११ साक्षिप्रामाण्यसमर्थनम्

यदि साक्षी स्वयम्भातो न मानं केन गम्यते

साक्षिप्रामाण्यसमर्थनम्

यदि साक्षी स्वयम्भातो न मानं केन गम्यते

सुधा

परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् । तदसत् । परिमाणस्य द्रव्याश्रयत्वात् । परमाणुतोऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् । मैवम् । परमाणुभागानां सत्त्वात् । न च तेषु विश्रान्तिः । तेषामपि (भागसत्वात्) सभागत्वात् । अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं साक्षी नाम प्रमाणमेव नास्तीति वदतो बाधकं तावदाह यदीति ।

अनुव्याख्यानम्

यदि साक्षी स्वयम्भातो न मानं केन गम्यते ॥

***अक्षजादेश्च मानत्वम् …. …… ***

साक्षी नाम मानं यदि नेष्यते तदाऽक्षजादेर्ज्ञानस्य मानत्वम् । चशब्दाद्बहिः कालाकाशादिकमन्तः सुखादिकं च केन प्रमाणेन गम्यते न केनापि । तद्ग्राहकस्य प्रमाणान्तरस्य अभावात् । न च तन्मा भूदिति वाच्यम् । तद्-व्यवहारविलयप्रसङ्गादिति ।

नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम् । साधकं (तु) किमित्यत आह स्वयम्भात इति । यस्तु स्वयं प्रकाशमानेऽपि साक्षिणि विप्रतिपद्यते सोऽक्षज्ञादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदिति प्रसङ्गसूचितेनानुमानेन बोधनीयः । प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति । धर्मिग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम् । अत एव मानमित्युक्तम् ।

शेषवाक्यार्थचन्द्रिका

ननु ‘यदि साक्षी’त्युत्तरभाष्यमनर्थकम् । न च साक्षिप्रमाणे विवदमानं प्रति विपक्षे बाधकोपदर्शनेन साक्षिप्रामाण्यसमर्थनार्थमेतदिति वाच्यम् । तत्समर्थनस्यापि प्रकृतोपयोगा दर्शनादित्याशङ्क्याव्यवहितेन पूर्वग्रन्थेन तस्यासङ्गतत्वेऽपि ‘तथानन्त्यमणावपी’ति विप्रकृष्टपूर्वग्रन्थोक्तस्य परमाणोः परिमाणापकर्षतारतम्यविश्रान्त्यभावस्योपपादकतया तत्सङ्गतत्वेन पूर्वग्रन्थ सङ्गतिसम्भवान्नानुपपत्तिरिति भावेन तद्ग्रन्थसङ्गततयोत्तरभाष्यं सङ्गमयितुं तदनुपपत्तिशङ्कामुत्थापयति परमाणावपीत्यादिना ॥ वक्तुमिति । ‘अतः सर्वपदार्थानामि’त्याद्युत्तरभाष्येणेति शेषः ॥ इति वदत इति । प्राग्विकल्पितेषु पक्षेषु तृतीयं पक्षं वदत इत्यर्थः । उत्तरत्र साक्षिप्रामाण्ये साधकस्यापि वक्ष्यमाणत्वात्तावदाहेत्युक्तम् । व्यवहितत्वादन्वयं दर्शयन् तृतीयपक्षनिरासस्य मूलारूढतामुपदर्शयति साक्षीत्यादिना । अक्षजादेश्चेति चशब्दानर्थक्यमाशङ्क्यानुक्तसमुच्चयार्थत्वान्न तदिति भावेन तमुपदर्शयति चशब्दादिति । उत्तरत्र परिहाराभावेन प्रश्नार्थत्वायोगादाक्षेपार्थतया किंशब्दं व्याचष्टे नेति । नन्वनुमानादिनैव कालाकाशादिसिद्धिर्भविष्यतीति कथमाक्षेप इत्यतोऽनुमानादिना तदसिद्धेः ‘सत्यत्वं गगनादेश्चे’त्यादिना पूर्वमेव समर्थितत्वान्न प्रमाणान्तरेण तत्सम्भव इत्याह तद्ग्राहकेति । भाष्ये विपर्यये बाधकाभिधानस्य स्वयम्भात इत्येतद्विशेषणनैरपेक्ष्येणैव सिद्धेस्तद्वैयर्थ्यमित्याशङ्क्य साक्षिप्रमाणे साधकोक्त्यर्थत्वान्न तदिति भावेनतत्परतया तद्योजयितुं साधकाभावशङ्कामुत्थापयति नन्विति । विपर्ययेऽनिष्टकथनमात्रस्यैव तत्साधकत्वे न क्वापि साधकं वक्तव्यं स्यादिति भावः । नन्वस्त्वक्षजादिमानत्वस्यैवं सप्रमाणकत्वसिद्धिस्तावता कथं साक्षिप्रामाण्यसिद्धिस्तस्य साक्षीतरप्रमाणवेद्यत्वस्यापि सम्भवादित्यतः परिशेषात्तत्सिद्धिरिति भावेन परिशेषमुपपादयति प्रसक्तेति । वक्ष्यमाणन्यायेनेति । ‘अनवस्थाऽन्यथा भवेदि’त्यनुपदमेव वक्ष्यमाणन्यायेनेत्यर्थः ।

**परिमल **

साक्षिणेति वक्तुमिति । ‘अतः सर्वपदार्थानामि’त्यादिग्रन्थे वक्तुमित्यर्थः । इति वदत इति । ‘यदि नो साक्षिगम्यं तदि’त्येतदवतारिकायां कृतविकल्पेषु साक्षी नाम प्रमाणमेव नास्तीत्यवशिष्टतृतीयं पक्षं वदत इत्यर्थः ॥ बाधकन्तावदिति । स्वयम्भात इति वक्ष्यमाणसाधकापेक्षया तावच्छब्दः ॥ न च तदिति । प्रामाण्यादेर्ग्रहणमित्यर्थः ॥ घटवदितीति । अनुमानेनेत्यन्वयः । सामान्यानुमानेनेत्यर्थः ॥ प्रसंगसूचितेनेति । ‘यदि साक्षी’त्यादिनोक्तेन प्रामाण्यादेर्ग्रहणव्यवहारयोर्विलोपरूपातिप्रसङ्गेन सूचितेनेत्यर्थः । नन्वनेनानुमानेन सिद्धस्य प्रामाण्यस्य प्रत्यक्षाद्यन्यतमत्वसम्भवात् साक्षिसिद्धिः कुत इत्यत आह प्रसक्तेति । यथा न्यायमते गगनादिसिद्धिः सामान्यविशेषाभ्यां, तथेति भावः ॥ वक्ष्यमाणेति । प्रामाण्यविषये प्रसक्तस्यानुमानस्यानवस्थाऽन्यथा भवेदिति वक्ष्यमाणविपक्षबाधकन्यायेनेत्यर्थः । सुखादिविषये च ‘इच्छा ज्ञानं सुखं दुःखं भयाभयकृपादयः । साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान्क्वचित् । यत्क्वचिद्य्वभिचारि स्याद्दर्शनं मानसं हि तत्’ इत्यदिना ज्ञानपादे वक्ष्यमाणसंशया(द्य)भावादिरूपन्यायेन प्रसक्तमानसप्रत्यक्षादेः प्रतिषेधश्च भविष्यतीत्यर्थः । साक्षिसिद्धावपि तन्मानत्वं केन सिध्द्येदित्यत आह धर्मीति । अक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वादिति सामान्यानुमानरूपेण परिशेषसहितेन साक्षिरूपधर्मिग्राहकेण प्रमाणेनेत्यर्थः ।

यादुपत्यं

वक्षमाणन्यायेनेति । ‘अनवस्थाऽन्यथा भवेदित्यनुपदमेव वक्ष्यमाणन्यायेनेत्यर्थः । प्रवृत्तिसामर्थ्येनानभ्यासदशायां प्रामाण्यसिद्धिस् तज्जातीयत्वेन त्वभ्यासदशायामिति ज्ञातव्यम् ।

**श्रीनिवासतीर्थीया **

प्रसङ्ग इति । यदि साक्षिनामकं मानं न स्यात्तदाऽक्षजादेर्मानत्वग्रहो न स्यादिति तर्केत्यर्थः । ननु सप्रमाणकत्वप्रवृत्तिसामर्थ्याद्यनुमानरूप प्रमाणमादायापि पर्यवस्यतीति न साक्षिरुपप्रमाणसिद्धिरित्यत आह प्रसक्तेति । अस्तु साक्षीतत्प्रामाण्यं कुतः सिद्धं येन सप्रमाणकमित्युक्ते साक्षिणमादाय पर्यवसानं स्यादित्यत आह धर्मीति । साक्षिरूपधर्मिग्राहकेण प्रमाणेन स्वैनैव सिद्धे साक्षिप्रामाण्य इत्यर्थः । तस्य स्वप्रकाशत्वादिति भावः । पृथक् साक्षिभिन्नम् । मानं स्वसिद्धमानत्वोपेतमित्यर्थः ।

**वाक्यार्थरत्नमाला **

प्राग्विकल्पितेति । यदि नो साक्षिगम्यं तदित्येतदनुव्याख्यानावतारमूले विकल्पितेत्यर्थः । तद्विकल्पेषु प्रथमस्याद्यंशं कृत इति द्वितीयं निराकरोतीति चाद्यम् । द्वितीयत्वोट्टङ्कनेन प्रतिपादनवदस्य तृतीयपक्षस्य तृतीयत्वेनाभिधानस्य मूलेऽभावादिदं व्याख्यानम् । अन्यथा साक्षिणेति वक्तुं साक्षी नामप्रमाणमित्यादिग्रन्थमर्यादया पदीत्युत्तरवाक्यस्य स्वतन्त्रप्रमेयप्रतिपादकताप्रतीतिः स्यात् । प्राग्विकल्पितेषु तृतीयपक्षश्चोर्वरित एव न तु निराकृत इति बुद्धिः स्यादिति द्रष्टव्यम् । साधकस्यापीति । स्वयंभात इत्यनेनेति शेषः ।


अनवस्थाऽन्यथा भवेत्

अनवस्थाऽन्यथा भवेत्

सुधा

न साक्षिणोऽनभ्युपगमेऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते । प्रवृत्ति सामर्थ्येन तज्जातीयत्वेन वाऽनुमानेन तत्सिद्धेरित्यत आह अनवस्थेति ।

अनुव्याख्यानम्

….. …… अनवस्थाऽन्यथा भवेत् ॥

अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे । तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न । तस्य स्वप्रकाशत्वादिति । तदिदमुक्तं स्वयम्भात इति ।

शेषवाक्यार्थचन्द्रिका

प्रवृत्तीति । प्रवृत्तिसामर्थ्येनानभ्यासदशायां प्रामाण्यसिद्धिः । अभ्यासदशायां तु तज्जातीयत्वेनेति भावेनात्रोभयोपादानमिति ध्येयम् । मूले अनवस्थेति । तस्यायं भावः । प्रवृत्तिसामर्थ्यस्याप्यगृहीतप्रामाण्यस्य प्रामाण्यानिश्चायकत्वेन गृहीतप्रामाण्यस्यैव तथात्वमङ्गीकार्यम् । तथा च तत्प्रामाण्यमप्यन्येनैव ग्राह्यम् । तत्प्रामाण्यमप्यन्येनैवेत्यनवस्थाप्रसङ्गादिति । तर्हि साक्षिणोऽपि प्रामाण्यग्राहकत्वं न स्यादिति भावेन शङ्कते तर्हीति । साक्षिणः स्वप्रकाशत्वेन स्वयमेव स्वप्रामाण्यग्राहकत्वेन ग्राहकान्तरानपेक्षणान्नानवस्थेत्याह तस्येति । वृत्तिज्ञानस्य तु जडत्वेन न स्वप्रकाशत्वं सम्भवतीति न स्वस्यैव स्वप्रमाण्यग्राहकत्वमित्यनवस्थैवेति भावः ।

**परिमल **

अपरिचित(प्र)देशाभिप्रायेणाह प्रवृत्तिसामर्थ्येनेति । फलवत्प्रवृत्तिजनकज्ञानेनेत्यर्थः । अभ्यासदशापन्नाभिप्रायेणाह तज्जातीयत्वेनेति । समर्थप्रवृत्तिजनकज्ञानजातीयत्वेनेत्यर्थः । अन्यथेत्यनुवादः । साक्षीत्यादि व्याख्या ।

**श्रीनिवासतीर्थीया **

अनभ्यासाभ्यासदशापेक्षया प्रवृत्तीत्यादि वक्ष्यमाणेत्युक्तं दर्शयितुमाह नेति ।

**वाक्यार्थरत्नमाला **

प्रवृत्तिसामर्थ्यस्यापीति । लिङ्गकरणतापक्षाश्रयणेन सामर्थ्यस्येत्युक्तम् । वस्तुतः सामर्थ्यज्ञानस्येत्यर्थः । अत एवागृहीतप्रामाण्यस्येत्यादिकं सम्बन्धं भवति । अन्यथाऽग्रहीत प्रामाण्यज्ञानस्येत्याद्यर्थाश्रयणापातात् । सामर्थ्यपदस्य ज्ञानपरतायान्तु नानेकव्याख्यानप्रसङ्ग इति ज्ञेयम् । वृत्तिज्ञानस्य तु जडत्वेनेति । एतच्च साक्षिणः स्वप्रकाशत्वमनवस्था ततो नहीति भक्तिपादेन ज्ञानदृष्टिमात्रेण प्रामाण्यमिति ज्ञानपादे चानुव्याख्यानोक्तस्वप्रकाशत्वं मूल एवोपपादयिष्यते । तट्टीकादौ च तदुपपादनं ज्ञेयम् ।