सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
कार्याकार्यविभागः
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम्
सुधा
समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् । समवयिकारणतत्समवायिकारणयोरन्यतर समवेतत्वं समवायिकारणप्रत्यासन्नत्वम् । सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति । तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्त्या वक्तुं शक्वम् । प्रतिकार्यं पृथक्त्वात् । अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कार्यज्ञानसापेक्षत्वात्कार्याकार्य विभागं तावदाह सामान्येति ।
अनुव्याख्यानम्
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ॥
नित्यं क्रिया अनित्याश्च गुणद्रव्ये द्विरूपके ॥
कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्त्या कार्याकार्यविभाग एव सिध्यति ।
शेषवाक्यार्थचन्द्रिका
ननु ‘सामान्ये’त्याद्युत्तरवाक्यमनर्थकम् । न च कार्याकार्यविभागप्रतिपादनार्थत्वान्न तदिति वाच्यम् । तत्प्रतिपादनस्याप्यनर्थकत्वात् । न च ‘कार्ये गुणक्रियाणामि’त्यादिना विविच्य वक्ष्यमाणासमवायिकारणोदाहरणज्ञानोपयोगित्वान्न तदानर्थक्यमिति वाच्यम् । समवायिकारणवद् एकोक्त्यैव तस्य वक्तुं शक्यत्वेन विविच्य तद्वचनस्याप्यनर्थकत्वादित्यतः समवायिकारणवत्साधारण्येन तस्योपदर्शयितुमशक्यत्वेन विविच्यैव तदुपदर्शनस्यावश्यकतया तदपेक्षितकार्याकार्यविभागज्ञानोपयोगित्वान्न तत्कथनस्य वैयर्थ्यमिति भावेन तत्परतयोत्तरवाक्यं योजयितुं तदुपयोगितयाऽसमवायिकारणलक्षणं तावदाह समवायिकारणप्रत्यासन्नमिति । अत्र विशेष्यमात्रं समवायिकारणे गतमिति विशेषणभागः । तन्मात्रं च तन्तुत्वादौ गतमिति विशेष्यभागः । तदर्थश्च कारणत्वमात्रं न तु निश्चितकारणत्वम् । तन्तुत्वादावपि भ्रमरूपकारणत्वनिश्चयसम्भवेनातिव्याप्त्यापातात् । न च निश्चयपदं प्रमापरम् । तस्यापि व्यर्थत्वात् । कारणत्वमात्रार्थत्वेऽप्यतिव्याप्त्यभावात् । यदत्राधिकं वक्तव्यं तदेतन्निराकरणावसर एव वक्ष्यते ।
ननु समवायिकारणप्रत्यासन्नत्वं न तावत्साक्षात्समवायिकारणप्रत्यासन्नत्वं युक्तम् । तन्तुसंयोगादौ तत्सत्त्वेऽपि तस्य तन्तुरूपादावभावेनाव्याप्तिप्रसङ्गात् । नापि समवायिकारणसमवायिकारणप्रत्यासन्नत्वम् । तन्तुरूपादौ तत्सत्त्वेऽपि तन्तुसंयोगादावसत्त्वेनोक्तदोषात् । नाप्युभयम् । कुत्राप्यसत्त्वेनासम्भवप्रसङ्गादित्यत आह समवायिकारणेति । एवमसमवायिकारणलक्षणमुक्त्वा तस्य विविच्योदाहर्तव्यतामुपपादयितुमेकोक्त्या तत्प्रदर्शनासम्भवमुपपादयति तच्चेति । तर्हि कार्याकार्यविभाग एव वक्तव्यो न तु नित्यानित्यविभाग इत्यस्तदुक्त्या तस्यैव सिद्धेर्नानुपपत्तिरित्यभिप्रेत्य तदुक्त्या तल्लाभ मुपपादयति कार्यत्वेति ॥ समनियमादिति । यद्यपि कार्यत्ववति ध्वंसे अनित्यत्वविरहादनित्यत्ववति च प्रागभावे कार्यत्वविरहान्न कार्यत्वानित्यत्वयोः समनियमस् तथाऽपि प्रागभावोपलक्षितसत्तायोगित्वं कार्यत्वं स्वप्रच्युत्युपलक्षितसत्तायोगित्वं विनाशित्वमित्यभिप्रेत्य समनियमकथनमित्यवधेयम् ।
**परिमल **
एवं तर्हि तत्त्रयमकार्यमिति वक्तव्ये नित्यमिति कथमुक्तमित्यत आह कार्यत्वानित्यत्वयोरिति ।
**वाक्यार्थरत्नमाला **
प्रतिपादनार्थत्वादिति । उत्तरवाक्यस्येति विभक्तिपरिणामेन वर्तते । मुरारिभट्यनुसारेणासमवायिकारणलक्षणपदकत्यकथनं ज्ञानादीनाम् इच्छादीन्प्रत्यसमवायित्वादिप्रसङ्गेनैतल्लक्षणदोषशङ्काया आत्मवृत्तित्वविशेषणादिनापरिहारादिविचारो न प्रवर्तयितुं शक्यः । मूल एव तल्लक्षणस्य यथाश्रुतस्याग्रेऽपि दूषणादधिकविवक्षादेश्च मूले तट्टीकायां चोत्तरत्र स्पष्टत्वात् । ततो न तद्विचारोऽत्र क्रियते किं तु उत्तरत्रैव द्रष्टव्य इत्याह । यदत्राधिकमिति । सत्वेऽपि तस्येत्यत्र तस्य सत्वेऽपीति पूर्वेणापि सम्बन्धः । प्रागभावोपलक्षितेत्यादिध्वंसस्य प्रागभावप्रतियोगित्वेऽपि प्रागभावस्य च स्वप्रच्युतिमत्वेऽपि तत्तदुपलक्षितसत्ताया अत्राभावात् । कृतकत्वानित्यत्वयोः सत्तानुप्रवेशस्य परैरङ्गीकारादिति भावः । एतच्च जिज्ञासाधिकरणीयवाक्यार्थचन्द्रिकोक्तरीत्या तदुपपादनानुसारेण चोपपादनीयम् ।