विदारणार्थो धातुश्च विभागगुणवाचकः
अल्पतापादानमप्यसङ्गतम्
विदारणार्थो धातुश्च विभागगुणवाचकः
सुधा
ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम् । किन्तु सूक्ष्मतमत्वमेव । तच्चानिष्टमित्यत आह विदारणेति ।
अनुव्याख्यानम्
विदारणार्थो धातुश्च विभागगुणवाचकः ॥
स्यादेतद्यदि भेदो विदारणात्मा भवेत् । न चैवम् । प्रमाणाभावात् । अङ्गीकृत्यैव तु पूर्वः परिहारोऽभिहितः ।
ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते । स हि भिदेर्धातो रूपम् । स च विदारणार्थतया व्याख्यात इति । अत्रोत्तरम् । यदा भिदिधातुर्विदाणार्थो विवक्षितस्तदा भेदशब्दो विभागाख्यगुणवाचको न त्वन्योन्याभावलक्षणभेदवाचक इति । एतदुक्तं भवति । ‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः’ इति वचनाद्भिदिर्विभागवचनोऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।
ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न । गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः । अन्यता चान्योन्याभाव इति स्फुटो भेदः ।
शेषवाक्यार्थचन्द्रिका
ननु ‘विदारणार्थ’ इत्यादिभाष्यमनर्थकम् । न च भेदशब्दस्य विभागवाचित्वाभावप्रतिपादनार्थं तदिति वाच्यम् । तद्वाचित्वेऽपि दोषाभावेन तत्प्रतिपादनस्यानर्थक्यात् । न च स्वरूपे विभागेन शून्यताप्रसङ्गनिवारणार्थं तदिति वाच्यम् । ‘विभागेनाल्पतैव स्यादि’ति तत्प्रसङ्गस्य पूर्वमेव परिहृतत्वादित्यतो विभागार्थत्वे उक्तरीत्याऽत्यन्तासत्त्वरूपशून्यताप्रसङ्गानवकाशेऽपि सूक्ष्मतमत्वरूपशून्यत्वप्रसङ्गापरिहारेण तत्परिहारार्थतया विभागवाचकत्वाभाववर्णनस्य अर्थवत्त्वादित्यभिप्रेत्योक्तातिप्रसङ्गवारकतयोत्तरवाकयं योजयितुं सूक्ष्मतमत्वप्रसङ्गमुत्थापयति नन्विति । येन विभागेन तददर्शनाददृष्टकल्पना प्रसज्येतेति भावः । तर्ह्यतिरिक्तस्य शून्यत्वस्याभावान्न तदापादनं सम्भवतीति पृच्छति किन्त्विति । अस्त्यतिरिक्तमपि किञ्चिच्छून्यत्वमिति युक्तमेव तदापादनमिति परिहरति सूक्ष्मेति । न चैतदिष्टापादनमित्यतो घटादेरिदानीं स्थूलतयैव दृश्यमानत्वान्न तदित्याह तच्चानिष्टमिति ।
ननु कथमस्याक्षेपस्यानेन वाक्येन परिहारः । अत्र विभागवाचकताया एवोक्तत्वात् । तस्याश्चोक्तप्रसङ्गोपोद्बलकत्वादितोऽस्य साक्षात्तत्परिहारकत्वाभावेऽपि परम्परया तत्रोपयोगान्ननुपपत्तिरिति भावेन परम्परयोपयोगं दर्शयितुमुक्ताक्षेपपरिहारकं तावदादौ पूरयति स्यादेतदिति । यदि प्रमाणाभावेन भेदो न विदारणात्मा, कथं तर्हि ‘यतोऽन्यस्य प्रतियोगित्वमिष्यते । विभागेनाल्पतैव स्यादि’त्यादिः प्राचीनः परिहार इत्यत आह अङ्गीकृत्यैवेति । तर्हि प्रमाणाभावेनैव भेदस्य विभागत्वाभावसिद्धेः किं भाष्येणेत्यतो भेदशब्दस्य विभागवाचकत्वाभावे, हेतोः प्रमाणाभावस्यासिद्धिशङ्कापरिहारार्थत्वेनोपयोगान्न तदानर्थक्यमित्याशयेन तत्परतया भाष्यं योजयति ननूक्तमत्रेति ॥ व्याख्यात इतीति । पाणिनिनेति शेषः । ननु ‘यदा भिदिधातुर्विदारणार्थो विवक्षित’ इत्यत्र यदेति व्यर्थम् । अर्थान्तराभावेन व्यावर्त्याभावात् । भावे वा विदारण इति विशेषोक्त्यनुपपत्तेः । उपपत्तौ वा तत्परित्यागेनार्थान्तरग्रहणे नियामकाभावादित्यतोऽर्थान्तरप्रदर्शनपूर्वकं विशेषोक्तिं घटयन्नेवार्थान्तरत्वोपपादनपूर्वकं तत्फलं दर्शयति एतदुक्तं भवतीति ॥ कुतो भिदेरुभयवचनत्वमित्यतः प्रयोगप्रत्यययोरविशेषादित्यभिप्रेत्योभयत्र प्रयोगप्रत्ययौ क्रमेण दर्शयति भिन्न इत्यादिना ॥ तदेव चेति । अन्यत्वमेव वस्तुस्वरूपतया ग्रन्थे प्रतिपाद्यतया प्रकृतमित्यर्थः । इतीत्यस्यैतदिति पूर्वेण सम्बन्धः ।
**परिमल **
तच्चानिष्टमिति । महत्त्वेनोपलभ्यमानस्य सूक्ष्मत्वापत्तेरनिष्टत्वादिति भावः ॥ व्याख्यात इति । वैयाकरणैरिति भावः ।
यादुपत्यं
तच्चानिष्टमिति । घटादेरिदानीं स्थूलतयैव दृश्यमानत्वादिति भावः ॥ विदारणात्मतयेति । विदारणार्थतयेत्यर्थः ॥ व्याख्यातः पाणिनिनेति शेषः ।
**श्रीनिवासतीर्थीया **
अङ्गीकृत्य भेदस्य विदारणात्मत्वमिति शेषः । स च धातुः । व्याख्यातो ‘भिदिर् विदारणे’ इति पाणिनिना । भेदशब्दो भिद्धातुपिष्पन्नः ॥ विभागाख्येति । विदारणात्मको यो विभागस्तद्रूपगुणेत्यर्थः । गुणशब्दोपरि भारः । स्फुटितः कपालद्वयविभागवान् ॥ एतदेव चेति । अन्यत्वमन्योन्याभावस्यैव धर्मिस्वरूपत्वाभिप्रायेण भेदो वस्तुस्वरूपमित्युक्ते विभागरूपार्थं गृहीत्वा तद्दूषणं छलोत्तरमिति ज्ञेयम् ।
**वाक्यार्थरत्नमाला **
विशेषोऽक्तीति । ‘‘भिदिर् विदारण’’ इति विशेषोक्तीत्यर्थः ।
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च
सुधा
यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह अविदारणेऽपीति ।
अनुव्याख्यानम्
अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ च तस्य च ॥
आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । तस्य च मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावेऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततोऽन्यदिति च प्रसिद्धमेव । अतो विभागाद्भेदोऽर्थान्तरमेवेति ज्ञायते । तस्य चेत्यनेन नातःपरं स्वरूपभेदे काचिदनुपपत्तिः सम्भाविताऽस्तीति सूचितम् । ननु कथं नास्ति । विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न । स्वरूपत्वेऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः । अन्यथाऽनन्दं ब्रह्म आनन्दं ब्रह्मण इत्यादेरनुपपत्तिप्रसङ्गात् । संशयविपर्ययानुपपत्तिरपि नास्ति । सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽऽत्मस्वरूपे स्वयंप्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनियमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात्तत्र तथेति चेत् । अत्रापि सादृ(श्यादिव)श्यवशात्तथेति सन्तोष्टव्यम् ।
शेषवाक्यार्थचन्द्रिका
ननु यस्य कस्यचिदोष्ठयोरविदारणोक्त्याऽपि विभागाभावेऽपि भेदप्राप्त्या भेदस्य विभागादर्थान्तरत्वसिद्धिम्भवेन तस्य चेति मायावादिन एवोष्ठयोरविदारणोक्तेर्न विशेषप्रयोजनं किञ्चिदित्यतस्तदीयोष्टयोरविदारणोक्तेस्तस्य दूषणोद्भावकत्वासामर्थ्यसूचनद्वारा भेदस्य वस्तुस्वरूपतायामनुपपत्त्यभावसूचकत्वान्नानर्थक्यमित्यभिप्रेत्य विशेषोक्तेः प्रयोजनमाह तस्य चेत्यनेनेति ॥ विशेषणविशेष्यभावानुपपत्त्यादेरिति । विशेषणविशेष्यभावाद्यनुपपत्तेरित्यर्थः । आदिपदेन सम्बन्धपरिग्रहः । ततश्च विशेषणविशेष्यभावानुपपत्तेर्घटस्य भेद इति सम्बन्धानुपपत्तेश्चापरिहृतत्वादित्यर्थः । विशेषणेति । विशेषणविशेष्यभावश्च सम्बन्धश्च तयोरवभासोपपत्तेरित्यर्थः ॥ न जात्विति । उपलक्षणं चैतत् । उपदेशानर्थक्यं च स्यादित्यपि द्रष्टव्यम् । न चात्मस्वरूपज्ञानेनैक्यस्य स्वतो भानेऽप्यज्ञानविरोधिन्या वृत्तेरभावात्संशयाद्युपपत्तिरिति वाच्यम् । प्रत्यगर्थवदेव वृत्तेरभावेऽपि स्वतो भानेनैक्ये विप्रतिपत्त्याद्ययोगात् । अन्यथा प्रत्यगर्थेऽपि तत्प्रसङ्गादिति भावः । ऐक्यस्यात्मस्वरूपत्वेऽप्यविद्यावृतत्वादात्मप्रकाशेऽप्यप्रकाशोपपत्तेः संशयाद्युपपत्तिरिति शङ्कते अविद्येति । तर्हि भेदस्य वस्तुस्वरूपत्वेऽपि सादृश्यादिदोषवशाद्वस्तुप्रकाशेऽप्यप्रकाशोपपत्त्या विरोधिज्ञानाभावादेव संशयादिकं भविष्यतीत्याह अत्रापीति ।
**श्रीनिवासतीर्थीया **
नातः परमिति । यो मायावादी अस्माभिः पराजितः सन्निरुत्तरतया तूष्णीमास्ते, तस्यैवौष्ठाविति तस्य निरुत्तरत्वकथनेन स्वरूपभेदेऽनुपपत्तिर्नास्तीति सूचितम् । ओष्ठयोः संयुक्तत्वेनानुपपत्तिकथने तस्यासामर्थ्यादिति भावः । अन्यथा विशेषणविशेष्ययोः स्वरूपत्वेऽप्यभिन्नत्वेऽपि विशेषणविशेष्यभावसम्बन्धावभासस्य विशेषबलेनानिर्वाह इत्यर्थः । संशयविपर्ययौ अद्वितीयत्वादिधर्मसमूह इति शेषः । विशेषबलेन ज्ञाताज्ञातत्वे अत्रोक्त्वा संशयाद्युपपत्तिर्न क्रियते । किन्तु ब्रह्मणि प्रतीतेऽपि तदभिन्नानामप्यद्वितीयत्वादीनामविद्यारूपदोषवशादप्रतीत्या संशयाद्युपपत्तेरिति यद्युच्यते तर्हि इतरभेदस्य घटादिस्वरूपत्वेन धर्मिण इतरासङ्कीर्णतया प्राग्गृह्यमाणत्वेन भेदाग्रहरूपनिमित्ताभावेन संशायाद्यभावेऽपि सादृश्यादिरूपदोषेण सम्भवत्येवेत्याह अविद्येत्यादिना । तत्र धर्मिस्वरूपान्तः ।