कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम्
असमवायिकारणस्वरूपनिरूपणम्
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम्
सुधा
एवं कार्याकार्यविभागमुक्त्वा यस्य यदसमवायिकारणं तदाह कार्य इति ।
अनुव्याख्यानम्
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥
कार्यकारणग्रहणमुपलक्षणम् । ततश्च कार्येऽकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारण समवायिकारणस्थाः समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च समवाय्यन्यकारणम् असमवायिकारणम् । कर्मणश्च असमवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।
आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति । द्वितीयस्य द्रव्यकारणं त्वित्यन्वयः । यद्वा द्वावप्यनुक्तसमुच्चयार्थौ । तच्चोक्तम् । तथा हि । कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्वोत्तर संयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयोऽसमवायिकारणम् । पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रवत्वस्य तद्गत एव तेजः संयोगः । सर्वत्रानेकत्वानेकपृथक्त्वयोराश्रयगतैकत्वैकपृथक्त्वानि । संयोगविभागवेगानामाश्रयगतं कर्म । परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ । आत्मविशेषगुणानामात्मगतो मनःसंयोगः । शब्दस्याकाशगताः संयोगविभागशब्दाः । कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति । द्रव्यस्य तु समवायिकाणानामवयवानां संयोगोऽसमवायिकारणमिति ।
शेषवाक्यार्थचन्द्रिका
यस्येति । गुणक्रियाद्रव्यरूपस्येत्यर्थः । नन्वत्र कार्यगतगुणानां (कर्मणां) कारणस्था गुणा असमवायिकारणमित्युक्त्या कार्यगतस्य गुणादेः कार्यकारणस्था गुणा असमवायिकारणमित्यर्थो लभ्यते । कार्यपदसमभिव्याहारेण सामान्यपरस्यापि कारणपदस्य कार्यसमवायिकारणपरतया कारणस्था इत्यनेन कार्यसमवायिकारणस्थत्वलाभात् । तथा चाकार्यगतगुणानाम समवायिकारणानुक्तिप्रसङ्ग इत्यतो भवेदेतदेवं यद्यत्र कार्यकारणपदे कार्यकारणमात्रपरे स्याताम् । न चैतदस्ति । किन्नाम कार्यपदमत्र कार्यस्येवाकार्यस्याप्युपलक्षणया ग्राहकम् । कारणपदं च कारणस्येवाश्रयस्याप्युपलक्षणया ग्राहकम् । ततश्च कार्यगतगुणादीनां कार्यकारणस्था गुणा अकार्यगतगुणादीनां च तदाश्रयगुणा असमवायिकारणमित्यर्थपर्यवसानान्नानुक्तिदोष इत्याशयवानाह कार्यकारण ग्रहणमिति । समवायिकारणसमवायिकारणस्था इति तु पर्यवसन्नार्थाभिपप्रायेणोक्तम् । कार्यपदसमभि व्याहारेणैवोक्तार्थपर्यवसानात् । शब्दार्थानुसारेण; कारणस्थशब्दस्य समवायिकारणस्थमात्रार्थकत्वेन तदयोगदिति ध्येयम् ॥ तथा समवायिकारणस्था इति । आश्रयगता इत्यर्थः ॥ यद्यप्यत्राश्रयगता इत्येव वक्तुमुचितम् । तथाऽपि स्वगतगुणादिकं प्रति स्वस्य समवायिकारणत्वाभिप्रायेण समवायिकारणस्था इत्युक्तमिति ध्येयम् ॥ कर्मणश्चेति ।
कार्येऽकार्ये च जायमानस्येत्यनुवर्तते । कर्मणश्च समवायिकारणस्था गुणा एवासमवायिकारणमित्ययमेव वैशेषिकाणां मुख्यः सिद्धान्तः । कार्यगतकर्मणां तु कारणगतगुणकर्मणी कारणैकार्थप्रत्यासत्त्यादिना असमवायिकारणमिति, तत्त्वप्रकाशिकायां तु वैशेषिकैकदेशिमतोपन्यासान्नास्य तेन विरोध इत्यवधेयम् । कार्यगतकर्मणां कारणगतगुणकर्मणी कारणैकार्थप्रत्यसत्त्यादिनेत्यत्रातद्गुण संविज्ञानबहुव्रीहिणा कार्यैकार्थप्रत्यासत्तेरेव, कारणपदेन च कर्मसमवायिकारणस्यैव तत्र ग्रहणादयमेव तत्त्वप्रकाशिकार्थ इत्यप्याहुः । आद्यत्वेन कर्मविशेषणादाद्यकर्मासमवायिकारणत्वं गुणानामेवेत्येतद्ग्रन्थाभिप्रायः । आद्यद्वितीयादिकर्मसाधारण्येन तद्गुणकर्मणोः कर्मासमवायिकारणत्वमिति टीकाऽभिप्राय इत्यविरोध इत्यप्याहुः । कर्मसमवायिकारणगतगुणकर्मणीति वाऽर्थः । तथा च कर्मण आश्रयगता गुणा गुरुत्वद्रवत्ववेगसंयोगाः कर्म च कार्यैकार्थप्रत्यासत्त्याऽसमवायिकारणम् । द्वितीयादिपतनस्पन्दनादिकं तृतीयादिपतनस्पन्दनादिकं प्रत्यसमवायिकारणमिति मतावष्टम्भेन तत्र कर्मग्रहणं कृतम् । वैशेषिकमतेऽपि तृतीयादिपतनस्पन्दनादिकं प्रति वेगस्यैवासमवायिकारणत्वं न द्वितीयादिपतनादेरित्यभिप्रेत्यात्र कर्मग्रहणं न कृतम् । अत एवात्र कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा एवासमवायि कारणमित्यग्रे वक्ष्यतीति ध्येयम् ।
कार्यकारणग्रहणस्य तन्मात्रपरत्वमङ्गीकृत्य पक्षान्तरमाह यद्वेति । ‘कार्ये गुणक्रियाणां त्वि’ति आद्यतुशब्देनाकार्यगतगुणादिरूपानुक्तसमुच्चयात् ‘कारणस्था गुणाद्यास्त्वि’ति द्वितीयतुशब्देन चाश्रयगतगुणादिरूपानुक्तसमुच्चयात्कार्यगतगुणादीनां कारणकारणस्था गुणाद्या अकार्यस्थगुणादेराश्रयस्था गुणा असमवायिकारणमित्यर्थलाभान्नोक्तदोष इति भावः । किं तदनुक्तं यत्समुच्चायकत्वं तुशब्दद्वयस्येत्यतः कार्येऽकार्ये चेत्यादिना तदुक्तमेवेत्याह तच्चोक्तमिति ॥ उत्तरसंयोगेति । उत्तरत्वं संयोगविभागयोर्विशेषणम् । संयोगविभागवेगानामाश्रयगतं कर्मासमवायिकारणमिति वक्ष्यमाणत्वेन कर्मणोऽप्यसमवायिकारणत्वान्न कारणगतसंयोगादेः कार्यगतसंयोगादिकं प्रत्यसमवायिकारणतयोक्तिर्युक्तेत्यतः कर्मण आद्यसंयोगाद्यसमवायिकारणत्वेऽपि संयोगादिजन्यसंयोगादौ कारणगतसंयोगादेरेवासमवायिकारणत्वमिति भावेनोत्तरत्वेन संयोगादिविशेषणं कृतमित्यवधेयम् ॥ कारणगता रूपादय इति । अत्र रूपादीनां कारणगतत्ववचनं कारणैकार्थप्रत्यासत्त्या समवायिकारणप्रत्यासन्नत्वसूचनार्थमिति बोध्यम् ॥ तद्गत एवेति । पार्थिवतैजसपरमाणुगत इत्यर्थः । असमवायिकारणमित्यनुवर्तते । तेजस्संयोगस्य तद्गतत्ववचनं च कार्यैकार्थप्रत्यासत्त्या समवायिकारणप्रत्यासन्नत्वसूचनार्थम् । एवमुत्तरत्राप्याश्रयगतत्ववचनस्य प्रयोजनमवधेयम् ॥ सर्वत्रेति । कार्येऽकार्ये चेत्यर्थः । अत्र सर्वत्राप्यसमवायिकारणमित्यनुवर्तते ॥ संयोगविभागेति । आद्यत्वेन संयोगविभागविशेषणमत्र द्रष्टव्यम् । वेगपदं चोत्तरवेगपरम् । सर्वत्रेति चानुवर्तते । एवं परत्वापरत्वयोरित्यत्रापि ज्ञेयम् ॥ आत्मेति । क्षेत्रज्ञात्मेत्यर्थः ॥ कर्मणश्चेति । अत्रापि सर्वत्रेत्यनुवर्तते । इतिशब्दस्तु विविच्य गुणसमवायिकारणप्रदर्शनसमाप्त्यर्थः । संयोगो द्रव्यकारणमित्यनेन तुरीतन्तुसंयोगसाधारण्येन सयोगस्य द्रव्यासमवायिकारणत्वमुच्यत इति भ्रान्तिं वारयितुं व्याचष्टे द्रव्यस्य त्विति । समवाय्यन्यकारणमिति पूर्वग्रन्थानुरोधात् । अत्र कारणपदमसमवायिकारणपरमिति भावेनाह असमवायिकारणमिति ।
**परिमल **
एवं कार्याकार्ये इति । नित्यानित्यत्वविभागोक्त्याऽर्थाल्लब्धस्यायमनुवादः । तुशब्दान्तत्रिपादीं योजयति ततश्च कार्येऽकार्ये चेत्यादिना । आद्यतुशब्दार्थः समवायिकारणस्थं कर्म चेति । एतत्सर्वमनुपदमेव तथाहीत्यादिना विवरिष्यते । कर्मणश्चेति । कार्येऽकार्ये च जायमानस्येत्येवमनुषङ्गः । समवायिकारणस्था गुणा एवेत्येवकारेण समवायिकारणसमवायिकारणस्थगुणव्यावृत्तिर् न तु कर्मणः । कार्यगतकर्मणः कारणगतगुणकर्मणी असमवायिकारणमिति भाष्यटीकायामुक्तेः । यद्वा मतान्तरमुपेत्य टीकासुधयोर्भेदेनोक्तिरिति ज्ञेयम् । किं तदनुक्तं प्रमेयं यत्, तुशब्दद्वयेन समुच्चेयमित्यत आह तच्चेति । अनुक्तं प्रमेयं च कार्येऽकार्ये वेति समवायिकारणसमवायिकारणस्था इति पूर्वयोजनायामेवोक्तमित्यर्थः । अस्मिन्पक्षे कार्यग्रहणं नोपलक्षणम् । कारणपदं च न कारणकारणपरमित्यर्थः । कार्ये अकार्ये चेत्यादिनोक्तं विवृणोति तथा हीत्यादिना ॥ कारणगता इति । कार्यं प्रति यत्कारणं तद्गता इत्यर्थः । स्वकारणकारणगतेति यावत् । समवायिकारणस्थाश्चेत्युक्तं विवृणोति पार्थिवपरमाण्विति ॥ तेजस्संयोग इति । सौरालोकसंयोग इत्यर्थः । समवायिकारणस्थं कर्म चेत्युक्तं विवृणोति संयोगविभागवेगानामिति ॥ परत्वापरत्वयोरिति । दिक्कृतयोः कालकृतयोश्चेति योज्यम् ॥ आत्मविशेषेति । ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां गुणानामित्यर्थः । कर्मणश्च समवायिकारणस्था गुणा एवेत्युक्तं विवृणोति कर्मणश्चेति । चतुर्थपादार्थमाह द्रव्यस्य त्विति ।
यादुपत्यं
कर्मणश्चेति । यत्तु तत्त्वप्रकाशिकायां ‘कार्यगतकर्मणः कारणगतगुणकर्मणी असमवायिकारणमि’त्युक्तं तत्तु वैशेषिकैकदेशिमतमवलम्ब्यैवेति भावबोधे स्पष्टम् । अतो न विरोध इति ज्ञातव्यम् ॥ तच्चोक्तमिति । तच्च अनुक्तं च । उक्तं पूर्वयोजनायामुपलक्ष्यतयोक्तं यत्तदेवेत्यर्थः । तथा चाद्यस्य तुशब्दस्याकार्य इत्यर्थः । द्वितीयस्य यथास्थितान्वयस्य कारणकारणस्था इत्यर्थ इति भावः । एवं चात्र कार्यकारणशब्दयोर्नोपलक्षकत्वमिति द्रष्टव्यम् ॥ कारणगता इति । समवायिकारणसमवायिकारणगता इत्यर्थः ।
**वाक्यार्थरत्नमाला **
कार्यपदसमभिव्याहारेणेति । कार्यकारणादिशब्दानां सम्बन्धिशब्दत्वेन सम्बन्धि शब्दमहिम्ना तथा लाभादिति भावः । मुख्यः सिद्धान्त इति । कर्म कर्मसाधनं न विद्यत इति सूत्रे कर्मणां कर्मकारणत्वाभावप्रतिपादनादिति भावः । कार्यगतकर्मणामिति । अत्र कार्यगतकर्मण इति तत्वप्रकाशिकापाठानुसारेण पाठः । बहुवचनं लेखकहस्तात् । ननु समवायिकारणस्थगुणानामेव कर्मासमवायिकारणत्वमित्युक्तनियमोऽनुपपन्नः । यथाकार्यगतगुणानां समवायिकारणसमवायिकारणस्थाः समवायिकारणस्थाश्च गुणास्तादृशं कर्मच समवायिकारणमेवं कर्मणोऽपि समवायिकारणसमवायिकारणस्थगुणानां समवायिकारणस्थकर्मणश्चासमवायिकारणत्वस्य तत्वप्रकाशिकायामुक्तेस्तदनुसारेण वाच्यत्वादन्यथा ग्रन्थयोः । परस्परविरोधप्रसङ्ग इत्यतः कार्यगत गुणेषु कारणगतगुणकर्मणोरुक्तरीत्याकारणत्वेपि कार्यगतं कर्मप्रतिकर्माश्रयगतानां गुणानामेवासमवायिकारणत्वमिति समवायिकारणसमवायिकारणस्थगुणानां समवायिकारणस्थ कर्मणश्चासमवायिकारणत्वेनानभिधानं युक्तम् । आश्रयगतगुणानं गुणकर्मणोः कारणत्वं तु कारणपदस्यार्थान्तराश्रयणे । तत्वप्रकाशिकायां तु त्रितयकारणत्वं गुणेष्विव कर्मस्वपीति एकदेशिमतोपन्यासान्न दोष इत्याशयेन विरोधं परिहरति । कर्मणश्चेति । समवायिकारणं पदमाश्रयपरमिति तु प्रागेवोक्तम् । अत एव अग्रे कर्मणां चेत्यादिना आश्रयगतानामेव गुणानामेव चासमवायिकारणत्वं मूलकारो वक्ष्यतीति भावः । कारणगतगुणकर्मणी इत्यत्र हि कारणपदस्य कार्यपदसमभिव्याहारेण कार्यकारणगतानामेव प्राप्तिरित्येकं विरोधबीजं गुणानामिव कर्मणोप्य समवायिकारणत्वलाभ इत्यपरम् । तत्र कर्माश्रयगतानामेव गुणानामसमवायिकारणत्वमित्येकदेशविरोधाद्यं विरोधबीजं कैश्चित्परिहृतं तन्मतमनुवादयति । कार्यगत कर्मणामिति ।
ननु कारणैकार्थप्रत्यासत्यादिनेति कारणैकार्थप्रत्यासत्तेरपि ग्रहणात् । कारणपदेन तदाश्रयग्रहणेऽपि अनुपपत्तिरेवेत्यतो भवेदेवं यद्यत्र तद्गुणसंविज्ञानबहुव्रीहिराश्रयेत । न चैवम् अपि तु अतद्गुणसंविज्ञानबहुव्रीहिरेवाश्रयीत इति नानुपपत्तिरित्याशयेनोक्तमतद्गुणेति । गुणानामेवा समवायिकारणत्वमित्येकदेशाविरोधाय द्वितीयं कर्मणोऽप्यसमवायिकारणत्वप्राप्तिरूपं विरोधबीजं कैश्चित्परिहृतं तन्मतमप्यनुवादयति । आद्यत्वेनेति । एवं च कर्मणोऽसमवायिकारणत्वतदभावत्वयोरुभयोरपि सत्वात्तदुभयाभिप्रायेण क्रमेण ग्रन्थप्रवृत्तिरित्यविरोध इत्याशयः । कारणपदस्य कार्यकारणपरत्वङ्गीकारेण एकदेशिमतानुसारेण समवायिकारणसमवायिकारणस्थगुणानां कर्मश्चाश्रयगतस्यासमवायिकारणत्वमुक्त मित्यङ्गीकारे भूयानपरितोषो भवतीत्यतस् तृतीयादिपतनादिकं प्रति कर्म एवासमवायिकारणत्वाद् गुणानामेवेति मुख्यमतानुपपत्तिशङ्कां परिहरन् विरोधद्वयपरिहारकमतद्वयैकदेशानुसारेण ग्रन्थद्वयस्य स्पष्टं विषयभेदोपदर्शनेन विरोधं परिहरति । कर्मसमवायिकारणेति । अत्र कर्मणी इतीति पाठः । तत्र तत्वप्रकाशिकायाम् । संयोग एवासमवायिकारणमितीति । यद्यप्येवेति तत्र नोक्तं तथापि अत्रत्यगुणा एवेत्यवधारणानुसारेण तत्र सावधारणत्वं ग्रन्थकृदभिमतमिति ज्ञापनायावधारणमिति ज्ञेयम् । भावबोधानुसारी अयं तृतीयः पक्षः । आद्यः श्रीनिवासचार्यटिप्पणानुसारी । द्वितीय औत्प्रेक्षिक इति ध्येयम् । आश्रयस्थागुण इति । तच्च मुख्यमतस्यैव मूलेऽभिहितत्वात्तदनुसारेण कारणगतसंयोगादेरित्यादिपदेन विभागपरिग्रहः । एवमुत्तरत्रापि । ननु तथापि वेगविषये अनुपपत्तिस्स्यादेवेति चेन्न । आद्यत्वेन वेगविशेषणं कार्यमित्याशयात् । यद्वक्ष्यति । कर्मस्थले वेगपदं चोत्तरवेगपरमितीति द्रष्टव्यम् ।
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः
सुधा
उक्तस्य क्वचिदपवादमाह एवमिति ।
अनुव्याख्यानम्
एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ॥
कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थितेऽपि, तत्र परिमाणविशेषे विशेषोऽन्यथाभावः कल्पितो वैशेषिकैः ।
कथमित्यत आह द्य्वणुक इति ।
अनुव्याख्यानम्
द्य्वणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥
न कारणं कार्यगुणे …… …….
चतुर्विधं परिमाणम् । अणुत्वं महत्त्वं ह्रस्वत्वं दीर्घत्वं च । तत्राणुत्वं द्विविधं, नित्यमनित्यं च । नित्यं चतुर्विधपरमाणौ मनसि च । पारिमाण्डल्यमिति चोच्यते । अनित्यं द्य्वणुक एव । महत्त्वमपि द्विविधं नित्यानित्यभेदात् । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् । अनित्यं त्र्यणुकादौ कार्यद्रव्ये । ह्रस्वत्वं द्य्वणुक एव । दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव । केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति । तत्र द्य्वणुके वर्तमानं ह्रस्वत्वम् । उपलक्षणमेतत् । अणुत्वं च कार्यगुणे द्य्वणुककार्यत्र्यणुकपरिमाणे । विषयसप्तमीयम् । त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति । तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्य्वणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति । त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।
शेषवाक्यार्थचन्द्रिका
पूर्वोत्तरग्रन्थयोर्विरोधमाशङ्क्य परिहरति उक्तस्येति । ‘कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्या’ इत्युक्तस्येत्यर्थः । क्वचित् परिमाणे । तथाऽप्यपवादस्यानेनैवोक्तत्वाद्द्य्वणुक इत्याद्युत्तरग्रन्थानर्थक्यमेवेत्यतस्तत्कथम्भावशङ्कानिरासाय तत्प्रकारप्रदर्शनार्थत्वान्न तदितिभावेन तदुपदर्शनपरतयोत्तरग्रन्थं योजयितुं तत्कथं भावशङ्का मुत्थापयति कथमितीति । परिमाणस्यैकरसत्वे वक्ष्यमाणस्य वैरूप्यलक्षणस्य हेतोरसिद्धिप्रसङ्गात् ह्रस्वत्वं परिमण्डलमिति विचित्रव्यवहारानुपपत्तिप्रसङ्गाच्च तथानिर्देशेन सूचिततद्विभागकथनपूर्वकं तद्-व्यवस्थिततां चोपदर्शयति चतुर्विधमित्यादिना । दीर्घत्वं चेत्यतः परमितिशब्दोऽन्याहार्यः । अन्यथा प्रत्येकं चातुर्विध्यप्रतीतिप्रसङ्गादिति द्रष्टव्यम् । परमाणुगताणुत्वस्य द्य्वणुकगताणुत्वं प्रत्यकारणत्वसाधकवैरूप्यहेतोः सिद्ध्यर्थमणुत्वविभागमाह तत्राणुत्वमिति । त्र्यणुकादावाकाशादौ च महत्त्वलाभाय तद्विभागमाह महत्त्वमपीति । त्र्यणुकादावित्यादिपदसङ्ग्राह्यतावच्छेदकं धर्ममाह कार्यद्रव्य इति । एवं परिमाणानां व्यवस्थिततामभिधाय द्य्वणुके परमाणौ चेति मूलानुरोधेन प्रथमतो द्य्वणुकपरिमाणस्य कार्यपरिमाणं प्रत्यकारणत्वोपपादकतया तावत्कारिकाखण्डं योजयति तत्रेति । मूलग्रन्थाद्द्य्वणुकगतह्रस्वत्वस्य द्य्वणुककार्यत्र्यणुकपरिमाणेऽकारणत्वप्राप्तावपि द्य्वणुकगताणुत्वस्य तत्राकारणत्वालाभात्तल्लाभायाह उपलक्षणमिति । त्र्यणुकपरिमाणस्याकारणत्वं प्रत्यधिकरणत्वाभावात्सप्तम्यनुपपत्तिमाङ्क्याह विषयेति । उक्तापवादस्य परिमाणे क्वाचित्कतस्फोरयितुं कारणपरिमाणस्य कार्यपरिमाणकारणतामप्युपदर्शयति त्र्यणुकादिगतं त्विति ।
**परिमल **
तत्रेत्यनूद्य व्याचष्टे परिमाणविशेषे इति । मूलं योजयति तत्रेत्यादिना । चतुर्विधपरिमाणमध्य इत्यर्थः । ‘महत्वं चैव’ इत्याद्यग्रेतनमूलोपयोगाय मूलाभिप्रेतं स्वयमाह त्र्यणुकादि गन्तन्त्विति ।
**वाक्यार्थरत्नमाला **
एकरसत्व इति । एकरूप इत्यर्थः । परममहत्वमिति मूले इति चोच्यत इति पूर्ववाक्यादनुवर्तत इति स्पष्टत्वान्न तथा व्याख्यानम् । परमाणुपरिमाणस्य स्वकार्यपरिमाणं प्रत्यकारणतोपदर्शनात्मागेतदभिधाने निमित्ताभाव इत्याशङ्कानिरासायोक्तं द्य्वणुके परिमाणौ चेति । मूलानुरोधेनेति । स्वकार्येत्यत्र स्वशब्दो द्य्वणुकपरः । वक्ष्यति च द्य्वणुककार्येति । परमाणुपरिमाणस्यापि तदकारणतोपपादकतयापि कारिकाखण्डस्योत्तरत्र योजना तावदित्युक्तम् । तथा परमाणाविति मूले मुख्यमत न पारिमण्डल्यमेव गृहीतमेकदेशिमतेन हृस्वत्वमपि ग्राह्यमिति ध्येयम् । त्र्यणुकादिगतं त्वित्येतन्मूलस्योद्भाष्यत्वमसङ्गत्वं चेति शङ्कापरिहाराय भाष्योक्तार्थोपयोगमाह । उक्तापवादस्येति ।