०८ समवायनिरासः

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ

समवायनिरासः

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥

सुधा

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ इति सूरत्रम् । तत् ‘नित्यमेव च भावादि’त्यागामिसूरत्रव्याख्यानन्यायैनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण वैशेषिकादिसमयमपाकुर्वन् ‘समवायाभ्युपगमाच्च साम्यादनवस्थितेरि’त्येतत्सूत्रं वा याचष्टे कार्येति ॥

अनुव्याख्यानम्

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥

कार्यकारणयोश्चैव …… ……….

समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बध्यते । अनेन समवायप्रतिपादकं परेषां ‘इहेति यतः कार्यकारणयोः स समवाय’ इति सूत्रमर्थतोऽनुवदति । अत्र कार्यकारणशब्दाववयव्यवयववाचकौ । तौ चोपलक्षणपराविति सूचनार्थश्चशब्दः । एवशब्दः समवायस्येहप्रत्ययसिद्धत्वं सूचयति ।

शेषवाक्यार्थचन्द्रिका

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ ननु कार्यकारणयोरित्युत्तरभाष्यमनर्थकम् । न चैतत्समवायाभ्युपगमाच्चेत्येतत्सूत्रव्यायानरूपत्वान्नानर्थकमिति वाच्यम् । वैशेषिकसमयस्य पूर्वसूत्रेणैव निरस्तत्वेन तस्य सूत्रस्याप्यनर्थकत्वात् । कथञ्चिदर्थवत्वे वोभयथाऽपीत्येतत्सूत्रोत्तरत्वात्तस्य तव्द्याख्यानपूर्वकमेव व्याख्येयतया तदव्याख्यायैतन्मात्रव्याख्याने निमित्ताभावाच्चेत्यतस्तदव्याख्याने निमित्तप्रदर्शनपूर्वकं ‘समवायेति’ सूत्रस्यार्थवत्तामुपदर्शयन्नेव तत्सूत्रार्थकथनपरतयोत्तरभाष्यं योजयति उभयथाऽपीत्यादिना । कार्यकारणयोर्गणादिपञ्चकान्तर्गतत्वेन गुणादेः पञ्चकस्येत्यनेनैव सङ्गृहीततया कार्यकारणयोश्चेति पृथक् तद्ग्रहणानर्थक्यप्रसक्त्या कार्यकारणयोर् गुणादेः पञ्चकस्य च समवाय ईर्यत इति यथाश्रुतैकवाक्यतया योजनाया असम्भवात्कार्यकारणयोश्चैवेत्येकोऽत्र योगः, गुणादेरित्यादिकश्चापर इति वाक्यभेदमाश्रित्यात्रपक्षे साकाङ्क्षतया प्रसक्तवाक्याभासशङ्कपरिहारायापेक्षितं पूरयति समवाय ईर्यत इति । अत्र भाष्येऽयुतसिद्धयोरित्येव वक्तव्ये तथाऽनुक्त्वा कार्यकारणयोरित्युक्तौ किंनिमित्तमित्यतः समवायनिरूपणपरवैशेषिकसूत्रे कार्यकारणयोरित्येवोक्तेस्तदनुवादरूपेऽत्र भाष्ये तथोक्तिर्युक्तेत्यभिप्रेत्य किं तत्सूत्रं यदनुवादत्वमस्योच्यत इत्यतस्तदुदाहरणपूर्वकमस्य तदनुवादतां दर्शायति अनेनेति । आनुपूर्व्या अन्यादृशत्वेन शब्दतोऽनुवादताया बाधितत्वादाह अर्थत इति । दण्डघटयोः समवायानभ्युपगमात्कार्यकारणशब्दयोः कार्यकारणमात्रपरत्वस्यानुपपन्नत्वात्तदर्थमाह अत्र कार्येति । ननु कार्यकारणपदाभ्यामवयवावयविनोः कारणत्वेन कार्यत्वेन च सामान्येन रूपेणोपस्थितेः कार्यकारणपदयोस्तद्वाचकत्ववत् क्रियाक्रियावतोरपि ताभ्यां सामान्येन रूपेणोपस्थितेस्तद्वाचकत्वस्याप्यङ्गीकर्तव्यत्वात् क्रियात्वेन क्रियावत्त्वेन च रूपेण तदुपस्थितिदशायां कार्यकारणशब्दयोः क्रियातद्वदुपलक्षणत्वात्तद्वाचकत्वाभावाभिप्राये चावयवत्वेनावयवित्वेन च रूपेणावयवावयिनोरप्युपस्थितिदशायां तदुपलक्षणत्वेन तद्वाचकत्वस्याप्यसम्भवात्कथमवयवावयविमात्रवाचकत्वाभिधानमिति चेत् । अत्र वदन्ति । अवयवावयविनोर्विशेषरूपेण वाच्यत्वासम्भवेऽपि विशेषस्यापि कार्यत्वेन कारणत्वेन च सामान्यरूपेण वाच्यत्वात्तदभिप्रायेणैतद्ग्रन्थप्रवृत्युपपत्तेः । न चैवं क्रियातद्वतोरप्युक्तरूपेण तद्वाच्यत्वापत्तिरिति वाच्यम् । तत्त्वेऽपि तयोर्विशेषरूपेणैवोपस्थित्यर्थं तत्र लक्षणाश्रयणात् । न च तेनैव रूपेणोपस्थितेरपि न प्रयोजनं किञ्चिदिति वाच्यम् । क्रियातद्वतोर्गुणगुण्यादिसमानयोगक्षेमत्वोपदर्शनस्यैव तत्प्रयोगनत्वात् । अन्यथाऽवयवावयविसमानयोगक्षेमत्वप्रसक्त्याऽवयविन इव क्रियाया अप्यवयवमात्रनिष्ठत्वमेव न तु गुणादेरिव सकलनिष्ठत्वमिति प्रसङ्गादिति । कार्यकारणयोश्चेति चशब्दवैयर्थ्यमाशङ्क्य कार्यकारणशब्दयोर् अवयवावयविवाचकतया गुणगुण्यादिपरत्वाभावेन, गुणगुण्यादेः समवायाभावशङ्कावारणाय, तयोर् गुणगुण्याद्युपलक्षणपरत्वसूचनार्थत्वान् न तदित्याह तौ चेति । तथाऽपि भाष्ये एवेत्यंशवैयर्थ्यमाशङ्कय तत्सूत्रोक्तायाः समवायस्येहप्रत्ययसिद्धताया अत्रानुक्तेर्न कार्यकारणयोरितयादिभाष्यस्यार्थतः समवायप्रतिपादकसूत्रानुवादत्वं सम्भवतीति शङ्कापरिहाराय समवायस्येहप्रत्ययसिद्धत्वसूचनार्थत्वान्न वैयर्थ्यमित्यभिप्रेत्यैवकारस्यार्थमाह एवशब्द इति । यद्यपि कार्यकारणयोः समवाय एवेर्यत इति सम्बन्धे समवायरूपार्थावधारणेन समवायस्य प्रामाणिकत्वमेव सिध्यति तन्मात्रेणैवार्थावधारणनिर्वाहात्, न त्विहप्रत्ययसिद्धत्वम् । तथाऽप्यन्यस्य तत्साधकस्य प्रमाणस्यादर्शनात्सामान्यसिद्धेर्विशेषपर्यवसायित्वमभिप्रेत्यैतदुक्तम् । अत एव सूचयतीत्युक्तमित्यवधेयम् ।

**परिमल **

ॐ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॐ ॥ इत्यागामिसूत्रव्याख्यानन्यायेनेति । ‘नित्येच्छत्वात्परेशस्य परमाणुसदात्वत’ इत्यादिनेति भावः ॥ अत्रापीति । ‘कार्यकारणयोश्चे’त्येतदनन्तरमित्यर्थः । अर्थतोनुवादत्वं व्यपक्ति अत्रेति ॥ तौ चेति ॥ सूत्रस्थौ । इहप्रत्ययेति । स चाग्रेविवरिष्यते । एतच्च समवाय एवेत्यन्वये सति सिध्यतीति भावः ।

यादुपत्यम्

ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ उपलक्षणपराविति । गुणगुण्यादीनामिति शेषः ॥ एवशब्द इति ॥ एवशब्दस्य समवाय ईर्यत एवेति सम्बन्धे तेन समवायरूपार्थावधारणलाभादर्थावधारणस्य च प्रमाणसिद्धत्वं विनाऽसम्भवात्समवाये प्रमाणस्य चान्यस्यादर्शनादिहेतिप्रत्ययसिद्धत्वमेव तस्येति सूचयतीत्यर्थः । तथा च कार्यकारणयोरित्यनेन परकीयसमग्रसूत्रार्थानुवादो लब्ध इति भाव ॥

**श्रीनिवासतीर्थीया **

ॐ उभयथाऽपि न कर्मातस्तदभावः ॐ ॥ कार्यकारणयोः सम्बन्धः समवाय इत्युक्ते निमित्तकारणेनापि कार्यस्य सम्बन्धः समवायः स्यादतो व्याचष्टे कार्यकारणशब्दाविति ॥ सूचयतीति । तथा च समवाय एवेर्यते न संयोगः । सयवायश्चेहप्रत्ययसिद्ध इति भावः ॥

**वाक्यार्थरत्नमाला **

निमित्ताभावाच्चेति चशब्दपाठेऽनर्थकत्वसमुच्चयार्थत्वं बोध्यम् । गुणगुण्यादिसमानयोगक्षेमेति । अनेन तौचोपलक्षणपराविति वाक्ये क्रियागुणादीनां क्रियावदादीनां च क्रियात्वादिना क्रियावदवयवत्वादिनाच विशेषेणोपस्थित्यर्थमुपलक्षणाश्रयणमित्युक्तं भवति । यद्यप्यत्र क्रियातद्वतोरिव गुणगुणिनोरपि कार्यकारणपदाभ्यां सामान्यरूपेण ग्रहणं सम्भवतीति तदप्याशङ्कनीयम् । तथापि गुणगुणिनोर्विशेषोपस्थित्यर्थं लक्षणामङ्गीकृत्य क्रियातद्वतोस्तदङ्गीकारिणं प्रति तन्यायेन तत्र लक्षणाश्रयणावश्यकत्वमुपपादितमिति ध्येयम् । ततश्चावयवावयविनोरवयविनोऽवयवमात्रनिष्टत्ववद् गुणक्रिययोरपि तन्मात्रनिष्टत्वपरिहाराय कार्यकारणपदाभ्यामुपपदानपरित्यागेनाकार्यकारणभूतजातिव्यक्तिविशेषनित्यद्रव्यसलक्ष्यतयोपादानमिति तात्पर्यार्थः ॥


गुणादेः पञ्चकस्य च

गुणादेः पञ्चकस्य च

सुधा

तदेतत्स्वयमेव विवृणोति गुणादेरिति ।

अनुव्याख्यानम्

…… …… गुणादेः पञ्चकस्य च ॥

भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥

गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषणामित्यर्थः । चशब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति । ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा तत्किं समवायेनेत्यत उक्तं भिन्नस्यैवेति । तुशब्दो विशेषार्थः । न ययोः कयोश्चिद्गुणगुणिनोः समवायः, किन्त्वयुतसिद्धयोरेवेति । स गुणगुण्यादिस्वभाव एव चेन्न पदार्थान्तरसिद्धिरित्यत उक्तम् अन्य इति । ईर्यते वैशेषिकादिभिः, अतोऽपि तद्दर्शनमयुक्तमिति शेषः ।

अयमर्थः । वैशेषिकादयोऽवयवावयविनोर्गुणगुणिनोः प्रियाप्रियावतोर्जातिव्यक्त्योर् विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं सम्बन्धमभ्युपगच्छन्ति । ततोऽप्यनुपपन्नभाषिण इति ।

शेषवाक्यार्थचन्द्रिका

तर्हि कार्यकारणयोश्चैवेत्येतावतैव समवायप्रतिपादकसमग्रसूत्रार्थानु वादसिद्धेर्गुणादेरित्युत्तरवाक्यस्य वैयर्थ्यमित्याशङ्क्य कार्यकारणपदोपलक्ष्यार्थप्रदर्शनेन तद्विवरणरूपत्वान्न तदित्याशयेन तत्परतयोत्तरभाष्यं योजयति तदेतदिति । गुणादेः पञ्चकस्येत्यस्य गुणगुण्यादिपञ्चकपरत्वे समुच्चेयाभावेन समुच्चयार्थकभाष्यस्थचशब्दवैयर्थ्यप्रसङ्गात्तदवैयर्थ्यायाधेयपञ्चकपरतया तद्-व्याचष्टे गुणादेरिति ॥ तत्किं समवायेनेतीति । गुणगुण्यादेरत्यन्तभेदवादेऽबाधितेहप्रत्ययरूपसम्बन्धकार्यानुरोधेन तन्निमित्तसम्बन्धत्वेन समवायस्यावश्याङ्गीकार्यत्वेऽपि तदभेदवादे इहेदमिति प्रत्ययस्यायथार्थत्वेनाबाधितेहप्रत्ययरूपसम्बन्धकार्याभावान्न तन्निमित्तसम्बन्धतया समवायोऽङ्गीकार्य इति भावः । मूले तुशब्दस्यावधारणार्थत्वनिर्देशार्थत्वयोरनुपपत्तेस्तद्वैयर्थ्यमाशङ्क्य गुणगुण्यादेरयुतसिद्धत्वरूपविशेषद्योतनार्थत्वान्न तदिति भावेन तदर्थमाह तुशब्द इति । तुशब्दद्योतितं विशेषमेव दर्शयति न थयोरिति । तथाऽपि मूले समवायस्यान्यत्वकथनमर्त्थकमित्याशङ्क्य समवायस्य गुणगुण्यादिसम्बन्ध्यन्यत्वप्रतिपादनार्थं तदित्यभिप्रेत्य तत्प्रतिपादनस्य निष्प्रयोजनतां परिहरति स इति । अत्रापेक्षितपूरणेन साकाङ्क्षत्वप्रयुक्तवाक्याभासतां परिहरति अतोऽपीति । बुध्द्यारोहाय तात्पर्यमाह अयमर्थ इति ।

**परिमल **

तदेतदिति । कार्यकारणशब्दावयव्ययवपराविति तौ चोपलक्षणपराविति प्राक्चशब्दसूचितं चेत्यर्थः ॥ गुण्यादीति । गुणि–अवयवि–क्रियाश्रयजात्याश्रयविशेषाश्रयाणामित्यर्थः ॥ अयुतसिद्धयोरिति । एतल्लक्षणं तन्मतोपन्यासव्याख्यावसरे विवृतम् ॥ पदार्थान्तरेति । षट्पदार्थमध्यस्थपदार्थान्तरेत्यर्थः ।

यादुपत्यं

विवृणोतीति । गुणादिपञ्चकमध्ये कार्यकारणयोः पुनर्ग्रहणादेवं व्याख्यातमिति द्रष्टव्यम् ॥

**श्रीनिवासतीर्थीया **

अभिन्नमिति । तथा चेहप्रत्ययस्यैवाभावेन किं समवायेनेत्यर्थः ॥ भिन्नाभिन्नमिति । तथा च भेदस्य सत्वात्तेनैवेहप्रत्ययोपपत्तौ न समवायेन कृत्यमित्यर्थः । तमेव विशेषं व्यनक्ति न ययोरिति । तथा च यदि भेदसद्भावमात्रेणैवेहप्रत्ययस्तदा मेरुनिष्ठगुणेनापि मन्दरो गुणी स्यात् । अतो भेदेऽपि पुनर्गुणगुण्यादिव्यवहारनिर्वाहाय समवायोऽङ्गीकार्य इत्यर्थः ॥ पदार्थान्तरेति । षट्कसङ्ख्यापूरकसमवायरूपेत्यर्थः ॥

**वाक्यार्थरत्नमाला **

मूले उपलक्षणशब्देनाजहस्त्वार्थलक्षणेति सूचनाद्गुणादेः पञ्चकस्येत्यनेनाजहस्त्वार्थलक्षणया प्राक्पञ्चानामुपात्तानां विवरणं कृतं भवतीति गुणावयवीत्याद्युत्तर मूलकारीयोक्तिर्युक्ता । कार्यकारणपदोपलक्ष्यार्थप्रदर्शनेनेत्यत्र टीकावाक्येऽपि पञ्चानामुपलक्ष्यत्वोक्तिश्च युक्तेति ध्येयम् । गुणेषु नित्यत्वानित्यत्वयोरुभयोरपि सत्वेन कार्यकारणपदाभ्यामशेषगुणगुणिग्रहणायोगात्तत्परित्यागेनानित्यैकरूपत्वेन पराङ्गीकृतक्रियायास्तदाश्रयस्यैव च कार्यकारणपदाभ्यां ग्रहणसम्भवं मनसि कृत्वा क्रियातद्वतोरेव शङ्कितमिति तु वयमालोचयामः । यद्यपि कार्यकारणपदाभ्यां लक्षणया गृहीतगुणगुण्यादिचतुष्टयस्य वाचनिकावयवावयविरूपेण पञ्चत्वं भवतीति तद्विवरणत्वं गुणादेः पञ्चकस्येत्यस्य युक्तम् । वृत्तिद्वयविरोधस्तु गङ्गायां घोषो मत्स्यश्चेत्यादाविव नास्ति । तथापि काकेभ्य इत्यादाविवैकयैव वृत्याऽनेकबोधोपपत्तौ किं वृत्तिद्वयाभिप्रायेणेति भावेन पञ्चानामप्युपलक्ष्यत्वमत्रोक्तमिति ध्येयम् ।