महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्
परिमाणावन्तरजातिभेदनिरासः
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्
सुधा
ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकारणभावः । द्य्वणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात्कथं तथात्वमित्यतो दृष्टान्तदार्ष्टान्तिकयोः सदृशमित्युक्तम् । यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते । तथा द्य्वणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।
शेषवाक्यार्थचन्द्रिका
ननु कार्यकारणभावापन्नपरिमाणानां सदृशमिति सादृश्यवर्णनमनर्थकमित्याशङ्क्य वैषम्येण दृष्टान्तदार्ष्टान्तिकभावानुपपत्तिशङ्कापरिहारार्थत्वान्न तदिति भावेन तच्छङ्कापरिहार कतया तद्योजयितुं वैषम्यप्रदर्शनेन दृष्टान्तदार्ष्टान्तिकभावानुपपत्तिमाशङ्कते ननु चेति । परमाणुगतेन अणुत्वेन द्य्वणुके ह्रस्वत्वस्य, द्य्वणुकगतेन ह्रस्वत्वेन त्र्यणुके महत्त्वस्योत्पत्तिः सिद्धान्त्यभिमतेति भावेनेयं शङ्का । अत एव यथेत्यादिना सिद्धान्त्याशयवर्णनमुपपन्नमिति ध्येयम् । द्य्वणुकत्र्यणुकपरिमाणयोरित्यत्र द्य्वणुकपदं परमाणोरप्युपलक्षणम् । अन्यथा परमाणुद्य्वणुकपरिमाणयोरिव द्य्वणुकत्र्यणुकपरिमाणयोरपि वैजात्येऽपि कार्यकारणभावोपपत्तेः शङ्काया निर्दलत्वप्रसङ्गात् । अत एवाशयवर्णनदशायां द्य्वणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैवेत्यादिना परमाणोरपि द्य्वणुकसमकक्षतयोपादानमिति मन्तव्यम् ।
**वाक्यार्थरत्नमाला **
सादृश्यवर्णनमिति । तस्मात्सदृशमिति ज्ञायेत सदृशमिति च सादृश्यवर्णनमित्यर्थः । परमाणुद्य्वणुकगताणुत्वाभ्यां द्य्वणुकत्र्यणुकयोरणुत्वस्यारम्भानुपपत्तिरिति चोदनमुपपन्नम् । अणुत्वस्य सजातीयतायाः परेणाप्यङ्गीकारात् । नापि परमाण्वादिगते नाणुत्वेन महत्वारम्भानुपपत्तिरिति चोदनं युक्तम् । सजातीयपरिमाणस्यैव साधयिषितत्वादित्युत्तरग्रन्थविरोधापत्तेः । तद्बलादणुत्वह्रस्वत्वयोरेव सजातीयतोक्तिप्राप्तेः ।
तत्रापि तथात्वं कुत इति चेन्न । द्य्वणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे इत्येतद्बाधशङ्कागतवाक्येन परमाणावणुत्वं प्रमाणसिद्धं द्य्वणुके च ह्रस्वत्वं प्रमाणसिद्धमित्युक्तया तयोरेव वैजात्यस्योत्तरत्र शङ्कनादित्याद्याशयेनाह । परमाणुगतेनेत्यादिना । किञ्चिदधिकं योज्यमस्ति । परमाणोरपीति । अत्रेदमवधेयम् । द्य्वणुकत्र्यणुकपरिमाणयोरिति । द्विवचनान्तपदे द्य्वणुकपदेन परमाणुलक्षणायां त्र्यणुकप्रतिसंबन्धितयोक्तं द्य्वणुकमेव परमाणुप्रतिसम्बन्धितयाऽपि लभ्यत इति परमाणुद्य्वणुकत्र्यणुक परिमाणानामिति लभ्यते । तत्राप्ययं विवेकः । परमाणुद्य्वणुकपरिमाणयोर्द्य्वणुकत्र्यणुकपरिमाणयोश्चेति । अत एवोत्तरवाक्ये परमाणुद्य्वणुकपरिमाणयोरिवेत्यादिरूपेण पृथगेव कार्यकारणाभावापन्न व्यक्तिप्रदर्शनमिति । एवमेव परमाणोरपि द्य्वणुकसमकक्षतयेत्युत्तरवाक्येऽपि विवेके तात्पर्यम् । एतेन परमाणुद्य्वणुकपरिमाणरूपैकाकोटिः । कारणभावापन्नात्र्यणुकपरिमाणरूपा च कार्यभावापन्ने उपलक्षणापक्षे प्राप्तम् । अन्यथात्र्यणुकपदस्य द्य्वणुकोपलक्षणाऽपि वक्तव्या स्यात् । उत्तरमूले त्र्यणुकादावित्यादिपदप्रयोगादिति निरस्तम् । परमाणुद्य्वणुकेत्युत्तरमूलानुगुण्यायैवात्र परमाणुद्य्वणुकपरिमाणाभ्यामिति शेषपूरणेन व्याख्यानं न कृतम् । स्पष्टं चेदमितरेतरयोगोपपादनपरोत्तरटीकायामिति बोध्यम् ।
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्
सुधा
ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्य्वणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे । तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तं महत्त्वं चेति । कल्पनैवैषा वैशेषिकाणां न तु परिमाणावान्तरजातिभेदे प्रमाणमस्ति । किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकर्षवदिति भावः । अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।
शेषवाक्यार्थचन्द्रिका
तथाऽपि ‘महत्त्वं चैव दीर्घत्वमि’त्यादिभाष्यखण्डवैयर्थ्यमेव । न च त्र्यणुकादौ महत्त्वादेः कल्पितत्वप्रतिपादनार्थं तदिति वाच्यम् । तत्प्रतिपादनस्याप्यनर्थकत्वादित्यतः सजातीयपरिमाणोत्पादनसाधने बाधकपरिहारार्थत्वान्न तदिति भावेन बाधकशङ्कापरिहारकतया तद्योजयितुं तच्छङ्कामुत्थापयति ननु चेति ॥ एकजातीयमेवेति । त्र्यणुकादौ महत्त्ववत्परमाणुद्य्वणुकयोरणुत्ववच्चेति भावः । उत्कर्षवद् द्रव्यान्तरवर्त्यपकृष्टपरिमाणापेक्षयोत्कर्षवत् । अपकर्षवद् द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाऽपकर्षवदित्यर्थः ॥ अनेनेति । सर्वद्रव्यवर्तिपरिमाणस्यैकजातीयत्व वर्णनेनेत्यर्थः ॥ असिद्धिरिति । तस्य विजातीयत्वरूपत्वादिति भावः ।
**श्रीनिवासतीर्थीया **
द्य्वणुकादावणुत्वह्रस्वत्वे इति । आदिपदेन परमाणुग्रहणम् । परमाणावपि ह्रस्वत्वस्य कैश्चिदङ्गीकारादेवमुक्तम् । अनेन कल्पितमिति वचनेन ।
**वाक्यार्थरत्नमाला **
उत्कर्षापकर्षवदिति मूलानुसारेणोत्कर्षवद् इत्यनूद्य द्रव्यान्तरेति व्याख्यानम् । तथापकर्षवदित्यनूद्य द्रव्यान्तरेत्याद्युत्तरं व्याख्यानमिति तदनुसारेणैवोत्कर्षवदिति प्रथमोऽनुवादः । अपकर्षवदिति द्वितीयस्यानुवादः । अन्यादृशो लेखकागतः ।