१६ समवायैकत्वनिरासः

औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः

समवायैकत्वनिरासः

औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः

सुधा

एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च ‘तत्वं भावेने’ति सूत्रेणोक्तम्, तत्वं, समवायस्य सर्वत्रैकत्वं नित्यत्वं च, भावेन, सत्तया व्याख्यातमिति । तदपि निराचिकीर्षुरादौ तावदेकत्वं निराकर्तुं पीठमारचयति औपाधिकेति ।

अनुव्याख्यानम्

औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ॥

अन्यत् ……………..

औपाधिकः पाचकयाजकादिर् विशिष्टो नीलाग्निमदादिः । आद्यग्रहणादुपलक्षितग्रहणम् । अपिशब्दो दूषणान्तरसमुच्चयार्थः । तद्वस्तूपाध्यादित्रयम् । किंशब्दस्योभयतः सम्बन्धः । तत उपाध्यादित्रयात् । वस्त्वित्येतदौपाधिकविशिष्टाद्यमित्यनेनापि सम्बध्यते ।

शेषवाक्यार्थचन्द्रिका

‘औपाधिकविशिष्टाद्यमि’त्युत्तरग्रन्थस्यौपाधिकादेरुपाध्याद्यतिरेकानतिरेकविचारपरस्य पूर्वेण सङ्गत्यप्रतीतेरानर्थक्यं तथाऽपि समवायैकत्वं निराकर्तुं तत्पीठिकारचनरूपत्वेनोत्तरग्रन्थसङ्गतत्वान्न तदानर्थक्यमित्यभिप्रेत्य वृत्तानुवादपर्वकमुत्तरग्रन्थसङ्गततया तं योजयति एवमित्यादिना ॥ औपाधिकः पाचकयाजकादिरिति । न चोपाधेरपि विशेषणोपलक्षणान्यतरत्वात् । औपाधिकस्यापि विशिष्टोपलक्षितान्यतरत्वमेवेति तद्ग्रहणेनैव गृहीतत्वात्पृथक् तद्ग्रहणं न युक्तमिति वाच्यम् । विशेष्यप्रतियोगिकतन्निष्ठभेदज्ञापकत्वमुपाधित्वम् अन्यप्रतियोगिकविशेष्यनिष्ठभेदज्ञापकत्वं च विशेषणत्वादिकमिति तद्भेदविवक्षया पृथग्ग्रहणसम्भवात् । उभयत इति । किं तद्वस्तु किं वा ततोऽन्यदित्युभय इत्यर्थः । सम्बध्यत इत्यनेनौपाधिकविशिष्टाद्यं वस्तु किं तद्वस्तु किं वा ततोऽन्यदिति वाक्ययोजनोक्ता भवति ।

**परिमल **

तावदेकत्वमिति । एवमेवासतः सत्तासमवाय इति वक्ष्यमाणनित्यत्वनिरासापेक्षया तावच्छब्दः ॥ दूषणान्तरेति । समवायपक्षे प्रागुक्ताप्रामाणिकत्वादिदूषणापेक्षया सिद्धसाधनत्वादिदूषणान्तरेत्यर्थः । औपाधिकविशिष्टाद्यमित्यनूद्य किं तद्वस्तु किं (वा) ततोऽन्यदिति योजनेति भावेन तद्वस्त्वित्यनूद्य तस्यार्थमाह तद्वस्तूपाध्यादित्रयमिति । उपाधिपुरुषतत्सम्बन्धा इत्यर्थः ।

**वाक्यार्थरत्नमाला **

तत्वं भावेनेति सूत्रेणोक्तमिति मूलम् इदं च ……. (अत्र कश्चनभागोलुप्तः) शङ्कते । एकत्वं निराकर्तुं पीठमाचरयतीति मूलम् । अनेनास्य चैकत्वात् सिद्धसाधनमित्यादिकमेकत्वनिरासकम् । औपाधिकविशिष्टेत्यादिकं पीठिकारचनरूपमिति विवेकः सूचितः । समवायैकत्वं निराकर्तुं तत्पीठिकेति टीकायामपि पूर्वोक्तमेवाभिप्रेतम् । अत एवोत्तरग्रन्थसङ्गतत्वादित्युक्तम् । तेनास्य चेत्याद्युत्तरग्रन्थेन समवायैकत्वनिराकरणोपयोगितया तत्पीठिकारचनरूपतयौपाधिकेत्यादि भाष्यं प्रवृत्तमिति सूचनात् । एवमेव नित्यत्वनिराकरणपरतयैवमेवेत्यादि भाष्यव्याख्यानानन्तरं यद्वा समवायेत्यादिकं यन्मूलं तदवतारे वाक्यजातस्य समवायैकत्वं निराकर्तुं पीठिकारचनपरतया व्याख्यानमनुचितमिति वाक्येऽपि विवेको ज्ञेयः । विशेषणत्वादिकमिति । आदिपदेनोपलक्षणत्वपरिग्रहः ।


औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः

औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः

सुधा

अयमर्थः । समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् । एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते; स पाचकयाजकादिरौपाधिकोऽर्थः किं पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्योऽनन्य उतान्य इति । तथा समानाधिकरणं व्यावर्तकं विशेषणम् । यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः । व्यधिकरणं तु व्यावर्तकमुपलक्षणम् । यथा नीलरूपगतं नीलत्वमुत्पलस्य ।

अन्ये तु कार्यप्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते । यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति ॥ अपरे तु शाब्दसामानाधिकरण्यवैयधिकरण्याभ्याम् । यथा दण्डी देवदत्तो जटाभिस्तपस इति ॥ केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान्वा विशेषणविशेष्यतत्सम्बन्धेभ्योऽनन्यद् अन्यद्वा । उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्योऽनन्यद् अन्यद्वेति ।

तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । न हि पाचकादिः पचनादित्रयातिरिक्तोऽनुभूयते । न च योग्यस्याननुभवे सत्त्वं सिद्ध्यति । नाप्यग्निमदादिः पर्वताद्यतिरिक्तोऽनुभूयते । अतिरिक्तत्वे चौपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात् । षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् । यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः ।

शेषवाक्यार्थचन्द्रिका

ननु कथमस्य समवायैकत्वनिराकरणं प्रति पीठिकारचनरूपत्वमित्यतस्तद्दर्शयितुमाह अयमर्थ इति ॥ समानाधिकरणमिति । जटाभिस्तापस इत्यादौ तृतीययोपलक्ष्यमाणोपलक्षणभावे जटादावतिव्याप्तिनिरासाय समानाधिकरणमित्युक्तम् । न च तदपि यत्किञ्चित्समानाधिकरणमिति कथं तेन तन्निरासः । स्वप्रत्याय्यव्यावृत्त्या सहैकाधिकरणत्वस्य समानाधिकरणपदेन विवक्षितत्वात् । तावत्येवोच्यमाने नीलमुत्पलमित्यत्र नैल्यापादिता नीलव्यावृत्त्या सहैकाधिकरणे गगनोत्पलसंयोगादावतिव्याप्तिः । तदर्थं व्यावर्तकमित्युक्तम् । तव्द्यावृत्तिबुद्धिजनकविशिष्टज्ञानावच्छेदकमिति च तदर्थः । अतो न नीलरूपरहितपदार्थव्यावृत्तिसमानाधिकरणे नीलरूपरहितपदार्थतादात्म्याभावलक्षणां व्यावृत्तिं सत्तयैव प्रत्याययति उत्पलेन्द्रियसंयोगादावतिव्याप्तिः । अधिकरणं चात्र देशकालोभयरूपं विवक्षितम् । तेन यत्राश्रये यत्कालीना व्यावृत्तिः प्रत्याय्या तत्कालीनतदधिकरणवृत्ति विशेषणमन्यदुपलक्षणमित्यर्थपर्यवसानात् काककालीनगृहव्यावृत्तिपरे प्रयोगे काकस्य विशेषणत्वेऽपि सामान्यतो गृहविशेषव्यावृत्तिपरे प्रयोगे काकस्योपलक्षणत्वसम्भवान्नोपलक्षणाभावप्रसङ्ग इति ध्येयम् ॥ व्यधिकरणं त्विति । एतच्च विशेषणाऽतिव्याप्तिपरिहारायोक्तम् । व्यधिकरणत्वं च स्वप्रत्याय्यव्यावृत्त्या सह विवक्षितमिति न यत्किञ्चिव्द्यधिकरणे विशेषणेऽतिप्रसङ्गः । तावन्मात्रं विशेष्यस्याप्यस्तीति तत्रातिप्रसङ्गवारणाय व्यावर्तकमित्युक्तम् । व्यावृत्तिबुद्धिजनकविशिष्टज्ञानावच्छेदकमित्यर्थान् नादृष्टेश्वरादावतिव्याप्तिरिति भावः । असम्भावनापरिहाराय तदुभयं क्रमेणोदाहरति यथेति । एवमुत्तरत्रापि द्रष्टव्यम् ।

कार्यप्रवेशेति । कार्यान्वयि विशेषणं तदनन्वय्युपलक्षणमिति कार्यान्वयानन्वयाभ्यामित्यर्थः ॥ शब्देति । एकविभक्त्यन्तपदवाच्यं विशेषणं भिन्नविभक्त्यन्तपदवाच्यमुपलक्षणमिति शाब्दसामानाधिकरण्यवैयधिकरण्याभ्यामित्यर्थः । अत्र चैकत्वं सारूप्यमभिमतं न त्वभेदः । तथा सति दण्डी पुरुष इत्यादौ प्रथमैकवचनव्यक्तिभेदस्य सत्त्वेनैकत्वाभावादसम्भवप्रसङ्गात् । सारूप्यमप्यत्र व्यावर्त्यवाचकपदविभक्त्यैव विवक्षितम् । अन्यथा यत्किञ्चित्तृतीयान्तपदसारुप्यस्य जटाभिरिति तृतीयायामपि सद्भावेन तत्रातिव्याप्त्यपरिहारापातात् । व्यावर्त्यवाचकपदविभक्त्या सारूप्यविवक्षायां तु न तत्रातिव्याप्तिः । व्यावर्त्यः पुरुषस्तद्वाचकं पदं पुरुष इति पदं तत्र या विभक्तिः प्रथमा तया सह सारूप्यस्य जटाभिरित्युपलक्षणे विद्यमानतृतीयाया अभावात् । यद्यपि च प्रथमतृतीययोरपि विभक्तित्वादिना सारूप्यसत्त्वान्न तद्विवक्षयाऽपि तत्प्रतीकारः सम्भवति तथाऽपि विभक्तिविभाजकप्रथमात्वादिधर्मपुरस्कारेण तद्विवक्षणान्नातिप्रसङ्गः । न चैवं जटानां स्तापस इति प्रयोगे जटानामप्युक्तरूपसामानाधिकरण्यसत्त्वाद्विशेषणत्वप्रसङ्ग इति वाच्यम् । तत्र तस्येष्टत्वात् । न चैवमुपलक्षणत्ववादविरोधः । तृतीयाप्रयोगकाले तासामुपलक्षणत्वाभिप्रायेण तदुपपत्तिरिति ध्येयम् । एवं व्यावर्त्यवाचकपदविभक्तिविरूपविभक्त्यन्तपदवाच्यत्वस्यैव द्वितीयलक्षणे विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रव इति ॥ व्यवच्छित्तिसमय इति । स्वप्रत्याय्यव्यावृत्तिसमय इत्यर्थः ।

ततश्च यावत्स्वप्रत्याय्यव्यावृत्तिभावि विशेषणं यावत्स्वप्रत्याय्यव्यावृत्त्यभावि तूपलक्षणमित्युक्तं भवति । मूलेऽन्यत्वपक्षस्यासम्भावितत्वेनानुपपन्नतायाः स्पष्टत्वाददूषणमिति न तददूषणान्न्यूनत्वं शङ्क्यमित्यभिप्रेत्य स्वयं तत्पक्षस्यासम्भावनानिमित्तप्रदर्शनपूर्वकमसम्भाविततामाह तत्रेति । तत्कथमित्यतोऽनुभवविरुद्धतां तावदुपदर्शयति न हीति । प्रतिज्ञातमभ्युपगमविरोधमुपदर्शयति अतिरिक्तत्वे चेति ॥ द्रव्यान्तर्भावासम्भवादिति । गुणादावपि तस्य वृत्तेर्न द्रव्यादित्वं तस्येति भावः । उपपत्तिविरोधमप्युपदर्शयति यदि चेति ॥

**परिमल **

समानाधिकरणमिति । स्वबोध्यव्यावृत्तिसमानाश्रयमित्यर्थः । एतेन व्यधिकरणमित्युक्तार्थम्(ः) । अन्यद्वेतीतीतिशब्दस्यायमर्थ इति पूर्वेणान्वयः । अन्यत्वपक्षं स्वयं निराह तत्रान्यत्व पक्ष इत्यादिना अनुपपन्न एवेत्यन्तेन । अनुभवादित्रितयविरोधं क्रमेण व्यनक्ति न हीति, अतिरिक्तत्वे चेति, यदि चेतिग्रन्थेन । अग्निमदादिरित्यादिपदेनप्रागुक्तचतुर्विधोपलक्षितग्रहः ॥ द्रव्याद्यन्तर्भावासम्भवादिति । गुणानाश्रयत्वाद् गुणादावपि वैशिष्ट्यादेः सत्वादिति भावः ।

यादुपत्यं

समानाधिकरणमिति । प्रत्याय्यव्यावृत्तिसमानाधिकरणमित्यर्थः । एवं व्यधिकरणमित्यत्रापि प्रत्याय्यव्यावृत्तिव्यधिकरणमित्यर्थः । मूलेऽन्यत्वपक्षः स्फुटदूषणत्वान्न दूषित इत्यभिप्रेत्य स्वयं तं दूषयति तत्रान्यत्वपक्ष इत्यादिना ॥ द्रव्याद्यन्तर्भावेति । गुणादावपि तस्य वृत्तेरिति भावः ।

**श्रीनिवासतीर्थीया **

शाब्दसामानाधिकरण्यम् एकविभक्त्यन्तपदवाच्यत्वम् । भिन्नविभक्त्यन्तपदवाच्यत्वं वैयधिकरण्यम् । एताभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षत इत्यनुवर्तते । व्यवच्छित्तिर् व्यावृत्तिः । तद्बोधसमये यत्सत्तद्विशेषणम् । यथा दण्डो देवदत्तस्य । व्यावृत्तिबोधसमये यदसत्तदुपलक्षणम् । यथा काको गृहस्येति । एताभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षत इति सम्बन्धः । अनुभवादिविरोधं क्रमेणोपपादयति न हीत्यादिना । नन्वननुभूयमानस्याप्यतिरिक्ततया सत्वं किं न स्यादित्यत आह न चेति ॥

**वाक्यार्थरत्नमाला **

शेषानन्तपण्डितेन तृतीययोपलक्ष्यमाणे युक्तावपि स्पष्टत्वार्थमुक्तं तृतीययेति । तृतीयया उपलक्ष्यमाण उपलक्षणभाव उपलक्षणत्वे यस्येत्यर्थः । तृतीयाप्रयोगान्यथानुपपत्या जटानामुपलक्षणत्वमिति भावः । एतेच विशेषणोपलक्षणयोः स्वप्रत्याय्यव्यावृत्या सह द्रष्टव्ये इति शेषानन्तोक्तयनुसारेण समानाधिकरणशब्देन स्वप्रत्याय्येत्यादि हरिहरदीक्षित्यनुसारेण चाह । स्वप्रत्याय्येति । हरिहरोक्तयनुसारेणात्र स्वपदं तच्च स्वरूपकथनार्थम् । न तु व्यावर्तकम् । अत एव शेषानन्तेन प्रत्याय्येत्येवोक्तम् । अन्यथा जटादौ स्वपदातिरेकेणैव प्रत्याय्येत्यनेनातिव्याप्तिनिरासेन तद्वैय्यर्थ्यापातात् । वक्ष्यमाणगगनोत्पलसंयोगादावतिव्याप्त्यभिधानानुपपत्तिप्रसङ्गाच्च । सम्मतं चैतट्टीकाकृतः । नैल्यापादितेति स्पष्टमेव नैल्यस्य व्यावृत्तिप्रत्यायकत्वमभिधाय तदेकाधिकरणे गगनोत्पलसंयोगेति व्याप्त्यभिधानात् । तथा अनन्तोक्तयनुसारेणैव व्यावर्तकत्वस्य तद्-व्यावृत्तिबुद्धीत्यादि प्रकारान्तरेण व्याख्यातत्वान्न ज्ञानापेक्ष इति हरिहरेण ज्ञातपदस्योत्पलेन्द्रियसंयोगव्यावर्तकतया स्वीकृतत्वेऽपि तस्याप्यत्र निवेशनाभाव इति ध्येयम् । प्रत्याय्या बोध्या । हरिहरदीक्षित्यनुसारेणैवाह । तावत्येवेति । नैल्यापादितेति । नैल्येन ज्ञापितेत्यर्थः । तद्-व्यावृत्तीति । तत्र स्वाश्रये या व्यावृत्तिबुद्धिस्तज्जनकं यद्विशिष्टज्ञानं तत्र विषयतया अवच्छेदकमित्यर्थः । गगनोत्पलसंयोगस्य व्यावृत्तिबुद्धिजनकत्वस्यैवाभावेन तावन्मात्रेण तत्रातिव्याप्त्यभावाद्विशिष्टज्ञानावच्छेदकत्वपर्यन्तधावनेन व्याख्यानानर्थक्यमित्यतस्तत्प्रयोजनं हरिहरानुसारेणाह । अतो नीलेति । नीलरूपरहितपदार्थव्यावृत्तिश्च वक्ष्यमाणोत्पलेन्द्रियसंयोगजन्या ग्राह्या । अनैल्यात्यन्ताभावरूपव्यावृत्तेर्नैल्यसाध्यत्वादुक्तं तादात्म्याभावलक्षणमिति । सत्तयैव प्रत्याययतीत्युक्तया न तूत्पलेन्द्रियसंयोगज्ञानं व्यावृत्तिबुद्धिजनकं येनोत्पलेन्द्रियसंयोगस्य तज्ज्ञानावच्छेदकत्वेन विशिष्टव्यावर्तकत्वं तत्र स्यादित्येवम् अतिव्याप्तिपरिहारप्रकारः सूचितः ।

नन्वेवं तर्हि कालस्यापि विशेषणतापत्तिः । तस्यापि स्वप्रत्याय्यव्यावृत्या सहैकाधिकरणत्वे सति तद्-व्यावृत्तिबुद्धिजनकविशिष्टज्ञानं प्रति विषयतयाऽवच्छेदकत्वात् । ततश्चोपलक्षणाभावप्रसङ्ग इत्यतो ऽनन्तोक्तयनुसारेणाह । अधिकरणं चेति । ननु यत्राश्रय इत्यादि विवक्षायाम् उत्पलत्वस्य उत्पलरूपाश्रये नैल्यप्रत्याय्यव्यावृत्तिकालीनत्वेन तदधिकरणत्वेन व्यावृत्तिबुद्धिजनकविशिष्टज्ञानावच्छेदकत्वेन च तत्रातिव्याप्तिस्स्यादिति चेन्न । विशिष्टज्ञानं प्रति विषयत्वस्य नील इवोत्पलत्वेऽप्यविशेषेऽपि विशिष्टज्ञानस्य व्यावर्तकत्वं विशेषणविषयत्वेनैव पर्यवसन्नमतो विषयतया जनकतावच्छेदकत्वं नीलरूपस्यैवेति न तत्रातिव्याप्तिः । अत उत्पलत्वे वोत्पलत्वप्रत्याय्यव्यावृत्तिस्थले उत्पलत्वविषयकत्वेनैव ज्ञानस्य व्यावर्तकतेति तादृशज्ञानं प्रति विषयतयाऽवच्छेदकस्योत्पलत्वस्य विशेषणत्वमेवेति बोध्यम् । एतच्चेति । व्यावर्तकत्वमात्रं विशेषणेऽतिव्याप्तमिति तत्परिहाराय व्यधिकरणत्वं विशेषणमित्यर्थः । स्वप्रत्याय्येति । अत्रापि स्वपदं स्वरूपकथनम् । हरिहरोक्तयनुसारेणाप्रत्याय्येत्येवोक्तावपि अतिप्रसङ्गाभावादिति बोध्यम् । व्यावृत्तिबुद्धिजनकेति । अत्रापि पूर्ववद्देवदत्तादिरूपविशेष्यस्य प्रत्याय्यस्य व्यावृत्तिव्यधिकरणत्वे सति व्यावृत्तिबुद्धिजनकविशिष्टज्ञानं प्रति विषयतयाऽवच्छेदकत्वादतिव्याप्तितादवस्थ्यमित्याशङ्कापरिहाराय व्यावृत्तिबुद्धिजनकविशिष्टज्ञाननिष्टजनकतावच्छेदकत्वमर्थो द्रष्टव्यः ।

नन्वर्थसामानाधिकरण्यनिरूपणावसरे अर्थव्यधिकरणस्य नीलत्वस्यैव समानाधिकरणपदव्यावर्त्यतया अभिधातव्यत्वेनात्रोपलक्षणतयाभिमते नीलत्वे तत्त्वादेव व्यावर्तकेऽतिव्याप्तिपरिहाराय समानाधिकरणेतीत्येव वक्तव्यतया कथं शाब्दव्यधिकरणजटादिकं व्यावर्त्यत्वेनाभिहितमिति चेत् । सत्यम् । अत्र तथैव वक्तव्ये शेषानन्तोक्तयनुसारेणोक्तिः किं तत्साधुत्वासाधुत्वविचारेणेत्यभिप्रायेण । वस्तुतस्तु अर्थव्यधिकरणनीलत्वेऽतिव्याप्तिपरिहार एव तात्पर्यमिति न दोषः । एवमुत्तरपदकृत्यस्थलेऽप्यवधेयम् । केचित्तु तथैव पाठ इत्याहुः । स्वप्रत्याय्यव्यावृत्येति । ननु स्वेतिपदेनैवोत्पलाकाशसंयोगादेर्व्यावृत्तेः सम्भवाद्य्वावर्तकपदवैय्यर्थ्यमिति चेन्न । तथाप्युत्पलेन्द्रियसंयोगादौ वक्ष्यमाणरीत्या स्वप्रत्याय्यव्यावृत्यसमानाधिकरणत्वस्य सत्वेन तद्-व्यावृत्यर्थत्वात् । न च व्यावर्तकत्वं च तत्रास्तीति वाच्यम् । व्यावृत्तिबुद्धीत्यादिविवक्षणेन परिहारादिति । वस्तुतः स्वशब्दस्य नीलपरत्वम् । ततश्च नीलरूपप्रत्याय्यव्यावृत्या समानाधिकरणत्वलाभे गगनोत्पलसंयोगादावतिव्याप्तेः सम्भवेन तद्-व्यावृत्यर्थतया व्यावर्त्तकत्वविशेषणसार्थक्यात् । न च तर्ह्युत्तरत्रापि स्वशब्दस्य नीलपरत्वावष्टंभेनैवातिव्याप्तिर्वाच्या स्यादिति वाच्यम् । इष्टापत्तेः । अत एव नीलरूपसाध्यव्यावृत्तिं नीलरूपरहितपदार्थव्यावृत्तित्वेनाभिधायोत्पलेन्द्रियसंयोगसाध्यव्यावृत्तिं नीलरूपरहितपदार्थतादात्म्याभावलक्षणमिति सर्वसाधारणव्यावृत्तित्वेनाह । नीलरूपरहितपदार्थान्तरात्मकताव्यावृत्तिहेतुत्वेऽपि नीलसाध्यानीलव्यावृत्तिहेतुत्वाभावात् । नीलत्वसाध्यत्वात्तद्-व्यावृत्तेः । अस्तु वा एकप्रकारव्यावृत्तिजनकत्वं तावताप्युत्पलेन्द्रियसंयोगे नीलप्रत्याय्यव्यावृत्या समानाधिकरणत्वमनिवार्यमिति दिक् । तदुभयं क्रमेणेति । यद्यपि मूले विशेषणलक्षणकथनानन्तरमेव विशेषणमुदाहृतमिति तस्थल एव तदुदाहरणनिमित्तकथनपूर्वकं तदवतार्यात्रोदाहरणमवतारणीयम् । तथापि बुध्या विवेकेनोभयं मिलित्वैकत्रैवावतारितम् । तत्प्रयोजनं चोत्तरत्रोक्तिलाघवेनोक्तप्रकारातिदेशनमिति ज्ञेयम् । अतीतकालादेरेवोपलक्षणता विद्यमानस्य तु विशेषणतेति विशेषाश्रयणान्न व्यधिकरणत्वाभावप्रयुक्तकालादावव्याप्तिरिति पूर्वमेव टीकायां प्रतिपादितं द्रष्टव्यम् । शेषानन्तोक्तितद्-व्याख्यानपटवर्धनानुसारेण शाब्दसामानाधिकरण्यमुपपादयति । अत्र चैकत्वमित्यादिना ध्येयमित्यन्तेन । विभक्तिविभाजकेति । अत्र प्रथमात्वादिरूपविभक्तिविभाजकधर्मविवक्षयैव प्रथमादिविभक्तिसाम्येऽपि सुब्लोपादिभावाभावाभ्यां विभक्तयोर्वैरूप्यमित्येवा(षा)शङ्कापि निराकृता वेदितव्या । अल्पनीलमुत्पलं पृथूत्पलमित्यादौ सुब्लोपभावाभावरूपवैषम्येऽपि सुबन्तत्वाहानेः सर्वसंमतत्वेन तद्विभक्तिकत्वादेरविघातात् । अन्यथा यत्किञ्चिद्वैषम्यस्य सर्वत्र वक्तुं शक्यतया साम्ये कुत्रापि न भवेदित्याशयः । व्यधिकरणलक्षणेऽप्येवं विचारः कार्य इत्येतदपि विशेषणोपलक्षणयोर्द्रष्टव्यम् । न कश्चिदिति । विशेषणविभक्तिस्थलेऽपि व्यक्तिभेदादतिप्रसङ्ग इति यत्किञ्चिद्वैरूप्यविवक्षायां विशेषणेऽतिव्याप्तिः । सर्वथा तद्विवक्षायामप्रसिद्धिरिति चोपद्रवो नेत्यर्थः । ततश्च यावदिति । यावत्स्वप्रत्याय्यव्यावृत्तिभावितदभाविरूपविशेषणोपलक्षणयोरुदाहरणं दण्डकाकादिकं स्पष्टमेवेति नोक्तम् । स्पष्टत्वाददूषणमिति । तत्पक्षस्य दूषणं न कृतमित्यर्थः ।