एवमेवासतः सत्तासमवायो जनिर्मता
समवायनित्यत्वनिरासः
एवमेवासतः सत्तासमवायो जनिर्मता
सुधा
इदानीं समवायस्य नित्यत्वं निराकरोति एवमेवेति ।
अनुव्याख्यानम्
एवमेवासतः सत्तासमवायो जनिर्मता ॥
यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम् । एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्टा मता । समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह तत्रापीति ।
अनुव्याख्यानम्
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥
उक्तदोषाणां सिद्धसाधनत्वादीनाम् । तथा हि । प्रागसतः सत्तासमवायो जनिरिति परेण जनिलक्षणमभिहितम् । तत्र यदि समवायो नित्यः स्यात्तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् । ज्ञप्तौ हि सिद्धस्यापि साधनं घटते । किन्तु क्वचिदनपेक्षत्वमित्येव । कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् । अथ समवायस्य नित्यत्वेऽपि प्रागसतः सत्तासमवायः साध्यो ऽस्तु को दोष इति चेन्न । समवायैक्यव्याघातात् । औपाधिकः समवायस्य भेद इति चेत् । यथासम्भवं सर्वमुक्तमनुसन्धेयम् । न हि प्रागसद्विषयो व्यापारः सम्भवति । तस्य सत्करणातिरिक्तकर्तव्याभावात् । सत्करणस्य सत्तासमवायानतिरेकात् । स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत् । एवं तर्हि किमपरेण सत्तासमवायेन । तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाऽप्ययुक्ते इति । यद्वा समवायनिराकरणप्रसङ्गात्परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामञ्जस्यप्रदर्शनायौपाधिकेत्यादिना निराकृतं (च) वेदितव्यम् ।
शेषवाक्यार्थचन्द्रिका
यथासम्भवं सर्वमिति । ‘यद्यस्यैपाधिको भेदः कुत एकत्वमिष्यते’ इत्यादिनोक्तं सर्वमप्युक्तरीत्याऽत्रानुसन्धेयमित्यर्थः । ‘अविद्यमान एवान्यः समवायोऽधिगम्यते’ इत्यादेरत्राप्रसङ्गादाह यथासम्भवमिति । प्रागसत इत्युक्तोपाधेरेकत्वात् ‘उभयत्राप्यनन्ताः स्युः समवाया इतस्तत’ इत्यस्यात्राप्रसङ्गादेतदुक्तमित्याशय इत्याहुः । ननु चोक्तजनिलक्षणे विशेष्यप्यांशस्य समवायस्याजन्यतया कुलालादिव्यापारसाध्यत्वासम्भवेऽपि विशेषणांशस्य प्रागसतस्तत्साध्यत्वोपपत्त्या न कुलालादिव्यापारवैयर्थ्यमित्यत आह न हीति । तत्कुत इत्यतः किं तस्य सत्करणातिरिक्तमेव कर्तव्यमभितं किंवा सत्करणमुत स्वरूपलाभ इति विकल्पान्मनसि निधायाद्यमसिध्द्या दूषयति तस्येति । द्वितीयं दूषयति सत्करणस्येति । तृतीयमाशङ्कते स्वरूपेति । ‘औपाधिकविशिष्टाद्यमि’त्यादिप्रतिज्ञाद्यनुसारेण विशिष्टादिनिराकरणपरतया स्पष्टप्रतिभासस्य वाक्यजातस्य समवायैकत्वं निराकुर्तं पीठिकारचनपरतया व्याख्यानमनुचितमित्यरुचिं मनसि निधाय प्रकारान्तरेण तत्तात्पर्यमाह यद्वेति ।
**परिमल **
समवायनित्यत्व इति पदच्छेदः । तदर्थस्य तस्य व्यापारस्य । नन्वेकत्वपक्षोक्तदोषाणां नित्यत्वपक्षेऽपि साम्यात्तत आधिक्याभावादेवमेवासत इत्यतिदेशो न युक्त इत्यत आधिक्यमाह ज्ञप्तौ हीति ॥ क्वचिदिति । सर्वाविवादस्थल इत्यर्थः ॥ यथासम्भवं सर्वमुक्तमिति । विरोधाभावो देशकालव्यक्तिभेदेन भवति । स च समवाये परस्य न सम्मतः । किन्तु पारमार्थिकत्वापारमार्थिकत्वाभ्यां भेदाभेदयोरविरोधो वाच्यः । तत्रौपाधिकभेदस्यापारमार्थिक(त्वे अस)त्वमसत्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वम् । अन्त्ये मायावादितापत्तिः । सत्तारूपोपाधिनाऽन्योऽविद्यमान एव समवायो भाति । स एव च जनिश्चेत्तर्हि घटादिसर्ववस्तुजनिरसत्या स्याद् इत्येवमनुसन्धेयमित्यर्थः । सत्तारूपोपाधेरेकत्वात्तदानन्त्यप्रयुक्तसमवायानन्त्यमिह नापादयितुं शक्यमिति यथासम्भवमित्युक्तम् । ननु सत्तासमवायस्य कुलालव्यापारासाध्यत्वेऽपि प्रागसतः सत्तासमवायो जनिरित्युक्तत्वाद्विशेषणांशस्यासतोऽस्तु कुलालादिव्यापारविषयतेत्यत आह न हीति ॥ समवायस्य नित्यत्वनिरासः ॥ ‘औपाधिकविशिष्टाद्यमि’त्यादेर्निवारकमित्यन्तस्य व्याख्यानान्तरमाह यद्वेति ॥ विशिष्टादेरिति । विशिष्टौपाधिकोपलक्षितानामित्यर्थः ।
यादुपत्यं
यथासम्भवं सर्वमिति । ‘नानिर्वच्यं हि तेनेष्टमि’त्यादिना ‘अनुमानं न मा भवेदि’त्यन्तेन ग्रन्थेन यदुक्तं तत्सर्वमप्यत्रोक्तरीत्याऽनुसन्धेयमित्यर्थः । नन्वत्र प्रागसत इत्युक्तोपाधेरेकत्वात् ‘उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः’ इत्युक्तं कथमनुसन्धेयमित्यत उक्तं यथासम्भवमिति । ननूक्तजनिलक्षणे विशेष्यांशस्य सत्तासमवायस्याजन्यत्वेन कुलालादिव्यापारसाध्यत्वा सम्भवेऽपि विशेषणांशस्य प्रागसतस्तत्साध्यत्वोपपत्त्या न कुलालादिव्यापारवैयर्थ्यमित्यत आह न हीति ।
**श्रीनिवासतीर्थीया **
तदर्थस्य घटजनिप्रयोजनकस्य । तस्य कुलालादिव्यापारस्य । सिद्धस्यापि ज्ञातस्यापि । साधनं ज्ञापनम् । धारावाहिकज्ञाने दर्शनादिति भावः ॥ सिद्धस्य उत्पन्नस्य । साधनमेव उत्पादनमेव ॥ औपाधिक इति । प्रागसत इत्युपाधिप्रयुक्त इत्यर्थः ॥ कर्तव्याभावादिति । तथा च यः प्रागत्यन्तमसंस्तस्य सत्करणं शतेनापि यत्नानामसम्भावितमिति पूर्वं सत्वमङ्गीकार्यमिति शेषः । ततोऽपि किमित्यत आह ॥ सत्करणस्येति । ततश्च समवायस्य नित्यतया पूर्वं सिद्धत्वात्तदर्थकस्य कुलालादिव्यापारस्य निष्फलत्वमनिवार्यमिति वाक्यशेषः । स्वरूपलाभः सत्तासमवायातिरिक्तस्वरूपलाभः ।
**वाक्यार्थरत्नमाला **
अत्राप्रसङ्गादाहेति । पूर्वत्रोपाधिगम्यमौपाधिकमिति पक्षाश्रयणेनोपाधेरविद्यमानभेदज्ञापकत्वाशङ्का युक्ता । नित्यत्वनिराकरणपक्षे तूपाधेः कारकत्वेनैव स्वीकारसिद्धेरविद्यमानस्यान्यस्य समवायस्योत्पत्तिः कुलालादिव्यापारेण भवतीत्यङ्गीकारायोगात्तथाशङ्कादिकमनुपपन्नमित्यर्थः । कारके अविद्यमानस्यैव ज्ञापकता त्वशक्यशङ्केति भावः । अन्यथाख्यातिव्याख्यानमाह । प्रागसत इत्युक्तेति । इत्यप्याहुरिति पाठः । आहुरित्यस्वरससूचनम् । तद्बीजन्तु यथाऽयुतसिद्धयोः समवाय इत्येकोपाधिप्रतीतावपि तन्तुपटादिरूपानन्तायुतसिद्धभेदमाश्रित्योपाध्यनन्तत्वोक्तिरेवं प्रागसत इत्येकोपाधिप्रतीतावपि घटतद्रूपादितत्तदनन्तपदार्थानामेव प्रागसत इत्यनेनोपस्थित्या जनिस्थलेऽपि समवायोपाधीनामनन्तत्वमनिवार्यम् । अन्यथा विशिष्टादिस्थलेऽप्ययुतसिद्धरूपोपाधेरेकत्वेन समवायानन्त्याप्रसङ्गात्तत्र तदानन्त्यापादनायोग इति । औपाधिकविशिष्टाद्यमित्यादीति । अयमर्थः । औपाधिकविशिष्टाद्यं किमुपाध्यादित्रिकादेरन्यदुतानन्यदिति विकल्पावसरे विशिष्टादेरेव पुरस्कारप्रतीतेरनन्यत्वनिरासपरे अग्रिमत्वं किमित्यादि ग्रन्थेऽपि तस्यैव पुरस्कारप्रतीतेः समवायस्य च विशिष्टादिनिरासप्रसङ्गागततया तस्य प्राधान्येन शङ्कासमाधानयोरप्रस्तुत्या तन्निरासस्य प्राधान्यमाश्रित्य तत्पीठिकारचनतयौपाधिकादिविकल्पनिराकरणमित्ययुक्तम् । प्रत्युत विशिष्टादिविषयकविकल्पाद्युपक्रमानुसारेण तन्निरासपरत्वमेव प्राधान्येनाश्रयितुं युक्तम् । एवमेवासत इत्येतदपि प्राधान्येन जनिपदार्थनिराकरणपरतया प्रतीयमानस्येत्येतदप्यादिपदैः संगृह्यत इति । अत्र प्रतिज्ञापदेनोपक्रमो लक्ष्यते । यद्वौपाधिकविशिष्टाद्यं किमुपाध्यादिप्राधान्यादित्यादिविकल्पानन्तरमाद्यादिपक्षनिराकरणे औपाधिकादिकं नोपाध्यादितोऽन्यत् । अनन्यदित्याद्युक्तयनुसारेण प्रतिज्ञाऽपि प्रतीयत इति ज्ञेयम् । आदिपदेन तथा प्रतिज्ञानुसारिनिराकरणपरिग्रहः । वाक्यजातस्येत्यनेन पीठिकारचनपरभागस्य बहुत्वात्कस्यचिदेवांशस्य पीठिकारचनपरत्वोपपत्तावपि बहोस्तदङ्गीकारायोग इति सूचयति । निराकर्तुमिति । अस्य चैकत्वादित्यादिनेति शेषः । एतच्चोपलक्षणम् । समवायनित्यत्वनिरासपरतयेत्यपि ज्ञेयम् । प्रकारान्तरेणेति । विशिष्टादिनिराकरणपरतयेत्यर्थः ।