सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
पदार्थविभागः
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
सुधा
षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवाया भावरूपाः पदार्थाः । अभावः सप्तमः । विधिरूपो भावः । निषेधरूपोऽभावः । गुणाश्रयो द्रव्यम् । समवायिकारणं वा । सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः । चलनात्मकं कर्म । नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् । नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः । अत्यन्तव्यावृत्तिहेतवो वा । अयुतसिद्धयोः सम्बन्धः समवायः । अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ । नित्यः सम्बन्धो वा ।
शेषवाक्यार्थचन्द्रिका
विधिरूप इति । नञर्थानुल्लिखितधीविषय इत्यर्थः ॥ निषेधरूप इति । नञर्थोल्लिखितधीविषय इत्यर्थः ॥ गुणाश्रय इति । गुणवदन्यान्य इत्यर्थः । तेन नोत्पत्स्यमानगुणे द्रव्येऽव्याप्तिः । अन्योन्याभावस्य व्याप्यवृत्तितया कदाचिद्गुणवतो द्रव्यस्य गुणवदन्यत्वाभावाद् गुणाश्रयत्वाभावेऽपि गुणवदन्यान्यत्वादिति भावः । न चैवमप्यनुत्पन्नगुणमेव प्रध्वस्तं यद्द्रव्यं तत्र कदाचिदपि गुणवत्त्वाभावेन गुणवदन्यत्वादव्याप्तिरिति वाच्यम् । गुणवद्वृत्तिपदार्थविभाजकोपाधिमदित्यत्र तात्पर्यात् । यद्वा एतदस्वरसादेव तल्लक्षणान्तरमाह समवायिकारणं वेति । स्वसमवेतकार्यजनकतावच्छेदकजातीयमित्यर्थः । अतो न प्राचीनदोषानुषङ्ग इति ध्येयम् ॥ सामान्यवानिति । सामान्यादिचतुष्टयव्यावृत्त्यर्थं सामान्यवानिति विशेषणम् । तच्च जातिमत्परमिति न सामान्यादौ प्रसङ्गः। जातिमत्त्वं च साक्षात्सम्बन्धेन विवक्षितम् । अन्यथा तत्तद्वृत्त्युपाधिशरीरप्रविष्टजातेः परम्परया तत्रावृत्तावनुगत व्यवहाराभावप्रसङ्गात् । द्रव्यव्यावृत्त्यै असमवायिकारणमिति । तदर्थश्च समवायिकारणभिन्नत्वमिति न कश्चित्क्षुद्रोपद्रवः । तदपि च स्वरूपायोग्यत्वं विवक्षितमतो नोत्पद्यमानद्रव्ये प्रसङ्गः । कर्मव्यावृत्त्यर्थमस्पन्दात्मेत्युक्तम् । कर्मभिन्न इत्यर्थः ॥ नित्यमेकमिति । नित्यत्वमात्रं गगने । समवेतत्वविशिष्टमपि विशेषेष्वतोऽनेकेति । अनेकसमवेतत्वमात्रमपि संयोगादाववयविनि च गतमतो नित्यमित्युक्तम् । अनेकसमवेतत्वं च सर्वविशेषान्योन्याभाववत्समवेतत्वमिति न रूपत्वादावव्याप्तिः । एकपदं तु न लक्षणान्तर्गतं किन्तु विशेषवत्प्रतिव्यक्ति नानेकं सामान्यं किन्त्वेकमित्येकाकारप्रत्ययनिर्वाहक्षमत्वं तस्योपदर्शयितुमेव । समवेतपदं वृत्तिमन्मात्रपरमित्यङ्गीकृत्याभावसमवाययोरतिव्याप्तिनिरासाय तदित्यप्याहुः ।
कदलीकारोक्तं लक्षणमनुवदति नित्येष्वेवेति । वर्तमानत्वमात्रं घटादावतिप्रसक्तमतो वर्तन्त एवेत्यवधारणं गृहीतं, नित्या इत्यर्थः । तथाऽपि गुणत्वादौ प्रसङ्गस्तदर्थं द्रव्येष्विति । तथाऽपि घटत्वादौ प्रसङ्गस्तदर्थमवधारणं यावदर्थकम् । तथा च घटत्वादेर्नित्यत्वद्रव्यवृत्तित्वयोः सत्त्वेऽपि यावद्द्रव्यवृत्तित्वाभावान्नातिप्रसङ्गः । तथाऽपि सत्तायां प्रसङ्गस्तन्निवृत्त्यर्थं तृतीयमवधारणमन्ययोगव्यवच्छेदार्थम् । न च द्रव्यमात्रवृत्तय इत्युक्ते घटत्वादौ प्रसङ्गाभावात्तद्वारकावधारणं व्यर्थमिति वाच्यम् । नित्यद्रव्यत्वरूपोपादौ प्रसङ्गवारकत्वात् । आत्मत्वमनस्त्वादौ प्रसङ्गवारणार्थत्वाद्यावदर्थकमवधारणमपि सार्थकम् । यावन्नित्यमात्रवृत्तयो नित्या इत्युक्ते नित्यगुणमात्रवृत्तिगुणत्वादावप्रसङ्गाद्द्रव्यपदमनर्थकमिति चेन्न । विशेषाणां नित्यगुणाद्यवृत्तित्वेन यावन्नित्यवृत्तित्वाभावादसम्भववारकतया तत्सार्थक्यादिति सर्वं सार्थकम् ॥
केचित्त्वत्र द्रव्येषु ये वर्तन्ते ते विशेषा इत्युक्तेऽभावसमवायसामान्येष्वतिव्याप्तिस्तदर्थं द्रव्येष्वेवेत्युक्तम् । तथाऽपि गुणकर्मणोः प्रागभावध्वंसयोश्चातिव्याप्तिस्तदर्थं नित्येष्वेवेति । तथाऽप्यात्मत्वमनस्त्वयोर्नित्यद्रव्यगतगुणविशेषेषु चातिव्याप्तिरतो वर्तन्त एवेति । अनेन कदाचिद्वृत्तिः क्वचिद्वृत्तिश्च व्यावर्त्यते । तेन नित्यद्रव्ये कादाचित्कक्वाचित्कज्ञानादीनाम् अकादाचित्कानामपि क्वाचित्कानां मनस्त्वादीनां च व्यवच्छेदः । तेषां देशतः कालतश्चावृत्तेरपि वर्तमानत्वाद्वर्तन्त एवेत्ययमंशो न सम्भवतीति भवत्यनेन तद्-व्यावृत्तिः । नित्येष्वेवेत्यस्यानुक्तौ द्रव्यत्वेऽतिव्याप्तिरतस्तद्विशेषणम् । नित्येष्वेव वर्तन्त एवेत्येवोक्ते नित्यगुणेष्ववृत्त्याऽसम्भवस्तदर्थं द्रव्येष्वेवेति । नन्ववधारणेन कदाचिद्वृत्तिव्यावर्तनमयुक्तम् । कादाचित्कानामपि ज्ञानादीनां क्वाचित्कत्वेन तद्-व्यावर्तकैवकारेणैव तद्-व्युदासेन प्रयोजनाभावादिति चेन्न । परमाणुत्वपरममहत्परिमाणान्यतरत्वोपाधौ नित्येष्वेव (द्रव्येष्वेव) वर्तमानत्वाद् अक्वाचित्कत्वाच्चेति तत्रातिव्याप्तिवारकत्वेनार्थवत्त्वात् । उपाधेश्च नानापदार्थघटितत्वेनानित्यतया कादाचित्कत्वेनाकादाचित्कत्वार्थकावधारणस्य तत्राभावेनातिव्याप्त्यनवकाशात् । अत एव न नित्यद्रव्यत्वरूपोपाधावपि प्रसङ्ग इति सर्वं सुस्थम् ॥
शङ्करभट्टास्तु । नित्येष्वेवेत्यन्ययोगव्यवच्छेदेन द्रव्यगुणकर्मणां व्यवच्छेदः । तेषामनित्येष्वपि वृत्तेः । द्रव्येष्वेवेत्य(न्य)योगव्यवच्छेदेन सामान्यानां व्यवच्छेदस्तेषामद्रव्येष्वपि वृत्तेः । वर्तन्त एवेत्ययोगव्यवच्छेदेन ज्ञानसुखादिशब्दानां व्यवच्छेदः । तेषां स्वासत्त्वकालेऽवृत्तेरयोगस्यापि सत्त्वात् । ननु च ज्ञानादीनां सामान्यानां च नित्येष्वेवेत्यनेनैव व्यवच्छेदात्किं पदान्तरेण । न हि गुणा नित्येष्वेव वर्तन्ते न वा सामान्यानि । तथा च गुणत्वेन सामान्यत्वेन च ताद्रूप्येण सर्वगुणसामान्यव्यवच्छेदः सिद्ध एवेति चेन्न । नित्यत्वस्य धर्मस्य व्यवच्छेदार्थं द्रव्येष्वेवेति करणात् । ताद्रूप्येण वृत्त्यविवक्षायां चात्मत्वादिनाऽतिव्याप्तिनिरासाय तृतीयावधारणमित्यभिप्राय इत्याहुः ॥ धुण्डिरात्रभट्टास्तु । नित्येष्वेवेति द्रव्यगुणकर्मसामान्यानां व्यावृत्तिः । वर्तन्त एवेति बुद्धिसुखादीनां व्यावृत्तिः । अवधारणेन नित्यद्रव्यवृत्तित्वस्य विवक्षितत्वात् । बुद्ध्यादीनां च परमाण्वादावभावात् । नित्येष्वेव वर्तन्त एवेत्युक्ते लक्षणस्यासम्भवः । विशेषाणां सर्वनित्यवृत्तित्वाभावात् । अतो द्रव्येष्वेवेत्युक्तमित्यभिप्राय इत्याहुः ॥ प्रशस्तपादाचार्योक्तलक्षणमनुवदति अत्यन्तेति । केवलमित्यर्थः । व्यावृत्तिहेतुत्वं च व्यावृत्तिबुद्धिहेतुत्वमिहाभिप्रेतम् । ततश्च व्यावृत्तिबुद्धिमात्रहेतवो न तु सामान्यादिवदनुवृत्तिप्रत्ययहेतवोऽपि ते विशेषा इत्यर्थः । अत्र व्यावृत्तिहेतुत्वमात्रं दण्डादिद्रव्ये रूपादिगुणे कर्मणि द्रव्यत्वादौ सामान्ये चातिव्याप्तमतोऽत्यन्तेत्युक्तम् । तथा च दण्डादिरूपस्य द्रव्यादेरदण्ड््यादिभ्यो व्यावर्तकत्वेऽपि दण्ड््यन्तरादिभ्योऽव्यावर्तकत्वेनानुवृत्तिप्रत्ययहेतुत्वस्यापि सत्त्वेन व्यावृत्तिप्रत्ययमात्रहेतुत्वाभावान्न अतिप्रसङ्गः । ते हि विशेषा एव व्यावृत्तिबुद्धिमात्रहेतवो न तु सामान्यरूपा इति तदुक्तेरिति भावः ।
अयुतसिद्धयोरिति । संयोगेऽतिव्याप्तिवारणायायुतसिद्धयोरित्युक्तम् । अयुतसिद्धयोर्घटकपालयोः सम्बन्धि यज्ज्ञानं तदप्ययुतसिद्धयोर्भवतीत्यतस्तत्राति प्रसङ्गवारणाय सम्बन्धपदम् । घटकपालयोर्ज्ञानं च यद्यप्ययुतसिद्धयोर्भवति तथाऽपि न सम्बन्ध इति न तत्र प्रसङ्गः । अयुतसिद्धत्वं च परस्परापेक्षं विवक्षितम् । अतो न संयोगेऽतिव्याप्तिः । घटपटयोर्यत्किञ्चिदपेक्षयाऽयुतसिद्धत्वेऽपि घटापेक्षया पटस्य पटापेक्षया च घटस्योक्तरूपायुतसिद्धत्वाभावादिति ध्येयम् ॥ अवश्यमाश्रयेति । कुण्डबदरनिरासायावश्यमित्युक्तं नियमेनेत्यर्थः । नन्वेवमवयव्यादीनामनित्यतया स्थित्यवश्यम्भावाभावेन ययोर्मध्ये एकस्यापरस्मिन्स्थितिरेवेति नियमाभावादव्याप्तिः । न चाविनश्यदिति विशेषणात्सर्वसामञ्जस्यम् । तदर्थो हि विनश्यतारहितत्वम् । तत्त्वं च यत्किञ्चिद्विनश्यतारहितत्वं वा सकलविनश्यतारहितत्वं वा । नाद्यः । उक्तदोषानिवृत्तेः । न द्वितीयः । आत्मात्मत्वादिरूपयोर्नित्ययोरयुतसिद्धयोर्विनाशाप्रसिद्ध्या तत्राव्याप्तेः । न तृतीयः । असम्भवादिति चेन्न । ययोर्भावयोर्विद्यमानयोर्मध्ये एकस्यापरस्मिन्स्थितिरेव तत्त्वमयुतसिद्धत्वम् । यावेकस्मिन्कालेऽसम्बद्धौ न स्तस् तत्त्वं वा तदिति तात्पर्यात् । आश्रयाश्रयिभावश्चात्र जगदाधारतानियामकसम्बन्धसंयोगातिरिक्तसम्बन्धेन विवक्षितो ऽतो न सर्वभावपदार्थकालयोः कपालावयवघटयोश्च अतिव्याप्तिरिति ध्येयम् ॥ नित्यः सम्बन्ध इति । गगनादिव्यावृत्त्यै परभागः । संयोगव्यावृत्त्यै पूर्वभागः । सद्भिन्नस्वभिन्नसम्बन्धाधेयभिन्नभावत्वं तत्त्वमिति तु परमार्थः । प्रलये जात्यादेः स्वरूपसम्बन्धेन काले वृत्तावपि प्राक् समवायेनाधेयस्य न स्वभिन्नसम्बन्धाधेयभिन्नत्वमन्योन्याभावस्य व्याप्यवृत्तित्वात् । अवृत्तिव्यावृत्त्यै सद्भिन्नेति विशेषणम् ॥
**परिमल **
सामान्यादिस्वरूपं व्यक्तीकर्तुं पदार्थानाह षडिमे इति । गुणाश्रयत्वमाद्यक्षणे नेत्यतो लक्षणान्तरमाह समवायिकारणमिति । यदा तु गुणाश्रयत्वं गुणात्यन्ताभावानधिकरणत्वं विवक्षितं तदा विषयव्याप्त्यर्थं लक्षणान्तरम् ॥ असमवायिकारणमिति । समवायिकारणभिन्नमित्यर्थः । सामान्यादिचतुष्टये द्रव्ये कर्मणि चानतिव्याप्तये क्रमात्त्रीणि विशेषणानि ॥ नित्यमेकमनेकानुगतमिति । अनेकानुगतत्वमनेकसमवेतत्वम् । क्वचिदनेकसमवेतमित्येव पठ्यते । तेनात्यन्ताभावादौ समवाये च नातिव्याप्तिः । अधिकरणभेदेनाभावभेदानभ्युपगमेन अनेकाधिकरणेष्वाकाशाद्यत्यन्ता भावान्योन्याभावयोः सत्त्वात् । संयोगादावनतिव्याप्तये नित्यमित्युक्तिः । गगनादावनतिव्याप्तये अनेकानुगतमित्युक्तिः । अत्र नित्यमनेकसमवेतमित्येतावतैव पूर्तौ एकमित्युक्तिः स्वरूपकथनायेत्याहुः ॥ नित्येष्वेवेत्यादि । अत्र वर्तन्त इत्येवोक्तौ घटादावतिव्याप्तिः, अतो वर्तन्त एवेत्युक्तम् । घटादेराद्यन्तवत्त्वेन पूर्वोत्तरकालमवर्तनात् । तावत्युक्ते रूपत्वादौ, ततो द्रव्येष्विति । तावति सत्तायाम् । अतो द्रव्येष्वेवेति । तावत्युक्ते घटत्वादौ, अतो नित्येष्विति । तावत्युक्ते द्रव्यत्वादौ, अतो नित्येष्वेवेति । नित्येषु वर्तन्ते विशेषा इत्युक्तौ पार्थिवपरमाणुरूपादौ, अतो वर्तन्ते एवेति । तावत्युक्तौ सत्तादौ, अतो नित्येष्वेवेति । तावत्युक्तौ आप्यपरमाणुरूपत्वादौ, ततो द्रव्येष्विति । तावत्युक्ते परमाणुपारिमाण्डिल्यान्यतरत्वादौ, अतो द्रव्येष्वेवेति । नित्येषु द्रव्येष्वेव वर्तन्त एव विशेषा इत्युक्तौ द्रव्यत्वगुणकर्मध्वंसादौ, अतो नित्येष्वेवेति ॥ अत्यन्तव्यावृत्तिहेतवो वेति । व्यावृत्तिशब्दो व्यावृत्तिधीपरः । अत्यन्तं केवलं व्यावृत्तिधीहेतवः । अयमस्मादन्य इति भेदधीमात्रहेतवो न कदाचिदनुगतबुद्धिद्देतव इत्यर्थः । व्यावृत्तिहेतव इत्येवोक्तौ व्यावृत्तेः प्रागेव सिद्धत्वेन व्यावृत्तिधीहेतव इति वक्तव्यम् । तावतो द्रव्यत्वादावतिव्याप्तत्वादत्यन्तेति । तस्याद्रव्यादितो व्यावृत्तिधीहेतुत्वेऽपि इदं द्रव्यमिदं द्रव्यमित्यनुगतबुद्धेरपि हेतुत्वेन केवलं व्यावृत्तिबुद्धिहेतुत्वाभावात् ।
यादुपत्यं
विधिरूप इति । नञर्थानुल्लिखितधीविषय इत्यर्थः । निषेधरूप इति । नञर्थोल्लिखितधीविषय इत्यर्थः । गुणाश्रयत्वं प्रथमक्षणावच्चिन्नघटेऽव्याप्तमतो लक्षणान्तरमाह समवायिकारणमिति ॥ सामान्यवानिति । अत्रासमवायिकारणमित्यस्य समवायिकारणभिन्नमित्यर्थः । तथा च सामान्यादिचतुष्टये द्रव्ये कर्मणि चातिव्याप्तिवारणाय क्रमेण विशेषणानि ॥ नित्यमेवमिति । अत्र नित्यत्वमात्रं गगनेऽतिव्याप्तं, समवेतत्वविशेषितं विशेषे, अनेकत्वविशेषितं समवेतत्वं विशेषेष्वेकत्वविशेषितमनेकसमवेतत्वं संयोगादावयविनि च । समवेतत्वपरित्यागेनानुगतत्वमात्रोक्तावनेकाधिकरणका न्योन्याभावात्यन्ताभावयोः समवाये च अतः सर्वं सार्थकमिति बहवः । तच्चिन्त्यमित्यपरे । अनेक समवेतत्वं यद्यनेकत्वसंख्यावत्समवेतत्वरूपं तदा रूपत्वादावव्याप्तिः । यदि च स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वरूपं तदैकपदं व्यर्थं, कुत्रापि विशेषे निरुक्तानेकसमवेतत्वाभावात् । समुदायस्य च समुदायिभिन्नस्याभावादिति । तस्मादत्रैकत्वं न लक्षणशरीरान्तर्गतं किन्तु सामान्यं सर्वत्रानुगतव्यवहारहेतुत्वादेकमेव न विशेषवत् प्रतिव्यक्तिभिन्नमिति स्वरूपकथनार्थमेवेति सम्प्रदायविदः ॥ नित्येष्वेवेति । अत्र द्रव्येषु ये वर्तन्ते ते विशेषा इत्युक्ते सामान्यसमवायाभावेष्वतिव्याप्तिरतो द्रव्येष्वेवेत्युक्तम् । तथाऽपि गुणकर्मणोस्तत्प्रागभावप्रध्वंसयोश्चातिव्याप्तिस्तदर्थं नित्येष्वेवेति । तथाऽप्यात्मत्वमनस्त्वयोर्नित्यद्रव्यगतगुणविशेषेषु चातिव्याप्तिरतो वर्तन्त एवेति । अयोगव्यवच्छेदकेनानेन कादाचित्कवृत्तिः क्वाचित्कवृत्तिश्च व्यावर्त्येते । ततश्च नित्यद्रव्येष्वेव सदा सर्वत्रवर्तमाना इत्यर्थो लभ्यते । तेन नित्यद्रव्येष्वेव विद्यमानानां कादाचित्कानां ज्ञानादीनां क्वाचित्कानां मनस्त्वादीनां च व्यवच्छेदसिद्धिः । ननु वर्तन्त एवेत्यवधारणस्य क्वाचित्कवृत्तिव्यवच्छेदकत्वव्याख्यानेनैव मनस्त्वादिवत् कादाचित्कानां ज्ञानादीनामपि व्यवच्छेदसिद्धौ कादाचित्कवृत्तिव्यवच्छेदकत्वमपि किमर्थं व्याख्येयं प्रयोजनाभावादिति चेन्न । सर्वनित्यद्रव्येष्वेव विद्यमाने नित्यद्रव्यत्वादावतिव्याप्तिवारणस्यैव तत्प्रयोजनत्वात् । उपाधीनां च नानापदर्थघटितानाम् अनित्यत्वात् । नित्येष्वेवेत्यस्यानुक्तौ द्रव्यत्वेऽतिव्याप्तिः । द्रव्येष्वेवेत्यस्यानुपादाने विशेषस्य नित्यगुणादिष्ववृत्त्याऽसम्भवोऽतः सर्वं सार्थकमेवेति ॥ अत्यन्तव्यावृत्तिहेतव इति । अत्यन्तव्यावृत्तिप्रत्ययहेतव इत्यर्थः । अत्र व्यावृत्तिप्रत्ययहेतुत्वमात्रं दण्डादिद्रव्ये गुणे रूपादौ कर्मणि द्रव्यत्वादिसामान्ये चातिव्याप्तमतोऽत्यन्तेत्युक्तम् । अत्यन्तं केवलं व्यावृत्तिहेतवो व्यावृत्तिहेतव एव न कदाऽप्यनुवृत्तिहेतव इति यावत् । दण्डादिकं तु न तथा । तस्य दण्ड््यन्तरादिभ्योऽव्यावर्तकत्वेनानुवृत्तिहेतुत्वस्यापि सत्त्वादित्यवधेयम् । अत एवाहुर्वैशेषिकाः ‘ते हि विशेषा एव व्यावृत्तिबुद्धिमात्रहेतवो न तु सामान्यरूपा अपी’ति । अवश्यमाश्रयेति । कुण्डबदरादिव्युदासाय अवश्यमिति । नियमेनेत्यर्थः । नन्वेवं तन्त्वादिनाशक्षणे विनश्यदवस्थस्य पटादेस्तन्त्वाद्याश्रितत्वाभावादव्याप्तिः । न चाविनश्यन्तावित्यपि विशेषणं विवक्षितमिति वाच्यम् । आत्मात्मत्वादि रूपयोर्नित्ययोरयुतसिद्धयोर्विनाशाप्रसिध्द्या अव्याप्त्यापत्तेरिति चेन्न । यावुभौ स्वस्थित्यवच्छिन्नकालावच्छेदेन नियमेनाश्रयाश्रयिभावेनावस्थितौ तौ अयुतसिद्धाविति विवक्षितत्वात् । आश्रयाश्रयिभावश्चातिरिक्तसम्बन्धेन विवक्षितोऽतो न कालघटत्वयोर्भूतलघटाद्यभावयोश्चातिव्याप्तिरिति द्रष्टव्यम् ।
**वाक्यार्थरत्नमाला **
नञर्थानुल्लिखितेति । अत्र च प्रलयध्वंसादीनां नञर्थानुलिखितधीविषयत्वाद्भावरूपत्वप्रसङ्गस्तु न प्राप्तोति । नञर्थभानमात्रस्य विवक्षितत्वेन नञोप्यवच्छेदकतयानुप्रवेशस्यानङ्गीकारेण प्रलयादिशब्दैश्च निषेधरूपत्वस्य प्रतीत्यानिषेदरूपोल्लिखितधीविषयत्वस्यैव प्राप्त्या निषेधानुल्लिखितधीविषयत्वाभावादित्यादिकं योजनीयम् । नञर्थोल्लिखितेति । प्रथमप्रतीतावित्यादिकं योज्यम् । पदार्थचन्द्रिकानुसारेणाह । गुणवदन्येति । अत्र गुणवदन्यान्यदित्यर्थ इत्यदिकारयुक्तः पाठः । ननु प्रथमलक्षणावच्छिन्नद्रव्यस्य गुणवदन्यतयात्राव्याप्तिरवर्जनीयेत्यत आह । अन्योन्याभावस्येति । कदाचिद्गुणवत इति । उत्पत्युत्तरकालं गुणवत्वात्सामान्येन कदाचिद्गुणवत्वं तस्येति बोध्यम् । अनुत्पन्नगुणमेव प्रध्वस्तमिति । अयमाशयः । पटाख्यद्रव्यजनको हि चरमतन्तु संयोगः । तज्जनकं च तन्तुकर्मा तज्जन्यश्च तन्तोः पूर्वदेशविभागस् तदुत्तरक्षणे तन्तोः पूर्वदेशसंयोगनाशं तत्क्षणे प्रथमतन्तुदेशकर्मोत्पन्नम् । दैवादुत्पन्नेन तेन तन्त्वन्तरविभाग तत्त्समये चरमतन्तुसंयोगोत्पत्तिरिति । चरमतन्तुसंयोगकालः प्रथमतन्तुकर्मोत्पन्नतन्त्वन्तरविभागकालश्चैकस् तदुत्तरक्षणे प्रथमतन्तुकर्मजतन्त्वन्तरविभागेन पटसमवायिकारणतन्तुसंयोगनाशो जातस्तथा चरमतन्तुसंयोगात्पटश्च जात इति पटसमवायिकारणसंयोगनाशकाल पटकालश्चैकः । तदुत्तरक्षणे च पटारम्भकसंयोगनाशेन पटनाशो यत्र भवति तत्र कदापि गुणोत्पत्तिर्नास्तीति । एतद्दोषपरिहारायैतद्विवक्षाकरणेनान्यदपिसूचितम् । गुणात्यन्ताभावविरोधिमत्वविवक्षाया गुणात्यन्ताभावानधिकरणत्वमात्रस्यात्यन्ताभावेऽति व्याप्तिपरिहारकरणमपि न सम्भवति । उक्तविधयोत्पन्नविनष्टद्रव्ये गुणतत्प्रागभावप्रध्वंसाभावेन तत्राव्याप्तेरपरिहार्यत्वात् । प्रागभावस्य तत्तत्प्रागभावत्वेन कारणताया आवश्यकत्वेन तादृशद्रव्ये प्रागभावसामान्याङ्गीकारायोगादिति ।
न च तत्र यावदसमवायिकारणनाशाभावान्न द्रव्यनाश इति वाच्यम् । न्यायसिद्धान्ते खण्डपटोत्पत्तिरङ्गीकृतास्तीति यावत्वविशेषणे गौरवेन लाघवादसमवायिकारणनाशादेव द्रव्यनाशस्याभ्युपगन्तव्यत्वादिति द्रष्टव्यम् । समवायिनः कारणमित्यर्थे तु तन्तुरूपस्य पटसमवेतरूपकारणत्वादतिव्याप्तिः । समवायिकारणं यस्येति बहुव्रीहि पक्षेऽपि न तत्रातिव्याप्तिः । तन्त्वाख्यसमवायिनस्तत्र कारणत्वात् । नित्यद्रव्येति व्याप्तिश्च । नापि समवायि च तत्कारणं चेति कर्मधायः । तन्तुरूपादावतिव्याप्तेर्नित्यद्रव्याव्याप्तेश्चास्वसमवेतकार्योत्पादकत्वे समवायिकारणपदस्य निरूढत्वाङ्गीकारेऽपि प्रागुक्तानुत्पन्नगुणेति व्याप्तिरेवेत्यत आह । स्वसमवेतेति । स्वसमानजातीयसमवेतेत्यर्थः । अतो नानुत्पन्नगुणे स्वसमवेतकार्याप्रसिध्याऽव्याप्तिः । प्राचीनेति । अनुत्पन्नगुणद्रव्येऽव्याप्तिलक्षण इत्यर्थः । मुरारिभट्यनु सारेणाह । तच्च जातिमत्परमिति । तेनोपाधिरूपसामान्यस्य सामान्यादावपि सत्वेऽपि जातिरूपस्याभावान्नातिव्याप्तिरित्युक्तं भवति । ननु प्रमेयत्वाभिधेयत्वोपाधिरूपसामान्यस्य परंपरासम्बन्धप्रमात्वाभिधात्वादिरूपत्वाजातिमत्वमपि प्राप्तमेवेत्यत आह । जातिमत्वं चेति । विशेषलक्षणीयपदार्थचन्द्रिकानुसारेणाह अन्यथेति । तत्तद्वृत्युपाधिप्रविष्टजातेरिति । अत्र विशेषत्वोपाधिप्रविष्टा का जातिः कस्य वा पुरुषाधौरेयस्य विशेषानुगतव्यवहार इत्यादिविचारणीयमिति पट्टवर्धनः । तथा च समवायेन जातिमत्वं सामान्यवत्वमित्युक्तं भवति । क्षुद्रोपद्रव इति । समवायिकारणप्रत्यासन्नत्वादिरूपेण लक्षणनिर्वचने ज्ञानादीनाम् इच्छादीन्प्रति असमवायिकारणतापत्तिरित्यादिदोषरूप इत्यर्थः । यद्यपि यत्किञ्चित्समवायिकारणव्यक्तिप्रतियोगिकान्योन्याभाववत्वं घटादेरपीति न तेनातिव्याप्तिपरिहारस्तथापि समवायिकारणत्वावच्छिन्नप्रतियोगिकान्योन्याभाववत्व प्रतिपादनस्यान्योन्याभावविरोधिप्रतियोगितावच्छेदकधर्मराहित्ये तात्पर्योपपत्तेः । अत एव पदार्थचन्द्रिकायां समवायिकारणत्वराहित्यमित्येवोक्तम् । यद्वैतदस्वरसादप्याह । तदपि चेति । स्वरूपयोग्यत्वविवक्षया वक्ष्यमाणदोषस्येव समवायिकारणान्तर भिन्नत्वेनातिव्याप्तिदोषस्यापि परिहारादिति बोध्यम् । कर्मभिन्न इति । कर्मत्वावच्छिन्नप्रतियोगिकभेदवानित्यर्थात् कर्मत्वानधिकरण इत्यर्थाद्वा न कश्चिद्दोषः ।
अनेकसमवेतमित्यत्र एकत्वाभाववत्समवेतत्वोक्तौ एकत्ववति घटे विद्यमाने घटत्वेऽव्याप्तिः । अनेकत्वसङ्ख्यावत्समवेतत्वोक्तौ निर्गुणरूपादिनिष्टरूपत्वादावव्याप्तिरित्यत आह । अनेकसमवेतत्वं चेति । सर्वे ये विशेषान्योन्याभावास् तत्तद्घटादिप्रतियोगिकास्तद्वत्समवेतत्वमित्यर्थः । न तु सर्वपदमन्योन्याभाववतो विशेषणम् । तथा सति तत्तद्घटान्योन्याभावस्य घटान्तर इव पदावपि सत्वात्तत्र च घटत्वादेरभावादसम्भवापत्तेर् विशेषान्योन्याभाववत्समवेतत्वमात्रोक्तौ जलपरमाणुगतरूपेऽतिव्याप्तिः । तस्य नित्यस्यैकस्य पार्थिवादिपरमाणुरूपविशेषान्योन्याभाववति जलपरमाणौ समवेतत्वात् । तत्परिहाराय सर्वेति । तथा च तत्तद्घटान्योन्याभाववत्सु सर्वघटेषु घटत्वत्सर्वपरमाणुजलपरमाणुरूपाया सत्वान्नातिव्याप्तिः । सर्वान्योन्याभाववत्समवेतत्वमात्रोक्तौ सर्वप्रविष्टो यो घटान्योन्याभावस्तद्वति पटादावसमवेते घटत्वेऽव्याप्तिर् एवं पटत्वादावपि । अतो विशेषेति । तथा च सर्वे ये विशेषा अन्योन्या भावा इत्युक्तौ तत्तद्घटान्योन्याभावा एव प्राप्तास्तेषां ग्रहणे घटेऽपि घटान्तरान्योन्याभावसत्वान्न घटत्वेऽव्याप्तिर्नापि पटत्वादावित्यादि पटवर्धन्यादिषु ध्येयम् ।
समवेतपदमिति । अत्र च पक्षे एकत्वमसहायत्वं विवक्षितम् । अभावसमवाययोश्च प्रतियोगिसम्बन्धिरूपसहायवत्त्वान्न प्रसङ्ग इति ध्येयम् । कदलीकारेति । तत्वप्रदीपिकाटीकाद्युक्तरीत्येदम् । गङ्गापुरीव्याख्यानरूपषट्सहस्त्र्यां तु श्रीधरोक्तमित्युक्तम् । वर्तन्त एवेत्यनेन ‘‘कदाचिन्न वर्तन्त’’ इति यल्लब्धं तद्दर्शयति । नित्या इत्यर्थ इति । नित्या इत्यस्य वर्तते इत्यर्थस्य विवक्षितत्वाद् द्रव्येषु नित्या इत्यादेर्नासङ्गतिरिति बोध्यम् । यद्वा द्रव्येष्विति सप्तम्यैव वर्तन्त इति लाभाद् द्रव्यवर्तिनो नित्या इति लाभः । वक्ष्यति च द्रव्यवृत्तित्वयोरिति । अवधारणं यावदिति । द्रव्येष्वेवेत्यवधारणमित्यर्थः । अत्र प्रकरणे तदर्थमित्यस्य तन्निवृत्यर्थमित्यर्थः । तथाऽपि सत्तायामिति । नित्यत्वयावद्रव्यवृत्तित्वयोः सत्तायां सत्वात्तत्रातिप्रसङ्गनिवृत्तये नित्येष्विति विशेषणोपादानेऽपि पुनस्तत्रैव प्रसङ्गसन्निवृत्यर्थमुक्तंत्तृतीयावधारणमिति भावः । यद्यप्येतत्प्रथममवधारणं तथापि कृत्यकथनावसरे तृतीयत्वेनोर्वरितत्वा तृतीयत्वोक्तिः । अन्तिमापेक्षयाद्यस्यापि तृतीयत्वमित्यप्याहुः । यद्यपि चात्र नित्येष्वेवेतीति वक्तव्यम् । तथापि नित्यपदस्य सत्ताव्यावर्तकत्वं नास्तीति भावेनावधारणमात्रस्यैव ग्रहणं कृतम् । अत्रानेकपक्षेष्वपि नित्यग्रहणेन व्यावृत्यसम्भवः । यावद्रव्यमध्येऽनित्यस्यापि प्रवेशनं तत्र विशेषाभावेन यावद्रव्य मात्रवृत्तित्वाभावान्नित्यविशेषणे तु नासम्भवः । अतो न नित्यपदानर्थक्ये प्रसङ्ग इति बोध्यम् । नित्येष्वेव द्रव्येषु वर्तन्त इत्येवास्तु उत्तरावधारणद्वयं व्यर्थमित्याशङ्कते । न च नित्येति । घटादौ घटत्वादौ चातिव्याप्तिवारकत्वेनोक्तमवधारणद्वयमित्यर्थः । घटादावित्यस्य घटत्वादावित्येतदुपलक्षणत्वात् । घटादौ प्रसङ्गाभावेऽपि स्थलान्तरेऽतिव्याप्तिवारणार्थं वर्तन्त एवेत्यवधारणं भविष्यतीत्याह । नित्यद्रव्यत्वरूपोपाधाविति । तस्य वक्ष्यमाणरीत्या नित्यत्वादिति भावः । यावदर्थकावधारणकृत्यमाह । आत्मत्वेति । घटादौ प्रसङ्गाभावादिति पाठः स्वरस एव । घटत्वादाविति पाठेऽपि क्रमाविवक्षया विशेषणप्रयोजनकीर्तनमिति ज्ञेयम् । यद्वेति पक्षस्तु तत्वप्रदीपिकाव्याख्यानानुसारेण । तत्र पक्षे द्रव्येष्वेवेत्यनेन द्रव्येतरावृत्तित्वोक्तयाऽभावसमवायसामान्य व्यवच्छेदः । नित्येतरावृत्तित्वार्थकनित्येष्वेवेत्यनेन गुणकर्मप्रागभावप्रध्वंसव्यवच्छेदश्चाभिमतः । तत्र नित्यद्रव्येतरावृत्तित्वार्थमवधारणमस्तु द्वितीयं व्यर्थमिति प्रतीयते । अत एव नित्यद्रव्येति सम्बन्धाश्रयणेन व्यवहार उत्तरत्र इत्यादिशोध्यम् । शङ्करभट्टीयपक्षे द्रव्येष्वेवेत्यन्येति पाठः । नित्येष्वेवेत्यत्राप्यन्ययोगव्यवच्छेदस्यैवार्थताया युक्तत्वाच्छङ्करभट्टीये तथैवोक्तेश्चेति ज्ञेयम् ।
किं पदान्तरेणेति । द्रव्येष्वेवेति पदान्तरेण किमर्थः । ननु ज्ञानादिगुणानामात्मत्वादिसामान्यस्य च नित्यमात्रवृत्तित्वात्कथं तेन तद्-व्यावृत्तिरित्यतो न ज्ञानत्वादिरूपेण ज्ञानादीनां नित्यमात्रवृत्तित्वाभावं ब्रूमः । किं तु गुणत्वेन सामान्यत्वेन चागुणत्वादिना गुणसामान्ययोश्च नित्यमात्रवृत्तित्वाभावः सुलभ एवेत्याह । न हि गुणा नित्येष्वेवेत्यादि । ताद्रूप्येणेति । तद्रूपमेव ताद्रूप्यम् । गुणत्वसामान्यत्वलक्षणेन ज्ञानादिसामान्यगतरूपेणेति यावत् । न गुणत्वरूपेण ज्ञानादीनां नित्यमात्रावृत्तित्वेऽपि सामान्यत्वेन च सामान्यस्य नित्यमात्रवृत्तित्वाभावेऽपि ज्ञानादित्व आत्मत्वमनस्त्वरूपेण नित्यमात्रवृत्तित्वसम्भवाद् अतिव्याप्तिरेव । न च तत्परिहारो द्रव्येष्वेवेत्यनेन सम्भवति । अवधारणस्य अन्ययोगव्यवच्छेदार्थकतया प्राग्व्याख्यानात् । तेषामद्रव्येष्वपि वृत्तेरिति परिहाराच्च । यदि चायोगव्यवच्छेदोऽर्थः स्यात्तदा यावद्रव्यवृत्तित्वलाभेन ज्ञानादिव्यावृत्युपपत्तावपि निःसामान्यद्रव्यस्याभावेन सामान्यस्यापि यावद्द्रव्यवृत्तितया प्रागुक्ततद्-व्यावृत्यनुपपत्तिः स्यात् । न च प्राचीनसामान्यपदस्यात्मत्वमनस्त्वरूपसामान्यपरत्वमेव । तयोश्च यावद्रव्यवृत्तित्वाभावेन व्यावृत्युपपत्तिरिति वाच्यम् । तथा सति तृतीयावधारणव्यर्थतापत्तेः । आत्मत्व मनस्त्वाभ्यां व्यभिचारस्य खण्डनोक्तस्य नित्यान्तरेऽसत्वादित्यनेनोपपादनं खण्डने कृतम् । तद्-व्यावर्त्यशङ्काप्रदर्शनावसरे वर्तन्त एवेत्येवकारेणायोगव्यवच्छेदेन व्यावृत्तेरभिधानात् । तथा च द्रव्येष्वेवेत्येवकारार्थपरिगृहीतत्वमङ्गीकृत्यावधारणान्तरेण व्यावृत्यभिधानं विरुध्यतेत्यतस् ताद्रूप्येण वृत्यविवक्षाज्ञानादित्वेनात्मत्व मनस्त्वरूपेण च वृत्तिविवक्षायां नित्येष्वेव द्रव्येष्वेव वर्तमानत्व सत्वेन द्रव्येष्वेवेत्यनेन तद्-व्यावृत्यनुपपत्तावपि तृतीयावधारणेनैतद्-व्यावृत्तिसम्भवान्नानुपपत्तिरिति भावेनाह । ताद्रूप्येण वृत्यविवक्षायां चेति । अत्र शङ्करभट्टेन ताद्रूप्येण वृत्तिविवक्षणेन ज्ञानादीनां परिहारमाशङ्क्य नित्यत्वेऽतिव्याप्तिव्यावृत्यर्थं द्रव्येष्वेवेत्युक्तमिति प्रतिपादितेऽपि ताद्रूप्येण वृत्यविवक्षाप्रयुक्ताज्ञानादावतिव्याप्तिः स्यादेवेत्यतस्तत्परिहाराय यत्ने कर्तव्ये तत्करणं तस्य दोष इत्याशयेन तत्परिहाराय स्वयं यत्नः कृत इति सूरयो विदांकुर्वन्तु । गुण्डिराजीयपक्षे द्रव्येष्वेवेत्युक्तमिति । द्रव्य एवेत्येकवचनेन परिहारेऽपि विशेषेणामानंत्यसूचनाय बहुवचनमिति भावः । तदुक्तेरिति भाव इति । उपलक्षणं चैतत् । यद्यपि गङ्गापुर्या दृष्टादिव्यावृत्यर्थं निःसामान्या इत्यपि विशेषणं ग्राह्यं च । विशेषजन्यात्यन्तव्यावृत्तिप्रतिकार्यमात्रहेत्वदृष्टस्यापि हेतुत्वात् । तथापि न तदुपपादानमावश्यकम् । अन्त्यपदस्य कैवल्यार्थकत्वाङ्गीकारेणात्यन्तव्यावृत्तिहेतुत्वस्य केवलव्यावृत्तिहेतुत्वे पर्यवसानात्तस्य च व्यावृत्ति हेतुत्वे सति अनुवृत्तिहेतुत्वाभावे तात्पर्याददृष्टस्य चा व्यावृत्तिहेतुत्ववदनुवृत्तिहेतुताया अष्ठि सत्वेन तदभावाभावान्नातिप्रसङ्ग इत्यपि बोध्यम् ।
न तु सामान्यरूपा इतीति । यद्यप्येवं तेन नोक्तं तथापि विशेषा एवेत्यवधारणप्रयोगलब्धादुक्तत्वोक्तिरिति केचित् । वस्तुतो वैशेषिकसूत्रोपस्कारे अन्यत्रान्तेभ्यो विशेषेभ्य इत्येतत्सूत्रव्याख्यानावसरे अन्ते अवसाने भवन्तीत्यन्त्या इत्यादि न तु सामान्य रूपा इतीत्यन्तमुक्तमिति तथोक्तमिति ज्ञेयम् । अवश्यमाश्रयाश्रयिभावेनावस्थितत्वं नामनियमेनाश्रयाश्रयिभावावस्थितत्वम् । नियमश्च एकस्य अपरस्मिन्नवस्थितत्वमेव न तु कदाचिदसत्वमिति सिद्धवत्कृत्या शङ्कते । नन्वेवमिति । आकाशघटत्वान्त्यन्ताभावयोरतिव्याप्तिपरिहाराय भावयोरिति विशेषणं सिद्धवत्कृत्याह । ययोरिति । दिगिति । शिष्टं मुरारिभट्याम् । सद्भिन्नेति । भावत्वमात्रं घटादावत उक्तं सम्बन्धाधेयभिन्नेति घटादेश्च संयोगादिसम्बन्धेन भूतलाद्याधेयतास्तीति तत्परिहारः । तावन्मात्रं चा सम्भवि । समवायस्यापि स्वरूपसम्बन्धेनाधेयतायाः सत्वेन सम्बन्धाधेयत्वादत उक्तम् । स्वभिन्नेति । स्वरूपसम्बन्धस्य स्वात्मकतया स्वभिन्नत्वाभावान्ना सम्भवः । तावन्मात्रं चावृत्तिगगनादावतिप्रसक्तम् अत उक्तं सद्भिन्नमिति । सत्ताजाति मद्भिन्नमित्यर्थः । ततश्च गगनादेः सत्ताजात्याश्रयतया तद्भिन्नत्वाभावान्न प्रसङ्गः सद्भिन्नत्वमात्रौक्तौ सामान्यादौ प्रसङ्गो ऽतः स्वभिन्नसम्बन्धाधेयभिन्नमिति । तस्य च स्वभिन्न समवायरूपसम्बन्धेना धेयतायाः सत्वान्नाति प्रसङ्गः । तावन्मात्रम् अभावे अतो भावत्वविशेषणं यद्यपि समवायेऽपि स्वभिन्नावाच्यवाचकभावः । सम्बन्धोऽस्ति तथापि तेन नाधेयत्वमिति युक्तं तद्भिन्नत्वं लक्ष्ये इति ध्येयम् ।
ननु कार्यमात्रवृत्तिघटत्वादि सामान्येऽतिव्याप्तिः । तस्य प्रलयसमये समवाये नाधेयत्वाभावादत आह प्रलये चेति । अत्र प्रलये चेति चशब्दयुक्त एव पाठः । तथैवान्यत्रोक्तेरिति ज्ञेयम् । प्रागिति घटादाविति शेषः । शिष्टं पदार्थचन्द्रिकातद्-व्याख्यानयोः ।
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
सुधा
तत्र सामान्यमन्त्यविशेषश्च समवायश्चेत्येतत्त्रयं नित्यमकार्यं च । विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् । विशिष्यतेऽनेनेति हि विशेषः । द्रव्यं च दण्डादिकमदण्ड््यादिभ्यो देवदत्तादिकं व्यावर्तयति । गुणश्च निर्गुणाद्द्रव्यम् । कर्मापि निष्क्रियान्मूर्तम् । सामान्यं द्विविधं परमपरं च । परं सत्ता प्रचुराश्रयत्वात् । अपरं द्रव्यत्वादि अल्पाश्रयत्वात् । तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वेऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषोऽपि भवति । अतस्तद्-व्यावृत्त्यर्थमन्त्येत्युक्तम् । अन्त्ये द्रव्यादिव्यावर्तकानामभावेऽपि ये व्यावर्तका भवन्ति तेऽन्त्याः । अत्यन्तव्यावृत्तिहेतव इति यावत् । न हि दण्डादिकं तथा । दण्ड््यन्तरादिभ्योऽव्यावर्तकत्वात् ।
शेषवाक्यार्थचन्द्रिका
परमपरं चेति । परं व्यापकम्, अपरं व्याप्यमित्यर्थः । यत्सामान्यं यत्सामान्यसमानाधिकरणं सद् यदत्यन्ताभावसमानाधिकरणं तत्तस्य परमित्यर्थः । अत्र यदत्यन्ताभाव समानाधिकरणं यत्सामान्यमित्युक्तौ घटत्वमपि पटत्वापेक्षया परं स्यात् । घटत्वस्यापि पटत्वात्यन्ताभावसमानाधिकरणत्वात्तदर्थं यत्सामान्यसमानाधिकरणमित्युक्तम् । घटत्वं च न पटत्वसमानाधिकरणमिति नातिप्रसक्तिः । यत्सामान्यसमानाधिकरणं यत्सामान्यमित्युक्तौ पृथिवीत्वमपि द्रव्यत्वापेक्षया परं स्यात् । तस्यापि द्रव्यत्वसमानाधिकरणत्वात् । तदत्यन्ताभावसामानाधिकरण्यविवक्षायां च नातिप्रसङ्गः । पृथिवीत्वस्य द्रव्यत्वात्यन्ताभावासमानाधिकरणत्वात् । जातिपरसामान्यपदोपादानाज्जातिव्यापकत्वनिर्वचनमेवेदं न तु व्यापकत्वमात्रलक्षणम् । प्रमेयत्वाभिधेयत्वादावतिव्याप्ति प्रसङ्गात् । द्रव्यत्ववत्त्वस्य पृथिवीत्वव्यापकत्वप्रसङ्गाच्चेत्यवधेयम् । समानाधिकरण सामान्यसमानाधिकरणात्यन्ताभावप्रतियोगित्वं चापरत्वम् । अत्र चात्यन्ताभावप्रतियोगित्वं सत्त्वादिसाधारणम् अत उक्तं सामान्यसमानाधिकरणेति । एवं जलत्वाद्यपि पृथिवीत्वादिव्याप्यं स्यात् । अत उक्तं समानाधिकरणेति । व्याप्यत्वाभिमतस्य समानाधिकरणं सामान्यं सत्ता, तत्समानाधिकरणात्यन्ताभावप्रतियोगि, व्याप्यमित्यर्थः । यद्वाऽऽकाशादावतिव्याप्तिवारणाय समानाधिकरणेति । व्याप्यत्वाभिमतसमानाधिकरणेत्यर्थः । आकाशस्य चावृत्तेः समानाधिकरणं नास्त्येव सामान्यस्य । यत्सामान्यं यत्सामान्यसमानाधिकरणं सद्यदत्यन्ताभावसमानाधिकरणं तत्तस्यापरमिति वेति न किञ्चिदनुपपन्नम् । क्रमेणोभयमुदाहरति तत्रेति । सत्तासामान्यं परमिति व्यवहर्तव्यमित्यर्थः । अतो न व्यापकत्वे साध्ये प्रचुराश्रयत्वहेतुः साध्याविशिष्ट इति भावः । सत्तायाः परत्वे हतेमाह प्रचुरेति । द्रव्यत्वापेक्षयाऽधिकाश्रयत्वादित्यर्थः । अपरं द्रव्यत्वादीत्यादिपदेन गुणत्वादेः परिग्रहः ॥ अनुवृत्तिमात्रहेतुत्वेनेति । परस्परविशिष्टेषु द्रव्यगुणकर्मसु, अविशिष्टस्वसम्बन्धात्स्वरूपानुवृत्तिप्रत्ययमात्रहेतुत्वेनेत्यर्थः । मात्रशब्देन स्वाश्रये इतरव्यावृत्ति(बुद्धि)हेतुत्वव्यावृत्तिः । यद्यपि, अत्र सत्ताया अप्यभावात्स्वाश्रये व्यावृत्तिबोधकत्वमस्त्येवेत्यनुवृत्तिप्रत्ययमात्रहेतुत्वं न युक्तम् । न च भावाद्य्वावृत्त्यबोधकत्वं विवक्षितम् । सामान्यादावौपपत्तिकसत्ताव्यतिरेकनिश्चये ततोऽपि व्यावृत्तिधीहेतुत्वात् । तथाऽपि जातिमद्य्वक्तिप्रतियोगिकव्यावृत्त्यबोधकत्वेन सत्ता सामान्यमेव न विशेष इत्यत्र तात्पर्याददोष इति ध्येयम् ॥
व्यावृत्तेरपीति । अनुवृत्तिसमुच्चयार्थोऽत्रापिशब्दः । तत्र द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यं, जातिमद्भ्यो गुणकर्मभ्यो व्यावृत्तिप्रत्ययहेतुत्वाच्च विशेषः । गुणत्वमपि परस्परविशिष्टेषु रूपरसादिष्वनुवृत्तिवृत्तिप्रत्ययहेतुत्वात्सामान्यं, जातिमद्भ्यो द्रव्यकर्मभ्यो व्यावृत्तिबोधकत्वाच्च विशेषः । कर्मत्वमपि परस्परविशिष्टेषूत्क्षेपणादिष्वनुवृत्तिप्रत्ययहेतुत्वात्सामान्यं, जातिमद्भ्यो द्रव्यगुणेभ्यो व्यावृत्तिबोधकत्वाच्च विशेष इति भावः ॥ तेऽन्त्या इति । अनेनान्ते भवा अन्त्या इति निर्वचनं सूचितम् । ननु द्रव्यादिव्यावर्तकाभावेऽपि ये व्यावर्तका भवन्ति तेषां व्यावृत्तिहेतुत्वाद् विशेषत्ववद् अनुवृत्तिप्रत्ययहेतुत्वात्सामान्यरूपताऽपि स्यात् तत्कथं केवलविशेषत्वमित्यतो भवेदेवं यद्यनुवृत्तिप्रत्ययहेतुताऽपि स्यान्न चैतदस्तीत्याशयेनाह अत्यन्तेति । व्यावृत्तिबुद्धिमात्रहेतव इत्यर्थः । अव्यावर्तकत्वादित्युपलक्षणम् । परस्परविशिष्टेष्वपि पिण्डेषु दण्डी दण्डीत्यनुवृत्तिप्रत्ययहेतुत्वादित्यपि द्रष्टव्यम् ।
**परिमल **
मूलं योजयति तत्र सामान्यमिति । उक्तपदार्थेषु मध्य इत्यर्थः । अर्थाल्लब्धमर्थमाह अकार्यं चेति ॥ विशिष्यत इति । व्यावर्त्यत इत्यर्थः । विपूर्वात् ‘शिष्’ इति धातोः । अकर्तरि च कारके संज्ञायामिति करणे घञ्प्रत्यये पुगन्तेति गुणे विशेष इति सिद्धेरिति भावः । द्रव्यादेर्विशेषत्वं व्यनक्ति द्रव्यं च दण्डादिकमिति ॥ अदण्ड््यादिभ्य इति । दण्डहीनादिभ्य इत्यर्थः ॥ द्रव्यमिति । व्यावर्तयतीत्यनुषङ्गः ॥ मूर्तमिति । वृक्षादेर्मूर्तं व्यावर्तयतीत्यर्थः । सामान्य(स्य)विशेषत्वं विभागपूर्वं व्यनक्ति सामान्यं द्विविधमिति ॥ परमपरमिति । मुख्यममुख्यमित्यर्थः । अनुवृत्तीति । घटः सन् पटः सन्निति अनुगतबुद्धिमात्रहेतुत्वेन सामान्यमात्रत्वेऽपीत्यर्थः । अपीत्यङ्गीकारवादः । सामान्यादित्रय व्यावृत्तिहेतुत्वस्यापि सत्त्वाद् द्रव्यगुणकर्मसु व्यावृत्तिबुध्द्यहेतुत्वात् सामान्यमात्रत्वेऽपीत्युक्तम् ।
यादुपत्यम्
अनुवृत्तिमात्रहेतुत्वेनेति । यद्यपि सत्ताऽपि स्वाश्रये स्वानधिकरणसामान्यादिव्यावृत्तिहेतुरपि भवतीतीदमनुपपन्नं तथाऽपि अपरसामान्यवन्न सत्ताया जातिमद्य्वावृत्तिहेतुत्वमित्यभिप्रेत्येदमुक्तमित्याहुः ॥ तेऽन्त्या इति । अनेनान्ते भवा अन्त्या इति निर्वचनं सूचितमिति ज्ञातव्यम् । ननु ये द्रव्यादिव्यावर्तकाभावेऽपि व्यावर्तका भवन्ति तेषामनुवृत्तिहेतुत्वे सामान्यरूपताऽपि स्यान्न केवलविशेषत्वमत आह अत्यन्तेति ॥ अव्यावर्तकत्वादिति । तथा च दण्डादिकमनुवृत्तिहेतुरपि भवतीति भावः ।
**वाक्यार्थरत्नमाला **
किरणावल्यनुसारेणाह । परं व्यापकमित्यादि । तद्वर्धमानानुसारेण परलक्षणनिष्कर्षमाह । यत्सामान्यमिति । वर्धमानेन्द्वनुसारेण कृत्यं पदानामाह । अत्रेति । किरणावली रुचिदत्तानुसारेणाह । जातिपरेति । वर्धमानानुसारेणापरलक्षणनिष्कर्षमाह । समानाधिकरणेति । वर्धमानीयपुरुषोत्तम्यनुसारेण पदकृत्यमाह । अत्र चेति । सामान्यसमानाधिकरणेतीति । सामान्यवति सर्वत्र सत्तायाः सत्वेन सत्तात्यन्ताभावस्य सामान्यसमानाधिकरणत्वाभावादित्याशयः । एवमिति । जलत्वस्य पृथिवीत्वरूपसामान्य समानाधिकरणजलत्वात्यन्ताभावप्रतियोगित्वात् । अतिप्रसङ्गस्तन्निरासाय समानाधिकरणेत्युक्तम् । ततश्च पृथिवीत्वसामान्यस्य जलत्वसामानाधिकरण्याभावे न तादृशसामान्यसमानाधिकरणत्वं जलत्वात्यन्ताभावस्य नास्तीति न तत्प्रतियोगित्वरूपमपरत्वमापद्यत इति भावः । व्याप्यत्वाभिमतस्येति । व्याप्यत्वाभिमतस्य यत्सामान्यं समानाधिकरणं तत्समानाधिकरणात्यन्ताभाव प्रतियोगियत्तद्-व्याप्यमित्यर्थः ।
आकाशस्य चेति । सामान्यस्य समानाधिकरणं नास्त्येव । कुत आकाशस्यावृत्तेर् वृत्यभावात् । सामानाधिकरण्यं नास्त्येवेति तु पाठः स्वरसः । पुरुषोत्तम्यां तथैवोक्तेः । यत्सामान्यमिति । अत्र यत्सामान्यं यत्सामान्यसमानाधिकरणमित्येवोक्ते सत्तायां पृथिवीत्वादि सामानाधिकरण्यवत्यां प्रसङ्गस्तन्निवृत्यर्थं तदत्यन्ताभावासमानाधिकरणेति । सत्तायाश्च पृथिवीत्वात्यन्ताभावसमानाधिकरणत्वेन तदसामानाधिकरणत्वाभावान्न प्रसङ्गः । यद्यदत्यन्ताभावा समानाधिकरणं तत्तद्-व्याप्यमित्युक्तौ गगनस्यावृत्तेः सामानाधिकरण्याभावेन तत्रातिप्रसङ्गस्तन्निवृत्तये यत्सामान्य सामानाधिकरणमिति । तस्य चावृत्तेर्नकेनापि सामानाधिकरण्यमिति न दोषः । सामान्यपदं स्पष्टार्थम् । यद्वा सामान्यपदं जातिपरम् । ततश्च प्रमेयत्वाभिधेयत्वादिष्वतिव्याप्तिः । तेषामत्यन्ताभावस्यैवाप्रसिध्या तदसामानाधिकरण्याभावादिति निरस्तम् । अस्य जातिव्याप्यत्वनिर्वचनत्वात् । अत एव न द्रव्यत्ववत्वव्यावृत्तेः । एवमेव पूर्वलक्षणे द्रव्यत्वस्य गन्धवत्वादिरूपसामान्यसमानाधिकरणत्वे सति तदत्यन्ताभावसमानाधिकरणत्वस्यापि सत्वेन गन्धवत्वव्यापकत्वप्रसङ्गस् तन्निवृत्यै सामान्यसमानाधिकरणमित्यत्र सामान्यपदं जातिपरं बोध्यम् । तत्र परं सत्ता सामान्यमिति व्यवहर्तव्यमिति किरणावल्यनुसारेणाह । व्यवहर्तव्यमित्यर्थ इति । सामान्यपदार्थीयप्रशस्तदेवाचार्योक्तयनुसारेणाह । परस्परेति । वर्धमानानुसारेण शङ्कते यद्यप्यत्रेति । अभावाद्या स्वाश्रये व्यावृत्तिरिति योज्यम् । औपपत्तिकेति । निःसामान्यत्वरूपयुक्तिसम्पादितः सत्ताविरह इत्यर्थः । अपि समुच्चये । अनुवृत्तेर्हेतुत्वादित्यादिकिरणावल्यनुसारेणाह । अनुवृत्तीति । सामान्यपदार्थीयप्रशस्तदेवाचार्योक्तयनुसारेण सामान्यत्वविशेषत्वविवेकमाह । तत्र द्रव्यत्वमिति ।