ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ
॥ अथ समुदायाधिकरणम् ॥
॥ अथ परमाणुपुञ्जवादिमतनिराकरणम् ॥
बौद्धमतानुवादः
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ
सुधा
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यकिमा योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ॥ विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यपि वैभाषिकाश्चेति ।
अनुव्याख्यानम्
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ॥
आहुरिति वक्ष्यमाणेन सम्बन्धः । क्षणिकं क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात्कथं क्षणभङ्गित्वमित्यत उक्तं स्वरसेति । स्वभावेनैव क्षणिकं स्वभाव एवायं वस्तुनो यद्विनाशित्वम् । तत्र का कारणापेक्षा । मुद्गरादयोऽपि न वस्तुविनाशहेतवः किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।
शेषवाक्यार्थचन्द्रिका
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ आनन्तर्ये हेतुं सूचयन्नेव तदधिकरणप्रघट्टकप्रतिपाद्यमाह अथेदानीमिति । हैतुकनिराकरणानन्तरमिति भावः । अयम्भावः । समयास्तावद् द्विविधाः । हैतुकाः पाषण्डाश्चेति । ‘योगसाङ्ख्यकणादाक्षपादा वै हेतुवादिना । पश्वीशशाक्तबुद्धाद्याः पाषण्डा इति कीर्तिता’ इति स्मरणात् । तत्र हैतुका हेतुभिः प्रबला इति न एवादौ निराकार्या अनन्तरमेव च पाषण्डनिरासावसर इत्यतोऽत्र हैतुकनिरासानन्तरं पाषण्डनिरासः कर्तव्यः । पाषष्डोऽपि वेदप्रामाण्यानङ्गीकाराङ्गीकाराभ्यां द्वेधा भवति । तत्राद्योऽतिविरोधित्वादादौ निराकार्यः । स च बौद्धजैनभेदेन द्वेधा । तत्र बौद्धशास्त्रस्य प्रथमं निर्मितत्वात्प्राबल्याच्चादौ बौद्धा निराकार्या इति तत्पक्ष एवादौ निराक्रियत इति । वैभाषिकादिमतनिरासपरस्यास्य ग्रन्थस्य कथं सौगतनिरासकत्वमित्यतस् तदवान्तरभेदत्वाद्वैभाषिकादीनां तदुपपत्तिरिति भावेन तद्भेदमाह ते चेति ॥ चतुर्विधा इति ।
यद्यपि भगवानेक एव गुरस्तथाऽपि प्रतिपत्तिभेदाद् विनेयभेदाद्वा चातुर्विध्यमिति द्रष्टव्यम् । यद्यपि मन्दमध्यमोत्तमबुद्धिभेदाद्विनेयानां त्रैविध्यमेवेति तदेव च वक्तुं युक्तम् । अत एव साङ्करभाष्ये त एते त्रयो वादिनो भवन्तीत्यादिना तदेव दर्शितम् । तथाऽपि मन्दबुद्धीनां वैभाषिकसौत्रान्तिकभेदेन द्वैविध्याश्रयणात् साक्षात्परम्पराविभाजकोपाधीनेकीकृत्येयं चातुर्विध्योक्तिरिति द्रष्टव्यम् । ननु परमाणुपुञ्चरूपः क्षणिको बाह्योऽर्थो घटादिः सन्प्रत्यक्षश्चेति वदतो वैभाषिकात्सोऽनुमेय इति वदन् सौत्रान्तिकोऽत्यन्तविरोधी, ततोऽपि ज्ञानमेवास्ति न ततोऽतिरेकेण बाह्यर्थोऽस्तीति वदन्योगाचारोऽतितरां विरोधी, ततोऽपि सर्वशून्यवादी माध्यमिकोऽतितमां विरोधीति, माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकाः क्रमेणैव निराकार्याः । तत्कथमतिविरोधिनौ माध्यमिकयोगाचारौ प्रथममनिराकृत्य किञ्चिद्विरोधिनोर्वैभाषिकसौत्रान्तिकयोरेव प्रथमं निराकरणमित्याशङ्कां परिहरन्नेवैतदधिकरणप्रतिपाद्यमाह तत्रेति । परमाणुमयं परमाण्वारब्धम् ॥ निरसनप्रसङ्गादिति । परमाण्वारम्भवादनिरासेन तत्पुञ्जवादोपस्थितेः प्रसङ्गसङ्गत्या तन्निरास इति भावः । उपलक्षणं चैतत् । वैभाषिका हि परमाण्वाकाशदिक्कालात्ममनसां तथा सामान्यविशेषसमवायानां, तथा परमाणुपरिमाणादीनां गुणानां च केषाञ्चिन्नित्यतामभ्युमेत्य शेषाणां निरन्यवं विनाशपमुयन्तीत्यतस्तेऽर्धवैनाशिकाः । तेन तदुपन्यासो वैनाशिकत्वसाम्येन सर्ववैनाशिकान्स्मारयतीति प्रसङ्गसङ्गत्या तदनन्तरं वैनाशिकमतनिराकरणमित्यपि द्रष्टव्यम् । ननु योगाचारमाध्यमिकयोरिवि वैभाषिकसौत्रान्तिकयोरपि मतभेदसद्भावात्पृथगेव तन्मतं निरसनीयम् । तत्किमिति मतद्वयस्यैकीकृत्य निरास इत्यत उक्तम् अनतिभेदमिति । यद्यपि वैभाषिकाणां बाह्योऽर्थः प्रत्यक्षः, सौत्रान्तिकानां त्वनुमेय इत्यस्ति तन्मतयोरवान्तरभेदस् तथापि परमाणुपुञ्जरूपस्य क्षणिकस्य, बाह्यार्थस्य घटादेः सत्यताया, उभयसम्मतत्वान्नात्यन्तं तन्मतयोर्भेद इति परमाणुपुञ्जसत्ववादिमतत्वेनैकीकृत्य मतद्वयं तन्निरासो युक्त इति द्रष्टव्यम् ॥ ननु वैभाषिका इत्याद्युत्तरभाष्यमनर्थकम् । न चायं परमतोपन्यास इति वाच्यम् । तस्याप्यनर्थकत्वादित्याशङ्क्य विप्रतिपत्ति विषयप्रदर्शनेन वैभाषिकादयो जगत्सत्यत्वमभ्युपगच्छन्त्येव तत्कथं तन्निरासायाधिकरणारम्भ इत्याशङ्कापरिहारेणाधिकरणारम्भसमर्थनार्थत्वत्तन्मतोपन्यासस्य न वैयर्थ्यमित्यभिप्रेत्य विप्रतिपत्तिप्रदर्शनार्थतासूचनपूर्वकं तन्मतोपन्यासपरतया ग्रन्थतात्पर्यमाह विप्रतिपत्तीति ।
वक्ष्यमाणेनेति । ‘दुःखाभावं सुखं चाहुरि’त्युत्तरवाक्ये वक्ष्यमाणेनेत्यर्थः । ननु क्षणावस्थायित्वरूपक्षणिकत्वं सिद्धान्तेऽप्यभिमतं, तेन विना स्थायित्वानिर्वाहात् । न ह्यल्पाल्पतरकालावस्थायित्वं विना स्थायित्वं सूपपादम् । तत्कथमेतद् विप्रतिपत्तिविषयप्रदर्शनमित्यतो यथेदं विप्रतिपत्तिविषयप्रदर्शकं स्यात्तथा व्याचष्टे क्षणिकमिति । नन्वेवं मुद्गराभिघातादेर्विनाशहेतुत्वं न स्यादित्याशङ्क्येष्टापत्त्या परिहरति मुद्गरादय इति । तर्हि प्रयोजनान्तरस्याप्यभावादानर्थक्यमेव तेषामापन्नमिति पृच्छति किन्नामेति । प्रयोजनान्तरसद्भावान्नानर्थक्यमिति भावेन तदर्थत्वमाह घटादित इति ।
**परिमल **
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ । हैतुकनिरासानन्तरं पाषंडनिरासो भाष्यटीकोक्तरीत्यावसरप्राप्त इति स्मर्तव्यमिति भावेनाह अथेदानीमिति । वैदिकपाषंडापेक्षयाऽवैदिकपाषंडस्यातिविरोधित्वेन तन्निरासस्याद्यत्वद्योतनायेदानीमित्युक्तम् । चतुर्णां मध्ये द्वयोरादौ निरासे बीजमाह तत्र जगदिति । सत्यत्वपरमणुमयत्वाभ्यां वैशेषिकमतानतिभेदमित्यर्थः । यद्वा द्वयोः सहनिरासे हेतुमाह अनतिभेदमिति ॥ विप्रतिपत्तिमिति । निरासे बीजभूतामिति योज्यम् ॥
यादुपत्यम्
ॐ समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॐ ॥ अथेदानीमिति । समया द्विविधा हैतुकाः पाषण्डाश्चेति । ‘अक्षपादकणादौ च साङ्ख्ययोगौ च हैतुकाः । बैद्धपाशुपताद्यास्तु पेषण्डा इति कीर्तिताः’ इति वचनात् । तत्र हैतुकाः प्रबला युक्तिमत्त्वात् । अत पूर्वं ते निराकृताः । अथैवं हैतुकनिराकरणानन्तरं पाषण्डिमतमपाक्रियते । तदपि वेदप्रामाण्यानङ्गीकाराङ्गीकाराभ्यां द्वेधा । तत्राद्यमतिविरोधित्वादादौ निराकार्यम् । तदपि बौद्धजैनभेदेन द्वेधा । तत्र बौद्धमतस्य प्रथमनिर्मितत्वात्प्रबलत्वाच्च तदेवादावपाक्रियत इत्यर्थः । तदिदमाह इदानीमिति । नन्वेवं सर्वज्ञत्वादिवैभाषिकसौत्रान्तिकमतापेक्षया माध्यमिकयोगाचारमतयोर्जगदसत्ववादिमतत्वेनातितरां विरोधित्वात्त एवादौ निराकार्ये इत्यत आह तत्र जगत्सत्यमेवेति । वैमाषिकसौत्रान्तिकमतेऽपि जगतः सत्यत्वपरमाणुमयत्वयोरभिधानादिति भावः । इयांस्तु विशेषः । वैशेषिकादिमते सत्यं जगत् स्थायि परमाणुकार्यं च । वैभाषिकसौत्रान्तिकमते तु क्षणिकं परमाणुपुञ्जरूपं चेति । तदिदमाह अनतिभेदमिति । तथा च जगत्सत्यत्वपरमाणुमयत्वा(व)दिवैशेषिकमतनिरासेन तादृशवैभाषिकसौत्रान्तकमतयोः स्मारितत्वात्प्रसङ्गसङ्गत्यैव तन्मतमादौ निराक्रियत इत्यर्थः ॥
**वाक्यार्थरत्नमाला **
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ हेतुं सूचयन्निति । अयं भाव इत्यादिना तत्पक्ष एव निराक्रियत इत्यन्तेन तत्सूचनप्रकारोऽनुपदमेव व्यक्तो भविष्यति । प्रघट्टकेत्युक्तयैतदधिकरण एवाशेषसौगतमतनिरासप्रतिज्ञेयं न भवति किं तु स्याद्वादिजैनाधिकरणपर्यंतमधिकरणत्रयान्तं सौगतमतनिराकरणप्रतिज्ञेयमिति ज्ञापितं भवति । अथेदानीमित्युक्तया सूचितामानन्तर्यसङ्गतिं स्पष्टयितुमथेत्येतत्तावद्य्वाचष्टे । हैतुकेति । समया द्विविधा हैतुकपाषण्डभेदात् । तत्र समया द्विविधा हेतुकाः पाषण्डाश्चेति । उक्तं हीत्याद्येतत्पादप्रथमाधिकरणीय तत्वप्रकाशिकाचन्द्रिकानुसारेण तथैतदधिकरणीयतत्वप्रकाशिकानुसारेण च विवेकेनानन्तर्यं स्पष्टयन्नाह । अयं भाव इत्यादिना निराक्रियत इत्यन्तेन । तदवान्तरेति । सौगतवान्तरेत्यर्थः । वैभाषिका सौत्रान्तिका इति बहुवचनानुसारेण वैभाषिकादीनामित्युक्तम् । एक एव गुरुरिति । आदिबुद्धशिष्याणामिति परिमले उक्तेर्बुद्धलक्षण इत्यर्थः।
शाङ्करभाष्यानुसारेण समाधत्ते । तथापीति । अतः प्रथमादिबुद्धेनोत्तममध्यमाधमा भाविविनेया इत्यादि परिमलानुसारेण एकीकृत्योपन्यासस्ततस्त्रित्वमुपपन्नमिति । भामत्यनुसारेण चाक्षिप्य समाधत्ते । यद्यपि मन्देति । चतुर्थस्य द्वितीयेऽधिको विचारः कृतोऽस्ति । सोऽप्यत्रानुसन्धेयः । तत्र यद्यपि परमाणुपुञ्जरूप इत्यादिचन्द्रिकानुसारेणाशङ्क्य समाधत्ते । ननु परमाणुपुञ्ज इत्यादिना । वैशेषिकाः खलु अर्धवैनाशिका इत्यादिभामत्यनुसारेणाह । उपलक्षणं चैतदित्यादिना द्रष्टव्यमित्यन्तेन । सर्वास्तित्वे संप्रतिपत्तिरिति भामत्यनुसारेण समाधत्ते । तथापि परमाण्विति । उत्तरत्रावान्तरविशेषोऽपि निराकरिष्यते यद्वक्ष्यति मूलकारः । अवान्तरभेदं तु निराकरोतीत्यप्युपलक्षणया ज्ञेयम् । विप्रतिपत्तिविषयप्रदर्शनार्थत्वोक्तिपूर्वकमिति पाठः । क्वचिद्विप्रतिपत्तिविषयप्रदर्शनार्थतेत्यतःपरं सूचनापदं तस्योक्तिरेवार्थः । तन्मतोपन्यासपरतयेति । उपन्यासपरत्वरूपं तात्पर्यमिति फलितोऽर्थः । सार्थक्यमाहेति पाठस्तु स्वरस एव ।