कार्यसम्भूतिमात्रव्यापृति कारणम्
आक्षेपनिराकरणम्
कार्यसम्भूतिमात्रव्यापृति कारणम्
सुधा
समाधानांशं व्याचष्टे कार्येति ।
अनुव्याख्यानम्
… … कार्यसम्भूतिमात्रव्यापृति कारणम् ॥
न तु कार्यविशेषेषु व्यापृतं कारणं भवेत् ॥
कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तं कारणं कार्यसम्भूतिमात्रव्यापृति यतस्ततो नेति शेषः । यथाश्रुतमेतन्न परिहारक्षमम् अतोऽभिप्रायमाह न त्विति ।
विशिष्यन्त इति विशेषाः । कार्याण्येव विशेषाः कार्यविशेषाः । कारणमिति जातावेकवचनम् । कारणानि खलु स्वसदृशकार्यजननव्यापाराणि । न तु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।
शेषवाक्यार्थचन्द्रिका
न तत्परिहारक्षममिति । कारणस्य विसदृशकार्यजनकत्वाभावस्यात्रानुक्त्याऽनालम्बनपरमाणूनां सन्निकृष्टपरमाणुजनकत्वाभावस्यालाभादिति भावः । नन्वत्र कार्यविशेषषु कारणत्वाभावमात्रमुच्यते न तु विसदृशकार्यजनकत्वाभावो ऽतो नानेनाप्युक्ताक्षेपपरिहार इत्यतो नात्र कार्यनिष्टविशेषेष्वित्यर्थोऽभिमतः, किन्तु विशिष्टकार्येष्वित्येव, तथा चोक्तार्थलाभ इति भावेन विशिष्टवाचकतया विशेषपदं व्याचष्टे विशिष्यन्त इति विशेषा इति । तथाऽपि कार्यनिष्ठविशेषेष्वित्येवार्थप्राप्त्या विसदृशकार्यजनकत्वाभावालाभ इत्यतो व्याख्याति कार्याण्येवेति ॥ जातावेकवचनमिति । समुदाये एकवचनमित्यर्थः । अत एवाह कारणानीति ।
**परिमल **
विशिष्यन्त इति । व्यावर्त्यन्ते विलक्ष्यन्त इत्यर्थः । विसदृशा इति लभ्यते । विशेषकाल एवेत्यादाविव कर्मसाधनो विशेषशब्द इति भावः ।
यादुपत्यम्
भावव्युत्पत्या करणव्युत्पत्या वा लब्धार्तस्य प्रकृतानुपयोगादाह विशिष्यन्त इतीति । तथा च विशेषपदाद्विशिष्टवाचकाद्विसदृशरूपोऽर्थो लभ्यत इति ज्ञातव्यम् ।
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः
सुधा
किमतो यद्येवमित्यत आह अत इति ।
अनुव्याख्यानम्
अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ॥
संयोगिरूपराहित्यान्नैव तज्ज्ञानताऽपि हि ।
सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता ।) सा नैवोपपद्यते । कुतः । संयोगिरूपराहित्यात् । कारणयोरर्थेन्द्रिययोर्ग्राह्यग्राहकरूपराहित्यात् । आत्मनोऽपि कार्यस्य तत्समुदायविषयं ज्ञानं यस्यासौ तज्ज्ञानस्त(द्भा)स्य भावस्तज्ज्ञानता नैवोपपद्यते । कुतः । हि यस्मात्कारणस्यात्मनो नैव तज्ज्ञानताऽस्तीति योजना ।
शेषवाक्यार्थचन्द्रिका
ये अर्थेन्द्रिये इति । कार्यभूते इत्यर्थः ॥ कार्ययोः कारणतेति । तत्कार्यनिरूपितकारणतेत्यर्थः ॥ अर्थेन्द्रिययोरिति । कारणतयाऽभिमतयोरित्यर्थः ।
**परिमल **
अर्थेन्द्रियसंयोगिरूपेत्यत्र संयोगिपदं ग्राह्यग्राहकभावापन्नकार्यभूतार्थेन्द्रियपरम् । कंठोपात्तमर्थेन्द्रियपदं चातादृशकारणभूतार्थैद्रियपरमित्युपेत्य विग्रहमाह संयोगिरूप इति । संयोगिरूपे प्रति कारणतेति मूलाथमुपेत्याह तयोः कार्ययो; कारणतेति । तन्निरूपितकारणतेत्यर्थः । आत्मपदं च कार्यरूपात्मपरम् । तज्ज्ञानेति बहुव्रीहिः । तज्ज्ञानपदं च प्रकृतसमुदायज्ञानपरमित्युपेत्यार्थमाह आत्मन इति । आवर्तमानं चात्मपदं कारणीभूतात्मपरमित्युपेत्यारर्थान्तरमाह हि यस्मादित्यादिना ।
यादुपत्यं
ये अर्थेन्द्रिये इति । कार्यभूते इत्यर्थः । तयोः कार्ययोः कारणतेत्यत्र तत्कार्यनिरूपिता कारणतेत्यर्थः ॥ अर्थेन्द्रिययोरिति । कारणतयाऽभिमतयोरित्यर्थः ।
**श्रीनिवासतीर्थीया **
अर्थेन्द्रिययोर् अग्राह्याग्राहकयोः । अनालम्बनानधिपतिरूपयोरिति यावत् ।
**वाक्यार्थरत्नमाला **
अथेन्द्रियसंयोगिरूपकारणतेत्यत्रार्थेन्द्रिययोः कारणत्वमिव कार्यत्वं चास्तीति संयोगिरूपेत्यत्रापि अर्थेन्द्रिययोर्ग्रहणं कार्यमिति भावेन व्याचष्टे । मूले संयोगिरूपे इति ।