैवैतन्मया व्याप्तत्वेन ज्ञातमित्याद्युक्तं, न तु स्वातन्त्र्येण तदपेक्षितमित्यभिप्रायेण । व्याप्तं लिङ्गमस्तीति ज्ञान सद्भावे तज्ज्ञानविलम्बेन कार्यविलम्बाभावेन तन्मात्रेणैव चारितार्थ्यादित्यवधेयम् ।

**परिमल **

एकानेकव्यक्तिहेतुसाध्याभिप्रायेणाह तस्य तज्जातीयस्य वेत्यदि । तादात्म्यतदुत्पत्ती एव व्याप्तिनियामिके इति पराङ्गीकारादाह तादात्म्येति । अयं वृक्षश्चूतत्वादित्यादौ तादात्म्यम् । धूमाग्न्यादौ तदुत्पत्त्यादि ज्ञेयम् । मतान्तराभिप्रायेणाह उपाध्यभावादीति । अवधृतव्याप्तेरिति । पुंस इति योज्यम् ।

यादुपत्यं

तस्येति । इदं च जात्यादिरूपैकव्यक्तिकहेत्वभिप्रायेण । धूमादिरूपानेकव्यक्तिकहेत्वभिप्रायेण तज्जातीयस्येत्यादि ।

**श्रीनिवासतीर्थीया **

तस्य तेनेति । शिंशुपात्ववृक्षत्वयोस्तादात्म्येन व्याप्त्यवधारणप्रकारः ॥ तज्जातीस्येति । धूमजातीयस्य वन्हिजातीयेनेति तदुत्पत्त्या भिन्नस्थले तदवधारणप्रकारः ।

**वाक्यार्थरत्नमाला **

जात्यादिरूपैकव्यक्तिकेति । जाति; आदिपदेनाकाशादि । तद्रूपा एकैव व्यक्तिः साध्यसाधनभूतावा यस्य हेतोः साध्यस्य वा तद्धेत्वादि तदभिप्रायेणाहेत्यर्थः । यत्र जातिः साध्यभूतावा साधनभूतावा तत्र तज्जातीयत्वानुपपत्या तस्य तेन व्याप्तिरित्यर्थः । एवमनेकव्यक्तिकेत्यत्रापि अनेका वह्निधूमादिरूपा व्यक्तिः साध्यभूता साधनभूतावा यस्य साधनस्य साध्यस्य वा तादृशसाधनसाध्याभिप्रायेणेत्यर्थो ज्ञेयः । …..अनुसारेणाह । अत्र व्याप्तिज्ञानस्येत्यादिना ।