व्युत्पत्तिरपि हि सादृश्येनैव गम्यते
बाधकोद्धारः
व्युत्पत्तिरपि हि सादृश्येनैव गम्यते
सुधा
एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आह व्युत्पत्तिरपीति ।
अनुव्याख्यानम्
……..व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ॥
अपिपदं कार्यकारणभावावधारणादिसमुच्चयार्थम् । हिशब्दो यस्मादित्यर्थे । गम्यते अभ्युपगभ्यतेऽवगम्यत इति वा । अस्ति तावत्सादृश्यं नाम पदार्थान्तरम् । गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् । तेनैव चोपपद्यते व्युत्पत्त्यादिकम् । कस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।
शेषवाक्यार्थचन्द्रिका
नित्यत्वमप्यनिवार्यमिति । व्यक्तौ नष्टायामपि जातेरनुभूयमानत्वादनित्यत्वे तदयोगान्नित्यत्वसिद्धिरिति भावः । मूलेऽपिपदानर्थक्यमाशङ्क्य कार्यकारणभावावधारणादिसमुच्चयार्थत्वान्न तदिति भावेन तदर्थतया अपिशब्दं व्याचष्टे अपिपदमिति । आदिपदेन व्याप्तिज्ञानादिपरिग्रहः । मूले हिशब्दस्य तद् आशङ्क्य एतद्वाक्यार्थस्य हेतुत्वसूचनार्थत्वान्न तदिति भावेन हिशब्दं तदर्थतया व्याचष्टे हिशब्द इति । उपसर्गा हि धातुलीनस्यार्थस्य व्यञ्जका एवेतिमतमाश्रित्य गम्यत इत्येतव्द्याचष्टे गम्यतेऽभ्युपगम्यत इति । अभ्युपगममात्रस्य वस्तुव्यवस्थापकत्वाभावान्न तेन व्युत्पत्यादेरन्यथैवोपपत्तिसिद्धिरिति तदर्थकैवशब्दानुपपत्तिमाशङ्क्य तदुक्तान्यथैवोपपत्तिसिध्द्यर्थं गम्यत इत्येतत्प्रकारान्तरेण व्याचष्टष अवगम्यत इति वेति । ननु प्रमाणाभावात्सादृश्यमेव नास्ति । सत्वेऽपि वा सिद्धान्ते तदनुपपत्तिरेव । तथा हि । न तावत् ‘सामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवर्तिसादृश्यमुच्यत’ इत्युक्तरीत्या गोगवययोर्गुणावयवकर्मगतसामान्यान्येव सादृश्यमिति वक्तुं शक्यम् । अनुगतसामान्यानभ्युगपमात् । नापि तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वं, धर्ममात्रस्य प्रातिस्विकताङ्गीकारेण गोगवययोः परस्परगतधर्मवत्वाभावेन सादृश्याभावाप्रसङ्गात् । तद्गतधर्मशब्देन तद्गतधर्मसदृशधर्माभिधाने च स्फुटमात्माश्रयत्वम् । तत्कथं सादृश्येन व्युत्पत्त्यादेरन्यथोपपत्तिवर्णनमित्यत; प्रमाणोपन्यासेन तत्सद्भावं तावदाह अस्ति तावदिति । सामान्याद् भिन्नं परमते सामान्यादिवदखण्डमेव सादृश्यमित्यङ्गीकारान्न सिद्धान्ते तदनुपपत्तिरपीत्याशयेनोक्तं पदार्थान्तरमिति ।
**परिमल **
नित्यत्वमपीति । एकव्यक्तिनाशेऽपि व्यक्त्यन्तरे दर्शनादिति भावः ॥ अवगम्यत इति वेति । सादृश्येन शब्दशक्त्यादिकमनुमेयमित्यर्थः । यदि अवयवगुणकर्मवृत्तिसामान्यान्येव सादृश्यं, तदा किमधिकमाचीर्णमित्यत आह पदार्थान्तरमिति ।
यादुपत्यं
नित्यत्वमपीति । एकव्यक्तिनाशेऽप्यन्यत्र तदवस्थानसम्भवादिति भावः । नन्वनुगतसामान्याभावे सादृश्यस्याप्यभावः ‘सामान्यान्येव भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यवर्ति सादृश्यमुच्यत’ इत्युक्त्वेन गोगवययोर्गुणावयवकर्मगतसामान्यानामेव सादृश्यरूपत्वादित्यत आह पदार्थान्तरमिति । सामान्यभिन्नमित्यर्थः । नन्वेवं सादृश्यस्य न निर्वचनं सम्भवति । धर्ममात्रस्य प्रातिस्विकतया तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूपस्य निर्वचनस्यासम्भवात् । तद्धर्मसदृशधर्मवत्वरूपस्य चात्माश्रयेण दुष्टत्वादिति चेत् । सत्यम् । परमते सामान्यमिवास्मन्मते सादृश्यमखण्डमेवाङ्गीकार्यमिति साम्प्रदायिकाः । अन्ये तु गणनव्यवहारासाधारणकारणं सङ्ख्येत्यादाविव सदृशप्रतीतिविषयत्वमेव सादृश्यमिति तन्निर्वचनेऽपि न दोष इत्याहुः ॥
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते
सुधा
सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमते सर्वेष्विति ।
अनुव्याख्यानम्
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥
बहवो हि शब्दसङ्गतिग्रहणोपायाः । तत्र यदोपदेशतो व्युत्पद्यते तदाऽयं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते । कथम् । सादृश्योपधानेन सर्वेषु गोपिण्डेषु युगपदेककालमयमित्यादिशब्दः प्रवर्तते । अयं गौरित्यस्यायमेतत्सदृशाः सर्वेऽपि गोशब्दवाच्या इत्यर्थो वक्त्रा अभिप्रेयते । श्रोत्रा चावधार्यत इति यावत् । द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।
शेषवाक्यार्थचन्द्रिका
ननु सर्वेष्वित्युत्तरवाक्यमनर्थकम् । न चोपदेशस्य व्याप्तिग्राहकतामुपदर्शयितुं तदिति वाच्यम् । तदुपदर्शनस्य प्रकृतानुपयोगादित्याशङ्क्य ‘व्युत्पत्तिरपि ही’ति पूर्ववाक्यप्रतिज्ञातस्य सादृश्येन व्युत्पत्तिभवनप्रकारस्योपदर्शनाय तदुपक्रमरूपत्वात्तस्य न तदिति भावेन तदुपक्रमरूपतया तद्योजयति सादृश्येनेति । उपक्रमे उपदेशस्य व्याप्तिग्राहकत्वोक्त्या प्रसक्तां भाष्ये तन्मात्रस्य शब्दसङ्गतिग्रहणोपायत्वभ्रान्तिं तदुपायानेकत्वकथनेन तावत्पहिरति बहवो हीति । ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च । वाक्यस्य शेषाद्विवृवेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः’ इत्यादिप्रसिद्धिद्येतनार्थो हिशब्दः । तर्ह्युपदेशस्य व्याप्तिग्राहकत्वोक्तिर्भाष्यकारीया अनुपपन्ना स्यादित्यतो भवेदेवं यदि सा उपदेशमात्रस्य सङ्गतिग्रहणोपायत्वाभिप्राया स्यात् । न चैवम् । उपायानेकत्वस्य प्रमितत्वेन तदयोगात् । किन्त्वन्याभिप्रायैवेत्यतो नानुपपत्तिरित्यभिप्रेत्य तदुक्तेरभिप्रायमाह तत्रेति । बहुषूपायेषु ॥
व्यक्तिविशेषस्य गोशब्दवाच्यत्वपरतया प्रतिभासादुपदेशस्य व्याप्तिग्राहकत्वं न सम्भवतीति भाष्यकारीयं तद्वर्णनमनुपपन्नमित्याशयेन पृच्छति कथमिति । उपदेशवाक्यस्थस्यायमित्यादेर्व्यक्तिविशेषनिष्ठत्वाभावात्तद्ग्राहकत्वोपपत्तिरिति भावेनायं गौरित्युपदेशवाक्यस्य व्याप्तिग्राहकत्वोपपादकतया भाष्यं योजयति सादृश्योपधानेनेति। तेन निमित्तेनेत्यर्थः । तथा चायमिति शब्दस्य सन्निहिते गवि मुख्यैव वृत्तिः । असन्निहितगोव्यक्तिषु सादृश्येन निमित्तेन प्रवृत्तत्वाद्गौणी । युगपद्वृत्तिद्वयविरोधश्च न दूषणमित्युक्तं भवति । तथाऽप्युपदेशस्य कथं व्याप्तिग्राहकत्वसिद्धिरित्यतस्तत्तात्पर्यमाह अयं गौरित्येतस्येति । ननु नायमित्यादेर्गौण्याऽसन्निहितपिण्डपरत्वं सम्भवति । तन्निमित्तभूताया अन्वयानुपपत्तेरभावेन । गौण्याश्रयणस्यानुचितत्वादित्यतो अन्वयानुपपत्तिरेव न तत्र निमित्तम् । तथा सति यष्टीः प्रवेशयेत्यादौ तदभावेन लक्षणाभावप्रसङ्गात् । किन्तु क्वचित्तात्पर्यानुपपत्तिरपि । तथा चेहान्वयानुपपत्तेरभावेऽपि तात्पर्यानुपपत्तेः सद्भावाद्युक्तममुख्यवृत्त्याश्रयणमित्यभिप्रेत्य तात्पर्यानुपपत्तिमुपपादयति द्वयोरिति । वक्तृश्रोत्रोरित्यर्थः ॥ सार्वत्रिकेति । श्रोतुर्मम सार्वत्रिकव्युत्पत्तिर्भवत्विति कामनावत्वेन वक्तुरप्यस्य सार्वत्रिकव्युत्पात्तेर्भवत्विति कामनावत्वेनेत्यर्थः ।
**परिमल **
बहवो हीति । ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः’ इत्युक्तदिशा व्याकरणादयो बहव इत्यर्थः ॥ उपदेशत इति । आप्तवाक्यरूपादित्यर्थः ॥ सादृश्योपधानेनेति । सादृश्यरूपनिमित्तेर्नत्यर्थः ।
यादुपत्यम्
बहवो हीति । ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः’ इत्युक्तेरिति भावः ॥ सादृश्योपधानेनेति । सादृश्यरूपनिमित्तेनेत्यर्थः । तथा चायमितिशब्दस्य सन्निहितगवि मुख्यैव वृत्तिरसन्निहितगोषु गौणी सादृश्येन निमित्तेन प्रवृत्तत्वादित्युक्तं भवति । युगपद्वृत्तिद्वयविरोधश्च नास्मन्मते दोष इति भावः ॥ श्रोत्रा चेति । यष्टीः प्रवेशयेत्यादाविव प्रकरणबलादिति भावः । सार्वत्रिकेति । श्रोतुर्मम सार्वत्रिकव्युत्पत्तिर्भूयादिति कामनावत्वेन वक्तुरप्यस्य सार्वत्रिकव्युत्पत्तिर्भवत्विति कामनावत्वेनेत्यर्थः । अनेन तात्पर्यानुपपत्तिरमुख्यवृत्त्याश्रयणे बीजभूतोपपादिता भवतीति ज्ञातव्यम् ।
**श्रीनिवासतीर्थीया **
बहवो हीति । ‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धिपदस्य वृद्धाः’ इत्युक्तेरिति भावः ॥ उपदेशत आप्तवाक्यादित्यर्थः ।