०६ परमाणुपुञ्जनिराकरणम्

स समुदायो हि नैकस्मादेव युज्यते

परमाणुपुञ्जनिराकरणम्

स समुदायो हि नैकस्मादेव युज्यते

सुधा

एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुर्यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्तीति तन्निराकर्तुं समुदाय उभयहेतुकेऽपि तदप्राप्तिरिति सूत्रं व्याचष्टे स इति ।

अनुव्याख्यानम्

…….. स समुदायो हि नैकस्मादेव युज्यते ॥

योऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।

नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः । न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते । समुदायकल्पनं वानर्थकमापद्येत । महत्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धोऽर्थो दर्शितः ।

द्वितीयं निराकरोति नेति ।

अनुव्याख्यानम्

नोभयोश्च …… …….

उभयग्रहणमनेकमात्रोपलक्षणम् । सकाशादिति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्यते ।

कुतो न युज्यत इति चेत् । अनेकहेतुकत्वेऽपि किमसमुदितानेकहेतुकोऽथ समुदितानेकहेतुक इति वक्तव्यम् ॥ आद्ये सर्वत्रा(पि) गोघटादिबुद्धिप्रसक्तिः । असमुदितपरमाणूनां सर्वत्र भावात् । समुदायस्य च तन्मात्रहेतुकत्वात् । समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्च ॥ द्वितीयानुपपत्तौ हेतुमाह उभयत्वमिति ।

अनुव्याख्यानम्

…… उभयत्वं यत्समुदायव्यपेक्षया ॥

यद्यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम् । जाते हि समुदायेऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः ।

शेषवाक्यार्थचन्द्रिका

निराकरणप्रस्ताव एवेति । ‘विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितं वदेति’त्यादिनेति शेषः । नन्वेकस्मादपि परमाणोः समुदायोत्पादः किन्न स्यादित्यतस् तर्ह्यविशेषादेकस्मात्तरोरपि तत्समुदायोत्पादः स्यात् । न चेष्टापत्तिः । तथा सति यो यत्समुदायः स तत्समुदायत्वप्रतीतिविषय इति व्याप्तेस् तरुसमुदायप्रतीतिप्रसङ्गादित्यतिप्रसङ्गमभिप्रेत्य तत्रेष्टापत्तिं परिहरति न हीति ॥ महत्वेति । कारणमहत्वतद्बहुत्वाभ्यां कार्ये महत्वदर्शनात्समुदायस्यैकपरमाणुहतेकत्वे तन्निष्ठमहत्वप्रयोजकस्य कारणमहत्वस्य तद्बहुत्वस्य चाभावेन तत्प्रयुक्तस्य समुदाये महत्वस्याप्यसम्भवात् तदभावे चैन्द्रियकत्वप्रयोजकधर्मशून्यत्वेन ऐन्द्रियकत्वस्याप्यभावप्रसङ्गादिति भावः । नन्वसमुदितानेकहेतुत्वाभ्युपगमात् ‘उभयत्वं यत्समुदायव्यपेक्षये’त्यन्योन्याश्रयत्वकथनानुपपत्तिरित्यतः समुदितानेकहेतुकत्वम् एव तदभिधानान्न तदनुपपत्तिरित्यभिप्रेत्य तत्पक्षनिराकरणपरतयोत्तरभाष्यं योजयितुमनेकहेतुकत्वं विकल्प्य प्रथमपक्षं तावद्बहिरेव दूषयति अनेकहेतुकत्वेऽपीति । यद्यप्यत्रान्यथा सर्वदा समुदायत्वं स्यादि’ति भाष्यानुसारेणामिलितपरमाणूनां सदा सद्भावेन समुदायस्यपि सदातनत्वापत्त्या प्रलयाभ्युपगमविरोधापत्तिरिति बाधकं वक्तुं शक्यते । तथाऽपि स्पष्टत्वात्तच्छिष्यैरेवोह्यतामिति भावेनातिप्रसङ्गान्तरमेवाह आद्ये सर्वत्रेति । न च कालकर्मादिनिमित्तस्य क्वाचित्कत्वान्न सर्वत्र समुदयोत्पत्तिरिति सर्वत्र गोघटादिबुध्द्यभावो युक्त इति वाच्यम् । ‘अदृष्टमपि तस्यैव विशेषापादकं कुत’ इत्यादिना तस्य दूषयिष्यमाणत्वेन तद्बलेनोक्तातिप्रसङ्गपरिहारानुपपत्तौ तात्पर्यात् ॥ समुदायाङ्गीकारवैयर्थ्यप्रसङ्गश्चेति । महत्वैन्द्रियकत्वयोरसमर्थनादिति भावः । यद्यप्यस्मिन्पक्षेऽसमुदितपरमाणूनामनेकत्वात्तद्धेतुके समुदाये तत्प्रयुक्तं महत्वं तत्प्रयुक्तं चैन्द्रियकत्वं वक्तुं युक्तं, तथाऽपि सन्निकृष्टकारणगतानेकत्वस्येव कार्ये महत्वारम्भकत्वदर्शनात्प्रकृते च तद्विरहान्न महत्वारम्भ इत्याशयात् ।

परमाणूनामनेकत्वात्कार्ये समुदाये महत्वस्य तत्प्रयुक्तैन्द्रियकत्वस्य च उपपत्तिरिति वाच्यम् । सन्निकृष्टानेकत्वस्यैव कार्ये महत्वसम्पादकतया अन्यत्र दृष्टत्वात्’ प्रकृते तदभावात्तयोरनिर्वाहादित्याहुः ।

**परिमल **

अनेनेति । युज्यत इत्यन्तेन ग्रन्थेन ॥ उभयहेतुकेऽपीति सौत्रापिशब्दलब्धार्थ इत्यर्थः ।

यादुपत्यं

नन्वेकस्मात्परमाणोः पारमार्थिकस्योत्पत्तेरनुपपन्नत्वेऽपि(समुदायस्य) सांवृतस्य तस्योत्पत्तिर्नानुपपन्नेत्यत आह न ह्येकैकस्मिन्निति । सांवृतोऽपि प्रतीत्यैव कल्प्यो नान्यथेति भाव; ॥ असमर्थितत्वादिति । भ्रान्तिकल्पितसमुदायेन तयोरुपपादयितुमशक्यत्वादित्यर्थः ॥ आद्ये सर्वत्रापीति । यद्यप्यत्रान्यथा सर्वदा समुदायसत्वं स्यादिति भाष्य उक्तत्वात्समुदायस्य सदा सत्वं स्यात्ततश्च प्रलयाद्यनुपपत्तिरित्येव वक्तव्यम् । तथाऽपि तद्भाष्यमुपलक्षणाभिप्रायमित्याशयेनात्रातिप्रसङ्गान्तरमेतदुक्तमिति ज्ञातव्यम् । न च कालकर्मादिनिमित्तस्य क्वाचित्कत्वान्न सर्वत्रापि गोघटादिबुद्धिप्रसङ्ग इति वाच्यम् । ‘अदृष्टमपि तस्यैव विशेषापादकं कुत’ इत्यग्रे तस्य दूष्यत्वादित्याशयात् ॥ समुदायाङ्गीकारेति । असमुदितानेकेष्वङ्गीक्रियमाणः समुदायो ह्यनेकत्वरूपो वा सांवृवो वा वक्तव्यः । न च ताभ्यां महत्वेन्द्रियकत्वादेः समर्थनं सम्भवति । यस्तु महत्वाद्युपपादकोऽन्योन्यसंयोगरूपः समुदायः स नासमुदितानेकेष्वङ्गीकर्तुं शक्यः । संयोगस्य विरलानेकधर्मत्वासम्भवात् । अतोऽसमुदितानेकेष्वङ्गीक्रियमाणस्यानेकत्वरूपस्य सांवृतस्य वा समुदायस्य महत्वाद्यनुपपादकत्वादन्यस्य च तदङ्गीकारप्रयोजनस्य त्वन्मतेऽभावात्समुदायाङ्गीकारो व्यर्थः स्यादित्यर्थः ।

**श्रीनिवासतीर्थीया **

नन्वसमुदितपरमाणूनां सर्वत्र सत्वेऽपि समुदायाभावान्न सर्वत्र गोघटादिबुद्धिप्रसङ्ग इत्यत आह समुदायस्य चेति । तथा च समुदायाभावोऽसिद्ध इति भावः ॥ समुदायाङ्गीकारेति । विरलानेकपरमाणूनां सदा सत्वेन तज्जन्यसमुदायस्यापि सदा सत्वात्प्रलयो न स्यादित्यतिप्रसङ्गस्यापरिहारेण समुदायाङ्गीकारो व्यर्थ इत्यर्थः । यद्वा एको महानित्यादिविरोधपरिहाराय महत्वैन्द्रियकत्वसमर्थनाय हि समुदायोऽङ्गीक्रियते । न चैवं सति तौ समर्थितौ भवतः । कारणस्य स्वसदृशकार्यजननस्वभावत्वेन विरलानेकपरमाणुभ्यः सम्मेलनरूपसमुदायोत्पत्त्ययोगेन समुदायस्यानेकत्वरूपतैव वाच्या । अनेकपरमाणव एव समुदायः । तदनेकत्वमेव समुदायत्वमिति वाच्यमिति यावत् । तथा च विरलपरमाणुभिरनेकपरमाणुरूपसमुदायाङ्गीकारेऽपि, महत्त्वैन्द्रियकत्वयोर्न समर्थित्वादन्योन्यसंयोगरूपसमुदायस्यैव महत्वाद्युपपादकत्वात् । तथा चैको महानित्यादिप्रत्यक्षप्रत्ययविरोध इति पूर्वोक्तातिप्रसङ्गानिवारणात्समुदायाङ्गीकारो व्यर्थ एवापन्न इत्यर्थः ।


अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते

अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते

सुधा

समुदितानेकत्वस्य समुदायसापेक्षत्वेऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति अत इति ।

अनुव्याख्यानम्

अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते ॥

समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः । समुदायानु(त्पत्तौ)पपत्तौ चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरताऽयोगादवश्यमङ्गीकरणीयोऽवयवीति । किञ्चायं समुदायः किं परमाणूनां संयोगः किंवाऽनेकत्वसङ्ख्या । उत द्रव्यान्तरम् । नाद्यद्वितीयौ । अनङ्गीकारात् । अङ्गीकारेऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः । तृतीये स एवावयवी । सांवृतोऽसाविति चेत् । तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव । भ्रान्तिरियमिति चेत्(न) । भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचिन्महत्वादेर्वास्तवत्वप्रसङ्गात् । अनादिवासनावशादनादिरेवेयं भ्रान्तिरिति चेन्न । नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।

शेषवाक्यार्थचन्द्रिका

अन्योन्याश्रयत्वेनेति मूलमुपलक्षणपरमित्याशयवानाह किञ्चेति ॥ ऐन्द्रियकत्वानुपपत्तिरिति । द्रव्यग्रहणयोग्यताव्यापकयोग्यताकत्वात्संयोगानेकत्वसङ्ख्ययोरिति भावः ॥ स एवावयवीति । तथा च परमाणुसमुदायं गोघटादिबुद्धिबोध्यमङ्गीकुर्वाणेन परमाणुभिन्नद्रव्यान्तररूपस्यावयविनोऽङ्गीकृतत्वेन परमाणुव्यतिरिक्तोऽवयवी नाम नास्तीति प्रतिज्ञाव्याघात इति भावः ॥ सांवृत इति । पारमार्थिक एवावयवी पूर्वं निषिद्धो, न कल्पितोऽपीति कल्पितावयव्यभ्युपगमे न व्याघात इति भावः । समुदायस्य कल्पितत्वे तद्विषयस्यैको महानित्यादिप्रत्ययस्य प्रमात्वाभावापत्त्या तत्प्रमात्वसिध्द्यर्थं समुदायस्य पारमार्थिकत्वस्यावश्याभ्युपगम्यत्वात् प्रतिज्ञाव्याघातोऽवर्जनीय एवेत्याशयेन परिहरति तर्हीति । एको महानित्यादिप्रत्ययस्य भ्रमत्वात्प्रमात्वाभाव इष्ट एवेति तदापादनमिष्यापादनमेवेत्याशङ्कते भ्रान्तिरेवेति । तथा च तद्विषयस्य कल्पितत्वान्न व्याघात इति भावः । भ्रान्तेः सत्यप्रधानसापेक्षत्वेन क्वचिदपि महत्वादेर्वास्तवत्वं विनाऽयोगात्क्वचिद्वास्तवत्वं वाच्यम् । तथा च यत्रैव महत्वादिकं वास्तवं, तस्यैवावयविनः पारमार्थिकत्वादुक्तप्रतिज्ञाविरोधतादवस्थ्यमित्याशयेन समाधत्ते भ्रान्तेरिति ।

ननु प्रधानं न स्वरूपेण भ्रान्तिहेतुस् तथा सति अज्ञातरजतस्यापि तत्समारोपप्रसङ्गात् । नापि ज्ञानेन तस्य चिरविनष्टस्य भ्रमकारणताया बाधितत्वात् । किन्तु तत्संस्कारः स च तत्प्रमयेव तद्भ्रमेणापि सम्भवति । न च प्रमाजन्य एव संस्कारो भ्रमहेतुः । सत्यपि संस्कारे प्रमाजन्यत्वाभावेन भ्रमाभावादर्शनात् । न च अध्यस्तमेव देशान्तरादौ सदिति त्वया वक्तुं युक्तम् । तथा सति तार्किकचरणानुसरणप्रसङ्गात् । न च प्रथमारोपानुपपत्तिर् अनादित्वाद् आरोपपरम्परायाः । न हीदम्पूर्वोऽयं महत्वादेरारोपः । न च कल्परद्यभ्रमानुपपत्तिः । पूर्वकल्पानुभवजन्यसंस्कारस्य तत्रापि सद्भावात् । ततश्चावयविनो वास्तवत्वाप्राप्तेर्न प्रतिज्ञाव्याघात इत्याशयेन शङ्कते अनादीति । अनादिभ्रमप्रवाहोत्पन्नसंस्कारवशादित्यर्थः ॥ नीलादिज्ञानस्यापीति । महत्त्वादिज्ञानस्यानादिवासनावशादनादिभ्रान्तित्वात्क्वचिदपि महत्वादेर्वास्तवत्वाभाववन् नीलादिज्ञानस्याप्यनादिवासनावशादनादिभ्रान्तिताया वक्तुं शक्यत्वेन तद्विषयस्य नीलादेरपि वास्तवत्वाभावापत्त्या रूपादिस्कन्धानां सत्त्वाभावात्क्षणिकत्वाभावप्रसङ्गादिति भावः ।

**परिमल **

नीलादिज्ञानस्यापि तथात्वप्रसङ्गादिति । तथा च रूपादिस्कन्धानामपि सत्त्वाभावेन क्षणिकत्वं न स्यादिति भावः ।

यादुपत्यम्

अन्योन्याश्रयत्वेनेति मूलमुपलक्षणपरमित्याशयेनाह किञ्चायमित्यादि ॥ अनङ्गीकारादिति । द्रव्यातिरिक्तसङ्ख्यादेरनङ्गीकारादित्यर्थः ॥ नीलादिज्ञानस्येति । तथा च रूपादिस्कन्धानां सत्त्वाभावेन क्षणिकत्वं न स्यादिति भावः ।

**श्रीनिवासतीर्थीया **

इतरेतरेति । समुदितानेकतः समुदायः समुदाये सत्यनेकेषां समुदितत्वमित्येवमितरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः ।

**वाक्यार्थरत्नमाला **

आश्रयातीन्द्रियत्वेऽपि कुतः संयोगादेरतीन्द्रियत्वमित्यत आह । द्रव्यग्रहणेति । यत्र गुणानां ग्रहणयोग्यता तत्र द्रव्यग्रहणयोग्यतेति व्याप्तेः प्रकृते द्रव्यस्य ग्रहणे योग्यताया अभावेन व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात्तद्-व्याप्यगुणस्यापि ग्रहणयोग्यता नास्तीति ऐन्द्रियकत्वानुपपत्तिरित्यर्थः । क्वचिदपि यन्महत्वादेर्वास्तवत्वं तद्विनेत्यर्थः । नचात्मन्यनात्मभ्रमः कुत्रापि दृष्ट इत्येतत्तत्वनिर्णयवाक्यावताररूपटीकायां प्रधानं किं स्वरूपेणेत्याद्युक्तं मिथ्यात्वहेतूनां प्रतिकूलतर्ककथनावसरे किं तु तत्संस्कार इत्यादि च न्यायामृते उक्तम् । समानन्यायेनात्र तदुभयानुसारेणावतारयति । ननु प्रधानमित्यादिना । यद्युक्तरीत्या प्रकारद्वयेनापि प्रधानस्य हेतुत्वाभावः । कस्तर्हि हेतुरित्याशयेन पृच्छति किं त्विति । उत्तरमाह । तत्संस्कार इति ।