०७ परिमाणकारणत्ववादनिरासः

तानथोवाच विद्याधीशः स्वयं प्रभुः

परिमाणकारणत्ववादनिरासः

तानथोवाच विद्याधीशः स्वयं प्रभुः

सुधा

एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयति तानिति ।

अनुव्याख्यानम्

…..तानथोवाच विद्याधीशः स्वयं प्रभुः ॥

उवाच महद्दीर्घवद्वेत्यादीति शेषः । प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तं स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात्प्रभुरिति ।

शेषवाक्यार्थचन्द्रिका

महद्दीर्घवद्वेत्याद्यधिकरणेनैव तन्निरासेन ‘तानथोवाचे’त्याद्युत्तरभाष्यस्योपन्यस्तमतनिरासकत्वाभावात् ‘महत्त्वं चैव दीर्घत्वमि’त्यादिनैव सूत्रार्थकथनेनास्य सूत्रव्याख्यानरूपत्वाभावाच्च वैयर्थ्यमित्याशङ्क्यार्थकथनादिरूपेण व्याख्यानस्यानेकप्रकारत्वादस्य चार्थकथनरूपत्वाभावेऽपि परमतनिरासार्थं प्रवृत्तैतदधिकरणावतरणरूपतया तद्रूपव्याख्यानत्वसम्भवान्न वैयर्थ्यमित्याशयेन तत्परतयोत्तरभाष्यं योजयति एवमिति । तानथोवाचेत्यत्रेदमुवाचेत्यनुक्त्या किमुवाचेत्याकाङ्क्षाया अनुपरमान्महत्त्वं चेत्यादियोजनायां चास्य भाष्यकृद्वाक्यत्वेन सूत्रकारवाक्यत्वाभावेना सदनुवादत्वप्रसङ्गात्साकाङ्क्षतया वाक्याभासत्वशङ्कामपाकर्तुमपेक्षितं पूरयति महद्दीर्घवद्वेत्यादीति शेष इति । ननु ‘तानथोवाच सूत्रकृदि’त्येतावतैव सूत्रस्यावतरणसिद्धे ‘र्विद्याधीश’ इत्यादिभाष्यांशवैयर्थ्यमित्याशङ्क्य निरासकत्वोपयोगिसामर्थ्योपपादनार्थत्वान्न तदिति भावेन तदुपपादकतया तद्योजयितुं निरासकत्वानुपपत्तिशङ्कामुत्थापयति प्रबलेति ॥ साक्षादिति । परोपदेशमनपेक्ष्येत्यर्थः ।

**श्रीनिवासतीर्थीया **

सामर्थ्यमिति । प्रभुशब्दोक्तमित्यर्थः ।

**वाक्यार्थरत्नमाला **

तन्निरासेनेति । तन्निरासस्य क्रियमाणतयेत्यर्थः । अधिकरणस्यैवोपन्यस्तमतनिरासकत्वेऽपीति यावत् । अत एवोत्तरभाष्यस्येत्यादिनैवकारव्यावृत्यर्थकथनं सुलभोपपादनमिति ज्ञेयम् । महत्त्वं चेत्यादियोजनायामिति । आकांक्षोपरमार्थं महत्वं चैव दीर्घत्वमित्यादिकमुवाचेति योजनायामित्यर्थः ।


महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्

महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम्

सुधा

न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम् । तस्योपपत्तिविरुद्धत्वात् । तथा हि । यत्तावदुक्तं द्य्वणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्यासमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन् ‘महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यामि’ति सूत्रं व्याचष्टे महत्त्वं चेति ।

अनुव्याख्यानम्

महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ॥

तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥

यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि ॥

जायेत सदृशं कार्ये परिमाणं समत्वतः ॥

एवशब्दस्य त्र्यणुकाद्येष्वेवेति कल्पितमेवेति वा सम्बन्धः । त्र्यणुकाद्येषु द्रव्येषु । तस्मात् त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् । चशब्दो वाक्यार्थसमुच्चये । कार्यं परिमाणम् । तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु । तथैवेत्येवशब्देन दृष्टान्तदार्ष्टान्तिकवैषम्यशङ्कामपाकरोति । कार्ये त्र्यणुके द्य्वणुके च समत्वता कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् । हिशब्दो व्याप्तिद्योतकः ।

शेषवाक्यार्थचन्द्रिका

ननु वैशेषिकमतनिरासार्थमेतदधिकरणमित्ययुक्तम् । तन्निरासस्य निष्प्रयोजनत्वेनास्य तादर्थ्यायोगात् । न च तदसामञ्जस्य ज्ञापनमेव तन्निरासप्रयोजनमिति वाच्यम् । तज्ज्ञापनस्यापि प्रयोजनाभावात् । भावेऽपि सूत्रेष्वसामञ्जस्ये हेतोरनुक्तत्वेन सूत्राणां तन्निरासकत्वासम्भवात् । ततश्चाधिकरणस्य तदर्थत्वायोगात्तद्-व्याख्यानपरोत्तरभाष्यानर्थक्यमित्यतः ‘अतश्चायमविरुद्धः समन्वयः’ इति वैशेषिकादिसमयस्यानुपादेयत्वे फलोपदर्शनपरोत्तरग्रन्थानुरोधेनासामञ्जस्योपपादनफलं तदुपपादकं हेतुं चोपर्येव दर्शयंस्तत्सिद्धेश्च विषयविशेषे उपपत्तिविरोधप्रतिपादनपरसूत्रसाध्यत्वेन सूत्राणामुपपत्तिविरुद्धत्वरूपहेतुसमर्थनार्थत्वात् समयनिरासार्थत्वसिद्धेर्न तद्-व्याख्यानपरोत्तरभाष्यानर्थक्य मित्यभिप्रेत्य कथमेतेषां सूत्राणां विषयविशेषे उपपत्तिविरोधोपदर्शकत्वमित्यतोऽस्य सूत्रस्य तावद्दर्शयन्नेव तद्-व्याख्यानपरतया महत्त्वं चेत्युत्तरभाष्यं सङ्गमयति न वैशेषिकादिमतविरोधेनेति । महत्त्वं चैवेत्येवकारस्य वैयर्थ्यविरुद्धार्थत्वाभ्यां यथावस्थितान्वयायोगाद्भिन्नक्रमतया तत्सम्बन्धमाह एवशब्दस्येति । अतिप्रसङ्गनिरासाय त्र्यणुकाद्येष्वित्याऽऽद्यशब्दसंङ्ग्राह्यतावच्छेदकं धर्ममाह द्रव्येष्विति । आकाशादिकार्यस्य द्रव्यस्यैवाप्रसिद्ध्या तद्गतमहत्त्वदीर्घत्वयोराकाशादिकार्ये स्वसदृशपरिमाणानारम्भकत्वेन तस्मादित्यनेन त्र्यणुकादिरूपकार्याकार्यद्रव्यमात्रगतपूर्ववाक्यप्रकृतमहत्त्वदीर्घत्वपरामर्शा योगात्, घटपटादिरूपान्त्यावयविनिष्ठमहत्त्वदीर्घत्वयोरपि तत्कार्ये स्वसदृशपरिमाणानारम्भकत्वेन त्र्यणुकादिकार्यद्रव्यमात्रमहत्त्वदीर्घत्वयोरपि परामर्शायोगाद्योग्यतया आनन्त्यावयविकार्यद्रव्यमात्रनिष्ठमहत्त्वादेरेवायं परामर्श इति भावेन त्र्यणुकादौ कार्येऽन्त्यावयविव्यतिरिक्ते वर्तमानादित्युक्तम् ॥ वाक्यार्थसमुच्चय इति पूर्वार्धरूपवाक्यार्थेन सहैतद्वाक्यार्थस्य समुच्चय इत्यर्थः । वक्ष्यमाणरीत्या पूर्ववाक्योक्तबाधकपरिहारसमुच्चितस्यैवैतद्वाक्योक्तानुमानस्य विवक्षितार्थसाधकत्वादिति भावः । यद्वा तस्मादित्यस्योभयपरामर्शकत्वेन न केवलं ‘महत्त्वात्सदृशं कार्यं तत्कार्येषूपजायते किन्तु दीर्घत्वाच्च सदृशं कार्यं तत्कार्येषूपजायत’ इति वाक्यार्थसमुच्चय इत्यर्थः ॥ त्र्यणुकादिकार्येषु चतुरणुकादिष्विति । इदं च चतुर्भिद्य्वणुकैरारब्धं चतुरणुकमिति मतमनाश्रित्य चतुर्भिस्त्र्यणुकैरारब्धं चतुरणुकमित्येव च मतमाश्रित्योक्तमिति ध्येयम् । ‘ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि’ इति ‘ह्रस्वपरिमण्डलाभ्यामि’ति सौत्रक्रमानुसाय्रनुसारिपूर्वभाष्यक्रमानुरोधेन कार्य इत्येतत्त्र्यणुकादित्वेन व्याख्याति त्र्यणुके द्य्वणुके चेति । भाष्ये समत्वत इत्यस्य सूत्राव्याख्यानरूपत्वाद्वैयर्थ्यमाशङ्क्य सूत्रेऽपेक्षितहेतुसूचनार्थत्वान्न तदिति भावेन तत्सूचितहेतुप्रदर्शनपूर्वकं हेतुकथनपरतया तद्योजयति समत्वत इत्यादिना ॥ व्याप्तिद्योतक इति । तथा चापेक्षितानुमानाङ्गव्याप्तिद्योतनार्थत्वान्न भाष्ये हिशब्दो व्यर्थ इति भावः ।

**परिमल **

मूलं सङ्गमयितुमाह न वैशेषिकादीति । त्र्यणुकाद्येष्वित्यत्र गुणाद्यग्रहणाय विशेष्यमाह त्र्यणुकाद्येषु द्रव्येष्विति । तस्मादित्यनुवादः । दीर्घत्वादित्यन्तं व्याख्या ॥ चशब्द इति । तस्माच्चेति चशब्दो यथाश्रुत एव सन् पूर्वोत्तरार्धरूपवाक्यद्वयोक्तार्थद्वयसमुच्चय इत्यर्थः । यद्वा जायत इत्यनन्तरम् इति च कल्पितं यथेति पूर्वार्धोक्तेनोत्तरार्धोक्तार्थ समुच्चय इत्यर्थः । महत्वान्महत्वं दीर्घत्वाच्च दीर्घत्वं यथा जायत इति वाक्यद्वयार्थसमुच्चय इत्येके । कार्यमित्यस्य विशेष्यमाह कार्यं परिमाणमिति । कार्ये इत्यनुवादः । त्र्यणुके द्य्वणुके चेति व्याख्या ॥ व्याप्तिद्योतक इति । वक्ष्यमाणप्रयोगेष्विति भावः ।

यादुपत्यं

वाक्यार्थसमुच्चय इति । पूर्वार्धरूपवाक्यार्थेन सहैतद्वाक्यार्थस्य समुच्चय इत्यर्थः । वक्ष्यमाणरीत्या पूर्ववाक्योक्तबाधपरिहारसमुच्चितस्यैवैतद्वाक्योक्तानुमानस्य विवक्षितसाधकत्वादिति भावः । यद्वा तस्मादित्यस्योभयपरामर्शकत्वेन महत्त्वात्सदृशं कार्यमित्याद्येकं वाक्यम् । दीर्घत्वात्सदृशं कार्यमित्याद्यपरम्, एवं च न केवलं महत्त्वात्सदृशं कार्यं तत्कार्येषु जायते किन्तु दीर्घत्वाच्च सदृशं कार्यं तत्कार्येषु जायत इति वाक्यार्थसमुच्चय इत्यर्थः ।

**वाक्यार्थरत्नमाला **

ननु वैशेषिकमतेति । वैशेषिकादिकमतेत्यर्थः । वैशेषिकादीनामित्याद्यधिकरणोपक्रमेऽपि न वैशेषिकादीत्युत्तरमूले चोक्तावपि विशेषस्तत्रकल्पित इत्येतद्भाष्यमूले वैशेषिकैरिति पूरणान्तदनुसारेणैकदेशानुवाद इति ज्ञेयम् । सूत्रेष्वसामंजस्येति सूत्राणामुपपत्तीत्याद्युक्तयोपपत्तिविरुद्धत्वादिति मूलमुपपत्तिभिर्महद्वेत्यादि सूत्रोक्ताभिर्विरुद्धत्वादिति व्याख्यातं भवति । उत्तरत्र ग्रन्थानुरोधेनेति । उत्तरानव्याख्यानानुरोधेनेत्यर्थः । उपपादनफलमिति । उक्तार्थस्यान्यथात्वं न शङ्कनीयमित्यनेन तत्प्रदर्शनम् । तस्योपपत्तिविरुद्धत्वादित्यनेन च तदुपपादकप्रदर्शनमूलेऽस्तीति ज्ञेयम् । तद्गतेति । आकाशादिगतेत्यर्थः । अकार्यमाकाशादि । अनारम्भकत्वेनेत्यस्य परामर्शाऽयोगादित्युत्तरेणान्वयः । त्र्यणुकादिकार्येति । त्र्यणुकादि यत्कार्यमिति योज्यम् । एतद्वाक्यार्थस्येति । तस्माच्चेत्याद्यर्थत्रयेणोक्तानुमानरूपस्येत्यर्थः । वक्ष्यमाणरीत्येति । सदशमिति दृष्टान्तदार्ष्टान्तिकयोरुक्तिं मूलीकृत्य द्य्वणुकादिपरिमाणं त्र्यणुकादिगतसजातीयपरिमाणारम्भकमिति प्रयोगे विवक्षिते सति द्य्वणुकपरमाण्वोर् ह्रस्वत्वाणुत्वयोस् त्र्यणुकादौ च महत्वदीर्घत्वयोः प्रमाणसिद्धत्वाद्बाध इति प्राप्तबाधस्य यः परिहारः कल्पनैवैषा न तु हृस्वत्वादिकमस्ति । परिमाणावान्तरजातेरपाकरणादित्येवंरूपेण महत्वं चैव दीर्घत्वमित्येतत्पूर्वार्धोपयोगकथनावसरे वक्ष्यमाणपरिहारसमुच्चितस्यैवोक्तं सार्धश्लोकानुमानस्येत्यर्थः । चतुरणुकस्यापि द्य्वणुककार्यत्वात् । त्र्यणुककार्यत्वोक्तिरयुक्तेत्यत आह । इदं चेति । त्र्यणुकादित्वेनेति । अन्यथा द्य्वणुकस्यैव प्राथमिकत्वात्प्रथमं ग्रहणं स्यादिति भावः ।