१२ परमाणुलक्षणम्

अविभागः पराणुता

परमाणुलक्षणम्

अविभागः पराणुता

सुधा

ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् । यो हि सर्वतो ऽपकृष्टो यतः परमाणुर्नास्ति तं परमाणुमाचक्षते । तस्य सावयवत्वेऽवयविनोऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात्कथं न व्याहतिरित्यत आह अविभाग इति ।

अनुव्याख्यानम्

….. …….. अविभागः पराणुता ॥

स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् । न चैवम् । सावयवतया साक्षिसिद्धे तदसम्भवात् । किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् । तथा च कुतो व्याघात इति ।

नन्वविभाग इति कथमिदं विज्ञायते । सर्वथा विभागलक्षणगुणाभाव इति चेन्न । गुणादेरपि परमाणुत्वप्रसङ्गात् । द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न । असम्भवात् । यत्किञ्चिद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् । अवयवविभागाभावोऽभिमत इति चेन्न । गगनादेरपि परमाणुत्वापत्तेः । अवयवनाशादेव नष्टस्यावयविनोऽपि तदापन्ने इति । मैवम् । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदाऽपि भवितुमर्हति स परमाणुरिति व्याख्यानात् । एतेनावयवपरंपराविश्रमाभावेऽनवस्थेत्यपि परास्तम् । मूलक्षयाभावस्य सूचितत्वात् ।

शेषवाक्यार्थचन्द्रिका

नन्वविभागः पराणुतेत्याद्युत्तरभाष्यमनर्थकम् । न चैतत्परमाणुशब्दप्रवृत्तिनिमित्तोपदर्शनार्थमिति वाच्यम् । तदुपदर्शनस्याप्यनर्थक्त्वात् । न च पराभिमतस्य परमाणु शब्दप्रवृत्तिनिमित्तत्वाभावज्ञापनार्थत्वान्न तदिति वाच्यम् । तज्ज्ञापनस्यापि प्रयोजनाभावादित्याशङ्क्य परमाणोः सभागत्वसाधकानुमाने व्याघातशङ्कापरिहारार्थत्वात्तस्य न तदिति भावेन तच्छङ्कापरिहारकत योत्तरवाक्यं योजयितुं तदनुमाने व्याघातशङ्कामुत्थापयति नन्विति । कथमत्र व्याघात इत्यतस्तमेवोपदर्शयति यो हीत्यादिना । ननु पराभिमतमेव परमाणुशब्दप्रवृत्तिनिमित्तमित्यपि वक्तुं शक्यत्वान्नानेनाभिमतसिद्धिरित्यत एतद्भाष्यसूचितं परोक्तस्य प्रवृत्तिनिमित्तत्वमुपपादयन्व्याघातपरिहारकतया वाक्यं योजयति स्यादयमित्यादिना ।

कथमिदमिति । अविभाग इति लक्षणवाक्यार्थः केन प्रकारेण विज्ञायते भवद्भिरित्यर्थः । काऽत्र कथन्तेत्यतः किमत्र सर्वथा विभागाभाव एव प्रवृत्तिनिमित्ततयाऽभिमतः, किंवा यत्किञ्चिद्विभागाभावः, अथवाऽवयवविभागाभाव इति विकल्पान्मनसि निधायाद्यं दूषयति सर्वथेति । किमत्र निर्विशेषणमविभागत्वं तत्त्वेनाभिमतं किंवा सविशेषणमिति विकल्पद्वयं मनसि निधायाद्यं प्रत्याह गुणादेरपीति ।

गुणादेर्निर्गुणतया सर्वथा विभागाभावस्य तत्रापि सत्त्वादिति भावः । द्वितीयमाशङ्कते द्रव्यत्वे सतीति विशेषणादिति ॥ असम्भवादिति । विभागस्य द्रव्यसामान्यगुणत्वादिति भावः । आद्यद्वितीयमुत्थाप्य दूषयति यत्किञ्चिदिति । तृतीयमाशङ्कते अवयवेति । अतिव्याप्त्या दूषयति गगनादेरपीति । तत्रावयविनो नित्यत्वेनावयवानां विभागस्यासत्त्वादिति भावः । गगनादेः सावयवत्वेऽवयवविभागाभावे च विप्रतिपन्नं प्रति पटादावनित्यावयविन्यपि तामाह अवयवेति ।

ननु च तन्त्वाद्यवयवसंयोगनाशेनावयविनाशादवयवि(ना)नोऽस्त्येव यावत्स्वसत्त्वमवयवविभागवत्त्वमित्युक्तलक्षणागमनात्कथं तत्रातिव्याप्तिरित्यतस्तादृशावयविन्यतिव्याप्त्यसम्भवेऽप्यवयवनाशादेव नष्टे तस्मिन्यावत्स्वसत्त्वमवयवविभागवत्त्वाभावादतिव्याप्तिरवर्जनीया इत्याशयेनोक्तम् अवयवनाशादेव विनष्टस्येति ॥ यस्येति । तेषाम् अवयवानां परस्परमिति शेषः । सत्यवयविनीत्यपि शेषः । यस्य तेषामित्यादिविशेषणमहिम्ना तेषामित्यस्यावयवाऽवयवित्वावस्थापन्नानामित्यर्थः । अत्र च यदीयावयवानां विभागो भवितुं नार्हति स परमाणुरित्येव कृते गगनादेरपि परमाणुत्वापत्तिः । तस्य नित्यतया तदीयावयवानामपि विभागभवनानर्हत्वात् । तन्निरासाय यस्य विभिन्नावयवेषु सत्स्वित्युक्तम् । तस्य च विभिन्नावयवानामसत्त्वान्नातिप्रसङ्गः । येषां विभागो न भवतीत्येतावन्मात्रं चावयवनाशान्नश्यति द्रव्येऽप्यस्तीति तादृशावयविनोऽपि परमाणुत्वप्रसङ्गस्तन्निरासायार्हतीत्युक्तम् । नार्हतीत्येतदुपपादयितुं कदाऽपीत्युक्तम् । कुत्रापि तत्सजातीयेऽपीति यावत् । तथा चावयवनाशेन नष्टे वस्तुनि त्ववयविभागयोग्यताऽस्ति । ततश्च तत्सजातीये तन्तुन्यवयवानां विभागदर्शनात्सजातीयदर्शनरूपस्य योग्यताकल्पकस्य तत्र सत्त्वाद्विभागो भवितुं नार्हतीत्यस्यांशस्य तत्राभावान्नातिप्रसङ्गः । अत एव न द्य्वणुकादावतिप्रसङ्गः । तत्राप्यणुकार्यत्वेन सजातीयतया वादिप्रतिवादिसम्मते चतुरणुके तद्विभागदर्शनेन द्य्वणुकादौ विभागादर्शनेऽपि तद्भवनयोग्यतायाः सत्त्वेनोक्तलक्षणविरहात् । नाप्यसम्भवः । उक्तरीत्याऽन्यत्र योग्यतायाः कल्पकसद्भावेन कल्पयितुं शक्यत्वेऽपि परमाणौ तद्विरहेण योग्यतायाः कल्पयितुमशक्यत्वात् । न च विभिन्नावयवत्वस्य परमाणावसिद्ध्या पुनरप्यसम्भव इति वाच्यम् । उत्पत्तिविनाशवत्परमाणोः स्वावयर्वैर्भेदस्यावश्याश्रयणीयत्वात् । तस्मिन्सत्यप्यसत्त्वस्यैवावयवावयविभेदव्यवस्थापकतया सिद्धान्ते सम्मतत्वात् । न च परमाण्ववयवेऽतिव्याप्तिरिति वाच्यम् । भूतसूक्ष्माणामेव परमाण्ववयवत्वेन तेषां चानादिनित्यत्वेन भेदसाधकखण्डितत्वयुक्तेस्तत्राप्रसरणेन तद्भेदासिद्ध्या विभिन्नावयवेषु सत्वित्यनेनैव तत्रातिव्याप्तिपरिहारात् ।

यत्तु ततोऽपि परमाणुत्वं तदंशानामित्यादिवाक्यानुरोधात्तेषामपि लक्ष्यत्वमेवेति न तत्रातिप्रसङ्ग इति केषाञ्चित्समाधानम् । तन्न । तत्रोक्तरीत्या लक्षणाभावेनाव्याप्तिप्रसङ्गात् । ‘कणादाद्या निरंशिनं यमाहुर्भ्रान्तिदर्शनादि’त्यादि तदुत्तरग्रन्थानुरोधेन त्रसरेणुपष्ठभागस्यैव परमाणुत्वेन ‘लक्ष्यतायास्तत्रापि सिद्धत्वेन ततोऽपि परमाणुत्वमि’त्यस्य पूर्वपक्षवाक्यत्वस्यैव वाच्यतया तदनुरोधेन परमाण्ववयवानां लक्ष्यत्वस्य कल्पयितुमशक्यत्वाच्च । न च मनसि प्रसङ्गः । तस्यापि लक्ष्यत्वात् । जीवपरमाणोराकाशपरमाणोश्चालक्ष्यत्वान्न तत्राव्याप्तिरपीति सङ्क्षेपः ।

एतेनेति । यस्य विभिन्नावयवेषु सत्स्विति परमाणोर्विभिन्नावयवसद्भावोक्त्या तदवयवानां भूतसूक्ष्माणां विभिन्नावयवासत्त्वसूचनद्वारा नित्यत्वसूचनपरेणाविभाग इति मूलेनेत्यर्थः ॥ मूलक्षयेति । न तावदवयवपरम्पराकल्पकाभावोऽत्र मूलक्षयस्सम्भवति । अविश्रान्तावयवपरम्परायाः साक्षिसिद्धतायाः समर्थनात् । नापि घटादिकार्यानुत्पत्तिरूपप्रयोजनपरिक्षयः । जनकीभूतावयवपरम्पराया अविश्रान्तिपक्षे पूर्वपूर्वावयवानुत्पत्तावुत्तरोत्तरावयवानुत्पत्त्या घटादिरूपप्रकृतकार्यस्याप्यनुत्पत्तिरिति मूलक्षयप्रसङ्गोऽपि परमाण्ववयवभूतसूक्ष्मेषु तद्विश्रान्त्यभ्युगमवादे तदप्रसरादिति भावः ।

**परिमल **

कथमिदमिति । ‘अविभाग, इतीदं वाक्यं कथं व्याख्यायत इत्यर्थः । सम्भावितपक्षानुट्टङ्क्य निराह सर्वथेत्यादिना । असम्भवादिति । द्रव्यस्यैव विभागगुणाश्रयत्वादिति भावः । मेरुमन्दरयोरपीति । तयोः कदापि संयोगाभावेन विभागरूपगुणस्यापि तयोरन्योन्यनिरूपितस्य कदापि अभावादिति भावः ॥ अवयवेति । अवयवनिरूपिते विभाग इत्यर्थः ॥ तेषां विभाग इति । पार्थक्यमित्यर्थः । अत्र गगनेऽनतिव्याप्तये विभिन्नावयवेषु सत्स्वपीत्युक्तिः । अवयवानाशान्नष्टे अवयविन्यनतिव्याप्तये तेषां विभागो न कदापि भवितुमर्हतीति योग्यताऽभाव उक्तः । तत्र सजातीये अवयव्यन्तरे अवयवविभागदर्शनरूपयोग्यतासत्वान्नातिव्याप्तिरिति भावः । ‘न चावयवभेदेन स्यादेव ह्यनवस्थितिरि’ति गीतातात्पर्योक्तेर्नित्यपरमाणावपि अवयवभेदोऽस्त्येवेति केचिद्य्वाचक्षते । अन्ये तु न्यायमते गगनेऽपि सावयवत्वे विवादादवयवेषु सत्स्वित्येतावता गगनादावनतिव्याप्तेर्विभिन्नेति स्वरूपकथनम् । न्यायमते भेदप्रतिनिधिविशेषानभ्युपगमादवयवानामवयविना भेदाभावे निरवयवमेवेति प्राप्तमिति तदीयशङ्काऽपनुत्तयेऽवयवसत्त्वस्फुटीकरणाय (वि)भिन्नेत्युक्तमिति पररीत्यैवेदं लक्षणं परं प्रत्युक्तम् । अत एव लक्षणान्तरमिति व्याचक्षते । वस्तुतस्तु विभिन्नावयवेष्वित्यस्यावयविना भिन्नेष्विति नार्थः । किन्तु एकैकोऽप्यवयवः स्वान्तर्भेदयुक्तः सखण्डो न त्वखण्ड इत्यर्थः । तथा च विभिन्नेषु सखण्डेषु अनेकांशोपेतेष्ववयवेष्विति फलितार्थः ॥ सूचितत्वादिति । अवयवानामारम्भकत्वे पूर्वपूर्वावयवारम्भानन्तरमेवोत्तरोत्तरावयवारम्भनियमेन प्रकृतपरमाणुलक्षणावयव्यारम्भस्य वाच्यतया पूर्वपूर्वासिध्या परमाण्वाख्यावयव्यसिद्धेर्मूलक्षयकारी स्यात् । न चैवम् । आरम्भकावयवानां कार्यदशान्यदशायां विभक्तत्वाद् इह चाविभाग इति कदापि विभागाभावोक्त्याऽनारम्भकत्वसूचनेन वा कदाप्यवयवविभागाभावोक्त्या परमाणोरकार्यत्वनित्यत्वयोः सूचनेन वा प्रकृतपरमाण्वाख्यवस्तूत्पत्तिज्ञप्त्यप्रतिबन्धकत्वसूचनादिति भावः ।

यादुपत्यं

कथमिदमिति । ‘अविभाग’ इति लक्षणावाक्यार्थः केन प्रकारेण विज्ञायते भवद्भिरित्यर्थः ॥ गगनादेरपीति । तत्रावयविनो नित्यत्वेनावयवविभागस्याभावादिति भावः ॥ अवयवनाशादेवेति । न तु तत्संयोगनाशात् । येन तत्रावयवविभागः स्यात् । तथा च तत्र यावत्स्वसत्त्वमयवविभागाभावादतिव्याप्तिरिति भावः ॥ यस्य विभिन्नेति । अत्र गुणादिष्वतिव्याप्तिपरिहारायावयवेषु सत्स्वपीत्युक्तम् । इदं च पररीत्यैव । अस्मन्मते गुणादेरपि सभागत्वादिति द्रष्टव्यम् । गगनादावतिव्याप्तिपरिहाराय विभिन्नेति । अवयवनाशादेव नष्टेऽवयविन्यतिव्याप्तिवारणायार्हन्तीति । नार्हतीत्येतदुपपादयितुं कदाऽपीत्युक्तम् । कुत्रापि तत्सजातीयेऽपीति यावत् । अवयवनाशेन नष्टेऽवयविनि त्ववयवविभागयोग्यताऽस्ति तत्सजातीयेऽवयविन्यवयवविभागदर्शनादिति भावः ॥ मूलक्षयेति । यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो भवितुं नार्हतीत्युक्त्या परमाणुरूपावयविनो नित्यत्वावगमेन स्वावयवाजन्यतायाः सूचनादित्यर्थः । तथा च यदि हि तत्तज्जनकीभूतावयवपरम्पराया अविश्रमस्तदा परमनवस्थादूषणम् । पूर्वपूर्वावयवानुत्पत्तावुत्तरोत्तरावयव्यनुत्पत्तेः प्रकृतकार्यस्याप्यनुपपत्तिरिति मूलक्षय सम्भवात् । न चैवमस्माभिरङ्गीक्रियते किन्त्वनन्तांशोऽपि परमाणुः स्वावयवाजन्य एवादिकार्यजनक इति । ततश्च घटादिकार्यजनकावयवपरम्परायास्तत्र विश्रान्तिसम्भवान्न मूलक्षय इति भावः ।

**श्रीनिवासतीर्थीया **

तदसम्भवादिति । साक्षिसिद्धे परमाणौ तस्य यतः परमाणुर्नास्ति स परमाणुरिति निर्वचनस्यासम्भवादित्यर्थः ॥ गुणादेरिति । गुणे गुणानाङ्गीकारादित्यर्थः ॥ असम्भवादिति । विभागस्य सामान्यगुणत्वेन द्रव्यत्वे सति विभागलक्षणगुणशून्यः परमाणुरित्युक्तेऽसम्भवादिति भावः ॥ मेरुमन्दरयोरिति । तत्रापि स्वस्वनिष्ठयत्किञ्चिद्वॄक्षे प्रत्यन्तपर्वतादिविभागाभावोऽस्तीति भावः । अवयवनाशात् समवायिकारणनाशात् ।

**वाक्यार्थरत्नमाला **

पराभिमतस्येति । परस्परपरमाणुशब्द प्रवृत्तिनिमित्तत्वेनाभि मतस्येत्यर्थः । पराभिमतमेवेति । यो हि सर्वतोऽपकृष्ठ इत्यादिनोक्तमित्यर्थः । नन्वविभाग इतीति मूलम् । अविभाग इतीदं कथं विज्ञायते । किमर्थकमिति योजना । निर्विशेषणमिति । केनचिद्विशेषणेनानुपस्कृतमित्यर्थः । अविभागत्वमात्रमिति यावत् । अविभागत्वं च सर्वथाविभागलक्षणगुणाभावरूपमिति सिद्धमेव । तत्वेन शब्दप्रवृत्तिनिमित्तत्वेनेत्यर्थः । सविशेषणं केनचिद्विशेषणेनोपस्कृतम् । मेर्विति मूलम् । मेर्वादावाकाशविभागराहित्यादिति भावः । अवयवेतीति । अत्र च द्रव्यत्वे सतीति विशेषणस्याभिप्रेतत्वान्न गुणादावतिव्याप्तिरिति हृदयम् । अत एव गगनादावेवातिव्याप्तिर्वक्ष्यतीति ज्ञेयम् । यत्किञ्चिदिति पक्षे तु यत्किञ्चिदित्युक्तैव किञ्चिद्विभागस्थत्वलाभाद्गुणादिव्यावृत्तिसिद्धेर्द्रव्यत्वे सतीति विशेषणं नापेक्षितमिति ज्ञेयम् । तन्त्वाद्यवयवेति । आदिना कपालादिपरिग्रहः । अवयवीति । पटादिरूपावयवीत्यर्थः । इत्युक्तेति । इत्यतो हेतोरुक्तलक्षणेत्यर्थः । तेषामवयवानामिति । अत्र तेषामित्यनूद्यावयवानामिति व्याख्यानम् । परस्परमिति तु शेषपूरणमिति विवेकः । अन्यावयवादिभ्यो विभागस्य विद्यमानत्वात्परस्परमिति शेषपूरणम् । यो नष्टोऽवयवी तदीयावयवानां विभागो भवितुं नार्हतीति किल स्थितिः । असमवायिकारणसंयोगनाशाद्वा समवायिकारणभूतावयवनाशाद्वा यत्रावयविनाशात्पूर्वमेवावयविविभागस्य वा तन्नाशस्य वा सद्भावेनावयविनाशानन्तरं तदवयवानां विभागार्हत्वाभावेन तथाविधावयविनि यस्य विभिन्नावयवेषु सत्स्त्वपीत्यादि संपूर्णलक्षणस्यातिव्याप्तिः स्यादित्यतः सत्यवयविनीति विवक्ष्यते । तथाचावयविनाशानन्तरं सत्यवयविनीत्येतद्विशेषणाभावान्नाति व्याप्तिः । अर्हतीत्येतत्पदकृत्यं तु अवयवनाशादेवेत्यनेन वक्ष्यति ।

तत्र चावयविनः सत्ताकाल एव यस्य भिन्नावयवेषु सत्स्वपि तेषां विभागो नास्तीत्यस्य लक्षणस्य सत्वेनातिव्याप्तिरित्यतोऽर्हतीत्युक्तमिति विनाशयोग्यस्यैव द्रव्यस्योपादानेनातिव्याप्तिर्विवक्षिता । अतो विनाशोत्तरमवयविन्यतिव्याप्तिपरिहाराय सत्यवयविनीत्यस्यावश्यं निवेशः कार्य इत्याशयेनाह । सत्यवयविनीत्यपीति । एतेनार्हतीत्यनेनैवावयविनाशस्थलेऽतिव्याप्तिनिरासात्सत्यवयविन्यर्हतीत्यनयोरन्यतरव्यर्थतेत्यपास्तम् । शेषपूरणपक्षमसहमानः पक्षान्तरमाह । यस्य तेषामित्यादीति । अवयवित्वावस्थानानामित्युक्तयाऽवयविनि सतीत्यर्थलाभादिति भावः । विभिन्नावयवेषु सत्स्वित्युक्तमिति । विभिन्नत्वं चावयव्यपेक्षयेत्येतन्न च विभिन्नावयवत्वस्येत्याद्युत्तरटीकायां स्पष्टम् । अवयवनाशादिति । यत्रासमवायिकारण संयोगनाशाद्द्रव्यनाशस्तादृशद्रव्ये सत्यवयविन्यवयवविभागस्य सत्वेन तदभावाभावान्नातिव्याप्तिरित्याशयेनावयवनाशादित्युक्तम् । एवमुत्तरत्रापि द्य्वणुकादावतिव्याप्तिस्तु तदसमवायिकारण संयोगनाशाभिप्रायेणेति बोध्यम् । नश्यद्रव्य इति । नाशयोग्ये द्रव्य इत्यर्थः । विनष्टेऽतिव्याप्तेः सत्यवयविनीत्यनेनैव परिहृतत्वात् । सजातीय इति । असमवायिकारणसंयोगनाशान्नाशयोग्ये द्रव्ये सत्यवयविनि तदवयवानां विभागदर्शनादित्यर्थः । सत्यवयविनीत्येतत्कृत्यकथनं तु शेषपूरणव्याजेनैवाभिहितप्रायमित्याशयेन मूलोक्तविशेषणानामेव कृत्यकथनं टीकायामिति न दोषः । वादीति । चतुर्भिस्त्र्यणुकैरारब्धे चतुरणुके जायमानस्य सत्यवयविनि तदवयविभागस्योभयसंमतत्वादिति भावः । तद्विरहेणेति । अणुकार्यत्वेन सजातीयत्वानुपपत्या कल्पकविरहेणेत्यर्थः । भूतसूक्ष्माणामेवेति । एतच्च नन्वस्माभिर्भूतसूक्ष्माणां नित्यताङ्गीक्रियते तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणिकिन्नामाहंकारोपचितानि विकृताकारश्चानित्य एवेतीत्येवंरूपादिमत्वाच्च विपर्यय इत्येतत्सूत्रीयमूलानुसारेण बोध्यम् । अनेन भूतसूक्ष्मावयवकोहंकारोपचितपरिमाणानामविशेष एव परमाणुरिति ध्वनितं भवति । खण्डितत्वयुक्तेस्तत्रेति । तस्मिन्सत्यप्य सत्वरूपखण्डितत्व युक्तेर्भूतसूक्ष्मे स्वावयवापेक्षयाऽभावेनेत्यर्थः । तद्भेदेति । भूतसूक्ष्मस्य तदवयवानां च भेदस्येत्यर्थः । लक्षणापदकृत्यकथनरूपान्यथाख्यातिग्रन्थो वाक्यार्थविनोदेति दूषितोऽस्ति । परमाण्ववयवेऽति व्याप्तिमाशङ्क्य निरासेन तल्लक्ष्यत्वाङ्गीकारेण तद्ग्रन्थप्रवृत्तिरपि दूषितेति बोध्यम् ।

त्रिकांपुरस्थनृसिंहाचार्यमतमनुवदति । यत्विति । इत्यादि वाक्येति । तृतीयस्कन्धीयद्वादशाध्यायतात्पर्योदाहृततत्वविवेकप्रमाणवाक्येत्यर्थः । ततोऽपि परमाणुत्वमिति । वाक्ये परमाण्ववयवानां परमाण्ववयवापेक्षयाऽपकृष्ट परिमाणत्वोक्तया परमाणुत्वेनाङ्गीकारप्रतीतेः परमाणुलक्षणेऽवयवानामपि लक्ष्यत्वं वाच्यमिति परेषामाशयः । लक्षणाभावेनेति । परमाण्ववयवभूतसूक्ष्मस्य नित्यतया स्वावयवैरत्यन्ताभिन्नत्वेन विभिन्नावयवेष्वित्यंशस्याभावादित्यर्थः । यमाहुर्भ्रान्तीति । यं ब्रूयुर्भ्रान्तीत्येव तात्पर्ये उदाहृतत्वेऽपि ब्रूयुरित्यस्याहुरित्यर्थानुवादोऽयमित्यदोषः । ब्रूयुरितीति टीकापाठे तु यथाश्रुतानुवादत्वमेवेति ध्येयम् । तदुत्तरग्रन्थानुरोधेनेति । अत्र तत्पूर्वग्रन्थानुरोधेनेति पाठः स्वरसः । तदुत्तरेति पाठेऽपि तत् ततोऽपि परमाणुत्वमिति वाक्यमुत्तरं यस्य कणादाद्या इत्यादिरूपस्य तदुत्तरो ग्रन्थ इत्येवं बहुव्रीहिणार्थः । अतो नानुपपत्तिरिति ध्येयम् । तत्रापि सिद्धत्वेनेति ।

चरमस्तु विशेषाणामनेकासंयुतस्तु यः ।

परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥

इत्येतत्परमाणु लक्षणपरभागवतवाक्यव्याख्यानरूपमनुष्यादेव लोकेऽपि विशेषेणैव दर्शने ।

अंशाशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ।

चरमोविशेष इति तं मुनयो ब्रूयुरंजसा ।

परमाणुः स विज्ञेयः ॥

इत्यन्ते ततोऽपि परमाणुत्वमित्यतः प्राक्तनवाक्येऽपीत्यर्थः । त्रसरेणु षष्ठभागस्यैव कणादादिभिर् निरंशत्वेनाभ्युपगततयायं ब्रूयुः । स विज्ञेय इत्युक्तया च तैः परमाणुत्वेनाङ्गीकृतस्यैव लक्ष्यत्वावगमस्य स्पष्टत्वादिति भावः । पूर्वपक्षवाक्यस्यैवेति । अयं भावः । परमाण्वंशानां परमाण्वपेक्षयापकृष्ठपरिमाणत्वात्रेषामेव परमाणुत्वं कुतो नोच्यत इत्येतच्छङ्कापरिहाराय प्रवृत्तस्य ततोऽपि परमाणुत्वं तदंशानां तु यद्यप्यनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुतेति वाक्यस्य हि अयमर्थः । तदंशानां परमाणुत्वेनाभिमतपदार्थादपि परमाणुता अतितरामपकृष्टपरिमाणाश्रयता वर्तते । तथापि विवेकार्थं कणाद्युक्तरीत्या प्रसिद्धत्रसरेणुषष्ठभागाद्य्वणुकादिप्रक्रमेण कार्यकारणप्रक्रियानुसारेणैव परमाणुद्य्वणुकादिविवेकार्थम् अस्य कणादादिभिर्निरंशत्वेनाभिमतत्रसरेणुषष्टभागस्य परमाणुतोक्तपरमाणुशब्दवाच्यत्वेन सङ्केतितत्वमुच्यते । अन्यथा परिमाणापकर्षतारतम्याविश्रान्ततया परमाणुद्य्वणुकादिज्ञानस्य अशक्यतया परमाण्वादिमहावयव्यन्तवस्तुजातस्य कार्यकारणभावप्रक्रियादुर्बोधा स्यादिति । तथा च एतद्वाक्यार्थपर्यालोचनायामत्यपकृष्टपरिमाणाश्रयतया परमाणुत्वमित्यङ्गीकारे परमाणुत्वेन यदभिमतं तदवयवानामपि ततोऽप्यपकृष्टपरिमाणाश्रयत्वेन परमाणुतापि कुतो नाङ्गीकार्येति शङ्का न प्रसरति ।

कणादादिभिर्निरंशत्वेनाभिप्रेतत्रसरेणुषष्टभागस्यैव परमाणुद्य्वणुकादिकार्यकारणभाव प्रक्रियावबोधोपयुक्तत्वेनात्र परमाणुरिति क्रियमाणसङ्केतविषयत्वोपपत्तावपि परमाण्ववयवानां युक्तप्रयोजनानुपयुक्ततया उक्तसंकेतविषयत्वस्यानुपपत्तेरित्येतावत एवार्थस्य प्रतीतावपि परमाणुवत्तदंशानामपि परमाणुत्वम् इत्येतदर्थस्य तद्वाक्यादप्रतीत्योक्तार्थस्य तद्वाक्यबलायातत्ववचनस्य तद्वाक्यशेषभूतयद्यपीत्या द्युत्तरवाक्यार्थानवबोधनिबन्धनत्वमेव । न च पराभिप्रेतत्रसरेणुषष्टभागस्यैव लक्ष्यत्वाङ्गीकारप्रयोजन भूतपरमाण्वादिकार्यकारणभावप्रक्रियामाविज्ञापितस्याः सिद्धान्त्यनभिमतत्वादिति वाच्यम् । अस्याः परमाण्वादीनां महावयव्यन्तानां कार्यकारणभावप्रक्रियाः कणादाद्यभिहितत्वमित्येतावतैव सर्वथासिद्धान्त्यभिमतता नेति केनापि वक्तुमशक्यत्वात् । अतः परोक्तप्रक्रियानुसारेण त्रसरेणुषष्ठभागस्यैव वैवक्षिकी परमाणुता ॥ न तु तदंशानामपीत्येवं परिहारकारणानुसारेण परमाणुवत्तदंशानामप्यत्यन्तापकृष्टपरिमाणाश्रयत्वात् परमाणुता कुतो नेत्येतच्छङ्कापरत्वमेव ततोऽपि परमाणुत्वमित्यस्य वाक्यस्य स्पष्टमिति तदेववाच्यमिति । उपलक्षणमेतत् । रूपादिमत्वाच्चेति सूत्रव्याख्यानरूपस्पर्शादिहेतुभ्यः परमाणोरनित्यतेत्युत्तरानु व्याख्यानरूपमूले नन्वस्माभिर् भूतसूक्ष्माणां नित्यताङ्गीक्रियते । तत्कथमेवमनुमीयते । मैवम् । न हि परमाणवो भूतसूक्ष्माणि । किन्नामाहंकारोपचितानि । विकृताकारश्चानित्य एवेति ग्रन्थे भूतसूक्ष्माणां विकृताकारस्य परमाणुतया विवक्षितत्वोक्तया परमाण्ववयवानां विकृताकारत्व रूपपरमाणुत्वाभावोक्तया च परमाणुताया वैवक्षिकत्वस्य सिध्या कणादाद्यभिमतत्रसरेणुषष्ठभागस्यैव परमाणुरित्येतत्संकेतविषयताया मूलकृदभिप्रेतत्वेन सिद्धतया भूतसूक्ष्माणामुक्तसंकेतविषयत्वाभावेन परमाणुत्वस्यैव सिध्या तल्लक्ष्यत्वाङ्गीकारस्य सुतरामयुक्तत्वात् । अन्यथा भूतसूक्ष्माणां परमाणुतया रूपस्पर्शादिहेतुभ्यस्तेषामप्यनित्यत्वं स्यादित्यपि द्रष्टव्यम् । तस्यापीति । एतच्च द्वितीयलक्षणोपपादनावसरे ग्रन्थकृदेव विभाग इष्यते इति ध्येयम् । अव्याप्तिरपीति । जीवाकाशपरमाण्वोर्नित्यत्वेन विभिन्नावयवेष्वित्यंशस्याभावेन प्राप्तायाऽव्याप्तिः सापि नेत्यर्थः । साक्षिसिद्धताया इति । ननु यदिपरंपरासाक्षिसिद्धा तर्हिकल्पकापेक्षाया अभावात्कल्पनाभाव एव प्राप्नोति । कल्पक परीक्षया भाववर्णनेन कल्पनोपपादनं विरुद्धमिति चेत् । प्रामाणिक कल्पनागौरवमित्यादाविवकल्पना पदस्योपपादकतया स्वीकारपरत्वेनादोषात् । एवमन्यत्रापि ज्ञेयम् । परमाण्ववयवभूत सूक्ष्मेषु तद्विश्रान्तीति । जनकीभूतावयवपरंपरायास्तेषु विश्रान्तिसत्वेनेत्यर्थः ।

अयंभावः । प्रकृतघटादिकार्यानुत्पत्तिरेव वाच्यम् । अवयवावयविपरंपराया अविश्रान्त्येङ्गीकारे एतद्घटाद्यवयवादिपरंपरायां मूललाभेन तदुत्पत्यनुपपत्तौ तदवयवकद्रव्यस्याप्यनुत्पत्तिरिति परंपराया घटाद्यवयवोत्पत्य सम्भवात् । घटाद्यनुत्पत्तिप्रसङ्ग इति नत्वियमस्ति । अवयवावयविपरंपराया अविश्रामेपि घटादि जनकावयविपरंपरायाः परमाण्ववयवभूतसूक्ष्मेषु पर्यवसन्नत्वेन भूतस्म सूक्ष्माणां च नित्यत्वेन तदारम्भक द्रव्यान्तरानङ्गीकार तद्रूपमूलकारणेन परमाणूत्पत्ति सम्भवात् । ततश्च न प्रयोजन परिक्षया इति । यतो विभिन्नं वस्तु नास्तीत्यर्थः । स्यादिति । विभागशब्दस्य विभज्यमानद्रव्यपरत्वे अघटं भूतलमित्यादिवदविभागशब्देन भिन्नशून्यत्वमुक्तं भवति । तस्यैव तात्पर्यार्थो यतोभिन्नं नास्तीत्यर्थ इति ध्येयम् ।

स्वावयवानां चेति । नन्वत्र स्वावयवावयवानामेव ग्रहणं कर्तुमुचितम् । तानादाय प्राप्ता सम्भवस्य वक्ष्यमाणरीत्या अनवयवरूपमित्यर्थकस्वतन्त्र मित्यनेन परिहार सम्भवात् । न तु स्वावयवानामपि । तानादाय प्राप्तासम्भवस्य अवयवरूपमित्यर्थकेन स्वतन्त्रमित्यनेन परिहारायोगात् । स्वावयवानामवयवत्वावस्थानापन्नत्वस्य सत्वेन वक्ष्यमाणानवयवरूपत्वस्य तत्रापि सत्वाद् इति चेन्न । भवेदेवं यद्यत्र स्वावयवावयवसमकक्षत्वम् असम्भवप्राप्ता विवविशेषणेन तत्परिहारेऽपि स्वावयवानामभिप्रेतं स्यात् । न चैवम् । अपि तु असम्भवप्राप्तावेव तयोः समकक्षत्वम् । स्वावयवावयवानिव स्वावयवानप्यादायासम्भवस्य दुर्वारत्वात् । तमेतं विशेषमभिप्रेत्यैव स्वावयवानां वेति प्रथमशब्दो अनास्थार्थकष् टीकाकृता प्रयुक्तः । अन्यथा स्वावयवानां तदवयवानां वेत्येवावक्ष्यत् । स्वावयवानुपस्थितौ द्वाराभावेन तदवयवावयवानामप्युपस्थितिर्न सम्भवतीति तदुपस्थित्युपयोगितया स्वावयवग्रहणं कृतमित्यप्याहुः । केचित्तु स्वतन्त्रमित्यनेनैव स्वावयवानां तदवयवानां च व्यावृत्तिरिति उभयेषामपि युक्तमेवासम्भवप्राप्ताविव तत्परिहारेऽपि समकक्षत्वम् । नन्ववयवरूपमित्यर्थकस्वतन्त्रमित्यनेन स्वावयवपरिहारः कथमिति चेन्न । अयमत्राभिप्रायष्टीकाकारस्यास्वतन्त्रमित्यस्य विवरणद्वयम् एकमनवयवरूपमिति । अपरं स्वावयवं विनेति । तत्र स्वावयवावयवानादाय प्राप्तासम्भवस्य अनवयवरूपमित्येतदर्थकस्वतन्त्रमित्यनेनैव परिहारः । स्वावयवानादायं प्राप्तासम्भवस्य तु स्वावयवं विनेत्यर्थकस्वतन्त्रमित्यनेनैव परिहारः । तत्राद्यपरिहारोपपादनं तस्यैव विवरणमित्यादिना कृतम् । द्वितीयपरिहारोपपादनं तु ननु परमाण्ववयवेत्यादिना तमेवासम्भवं पुनरुत्थाप्य तत्परिहारप्रतिपादनेन करिष्यते । तदर्थं च इत्यतः परं विवरणान्तररूपमिति शेषः । पूरणीयः । स्वावयवानादायासम्भवस्य प्रथमतोऽभिधानेऽपि तत्परिहाराय पश्चाद्यत्नकरणं सूचीकटाहन्यायेनेति न दोषः । अतो न काप्यनुपपत्ति रित्याहुः । वस्तुतस्तु अवयवत्वावस्थानापन्नत्वार्थकेनानवयवरूपम् इत्येतद्विवरणेनैव असम्भवद्द्वयस्यापि परिहारष्टीकाकृदभिप्रेतः परमाणूत्पत्यनन्तरं भूतसूक्ष्माणाम् अवयवत्वावस्थापन्नस्यापि न तादृशापकृष्ठपरिमाणसद्भावेप्यवयवत्वावस्थानापन्नापकृष्ठपरिमाणस्य सत्वाप्राप्त्या लक्षणसत्वस्य स्वावयवादानेऽपि साम्यात् । ततश्च स्वावयवावयवानामिव स्वावयवानामपि असम्भवप्राप्तितत्परिहारयोः समकक्षमेवेति स्वावयवानामपि ग्रहणे बाधकाभावः ।

ननु परमाण्ववयवेत्यादिटीकाग्रन्थेन तु अवयवत्वावस्थानापन्नत्वं नाम सर्वदापदवत्वास्थापन्नं तदतिरिक्तत्वं विवक्षितम् । भूतसूक्ष्माणां च परमाणूत्पत्यनन्तरमवयवत्वावस्थापन्नत्वे विद्यमानेऽपि तदुत्पत्तेः प्राक् विनाशाच्च परत अवयवत्वावस्थापन्नत्वाभावेन सार्वकालिकावयवस्थापन्नं यत्तदतिरिक्तत्वस्यैव सत्वेन अवयवत्वावस्थानापन्नमित्यनेन भूतसूक्ष्माणां व्यावृत्यनुपत्तेस्तान्यादाय प्राप्तासम्भवस्यापरिहार एवेत्येवमधिकविवक्षया असम्भवपरिहारमाक्षिप्य तत्परिहारपरतया स्वावयवं विनेत्येतद्विशेषणमवतार्यत इति न कापि कुसृष्टिः । अवस्थानापन्नानामपि तेषां परमाणूत्पत्यादेः प्रागिति वक्ष्यमाणटीकायामुक्तार्थप्रतीतेः । तत्रादिपदेन विनाशो ग्राह्यः । पूर्वमित्येतत्पश्चादित्यस्योपलक्षणमिति वक्ष्यत इति ध्येयम् ।