०१ वैशेषिकमतानुवादः

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

॥ अथ वैशेषिकाधिकरणम् ॥

वैशेषिकमतानुवादः

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ

सुधा

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते । ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव । तत्कथं तन्निरासायाधिकरणारम्भ इत्याशङ्क्य यद्यपीश्वरं स्वरूपेणाङ्गीकुर्वन्ति तथाऽपि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव । तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्त इत्यतो युक्तस्तनिनरासायाधिकरणारम्भ इत्याशयवांस्तन्मतमुपन्यस्यति नित्येति ।

अनुव्याख्यानम्

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥

नित्यज्ञानप्रयत्नेच्छं संख्याद्यैरपि पञ्चभिः ॥

युक्तमीशं वदन्तोऽन्ये…. …….

ईशं वदन्तोऽन्ये इत्याहुरिति वक्ष्यमाणेनान्वयः । नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः । सङ्ख्याद्यैः सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागैः । सावधारणं चैतत् । एवमष्टगुणकमेव वदन्त इति । नित्यद्रव्याश्रितान्येकत्वैकपृथक्त्वपरिमाणानि नित्यान्येव द्वित्वद्विपृथक्त्वादीनि संयोगविभागौ च सर्वत्रानित्या एवेति सिद्धत्वात्संख्यादौ विद्यमानोऽपि नित्यानित्यत्वविभागो नाभिहितः । ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।

यद्यपि केचिदीश्वरं षड्गुणमाचक्षते । तथाऽपि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् । एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।

यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् । तथा हि । जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणैर्युक्ताः । तत्र नित्ययथार्थज्ञानस्य मोहाभावात्तत्प्रभवस्य द्वेषस्याभावः । तदभावे तन्मूलयोर्घर्माधर्मयोरभावः । इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम् । धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव । नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावाद्भावनाया अप्यभाव इति ।

अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।

शेषवाक्यार्थचन्द्रिका

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ अधिकरणप्रतिपाद्यानुक्त्या मूले न्यूनतामाशङ्क्य भाष्य एवोक्तत्वात्पृथक् तदनुक्तिर्न दोषायेत्यभिप्रेत्य परमाण्वारम्भवादमपाकरोतीति भाष्यं मनसि निधायैतदधिकरणप्रतिपाद्यमाह अत्रेति । ननु ‘नित्यज्ञानप्रयत्नेच्छमि’ति वैशेषिकमतोपन्यासोऽनर्थकः । न च निराकर्तव्यताप्रयोजक विप्रतिपत्तिविषयार्थ प्रदर्शनेनानिराकर्तव्यताशङ्कानिरासार्थत्वान्न तदानर्थक्यमिति वाच्यम् । प्रसञ्जकाभावेनानिराकर्तव्यताशङ्काया एवानुत्थानात् तन्निरासार्थक विप्रतिपत्तिविषयार्थ प्रदर्शनस्याप्यनर्थकत्वादित्यतः प्रसञ्जकसद्भावेनानिराकर्तव्यताशङ्कायाः सुलभत्वात्तन्निरासाय विप्रतिपत्तिविषयार्थप्रदर्शनपरपरमतोपन्यासस्य नानर्थक्यमिति भावेन तत्परतयोत्तरग्रन्थं योजयितुं प्रसञ्जककथनपूर्वकमनिराकर्तव्यताशङ्कां तावदुत्थापयति नन्विति ॥ सुखादिष्विति । आदिपदेन रूपरसगन्धस्पर्शानां सङ्ग्रहः । सृष्टिप्रलयादिविधिमित्यत्रादि पदेनात्यन्तासत एव जनिरिति जनिविधेः सर्वस्य भावकार्यस्य कारणत्रितयजन्यत्वविधेश्च परिग्रहः ॥

अन्यथेति । ‘प्रकृतेर्महान्महतोऽहङ्कारात्क्रमेणाकाशादीनि महाभूतानी’त्यादि श्रुत्यादिसिद्धप्रक्रियापेक्षयाऽन्यथेत्यर्थः । नित्यत्वस्य ज्ञानादिवत्पृथगीश्वरविशेषणत्वस्य सन्निधानाज्ज्ञानमात्रविशेषणत्वस्य च भ्रान्तिं निवारयति नित्या इत्यादिना । ज्ञानप्रयत्नेच्छासङ्ख्यापरिमाणपृथक्त्वसंयोगविभागवत्ताया ईश्वरस्य वेदवादेऽपि सत्त्वान्नेदं वैषम्यकथनं युक्तमित्यत आह सावधारणं चैतदिति । तदेव स्पष्टयति एवमिति । ननु चेश्वरज्ञानादीनामिव ईश्वरैकत्वादीनामपि नित्यत्वात्तद्गतद्वित्वादीनां चानित्यत्वात्सङ्ख्यादिषु विद्यमानं नित्यत्वानित्यत्वविभागमनभिधाय ज्ञानादीनामेव नित्यत्वाभिधानं निर्निबन्धनमित्यतस्तदनभिधाने निमित्तं वदन्नेव ज्ञानादिषु नित्यत्वाभिधाने निमित्तमाह नित्यद्रव्येति । सिद्धत्वादीश्वरादन्यत्रापीति शेषः ॥ सङ्ख्यादाविति । ईश्वरगतसङ्ख्यादावित्यर्थः ॥ अत्रेति । ईश्वरगतज्ञानादिष्वित्यर्थः ।

अष्टगुणत्वस्येव षड्गुणत्वस्यापि वैशेषिकादिभिरभ्युपगमादष्टगुणत्वमात्रोपन्यासो निर्निबन्धन इत्यतस्तदनुपन्यासं समर्थयते यद्यपीति ॥ षड्गुणमिति । सङ्ख्यादयः पञ्च प्रयत्नश्चेत्येवं षड्गुणमित्यर्थः । प्रयत्नस्य नित्यत्वेनोत्पत्त्यर्थं ज्ञानाद्यनपेक्षणाज्ज्ञानवत्कृतेरपि स्वत एव विषयप्रवणत्वेन विषयप्रत्यासत्त्यर्थमपि तदनपेक्षणान्न ज्ञानेच्छाभ्यां कृत्यमिति भावः ॥ एवमिति । षड्गुणत्ववज्ज्ञानानित्यत्वस्यापि परमतत्वाभावादित्यर्थः ॥ नित्यज्ञानत्वादेवेति । स्मरणस्यानुभवनाशे सति तज्जन्यसंस्कारमात्रेणोत्पत्तेर्नित्यज्ञानस्य स्मृत्यसम्भव इति भावः ॥ अखण्डत्वमिति । निर्विशेषत्वमित्यर्थः । तथा च ‘यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिता’ इत्यादिनोत्तरत्र विप्रतिपन्नतया निरसनीयस्य वैशेषिका द्यभ्युपगतनिर्विशेषत्वरूपतज्ज्ञानाद्यखण्डत्वस्योपन्यासार्थं भाष्ये नित्यग्रहणमिति भावः ॥ नित्यत्वेनेति । पूर्वं विद्यमानस्य ज्ञानस्य नाश एव ज्ञानान्तरं कल्प्यं न तु तदनाशे । अतो नित्यत्वमखण्डत्वसूचकमिति भावः ॥ अखण्डत्वमिति । निर्भेदत्वमित्यर्थः । एकत्वमिति यावत् । अनीश्वरात्मज्ञानादीनामिव नानेकत्वमिति ज्ञातव्यमित्यप्याहुः ।

**परिमल **

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्यां ॐ ॥ परमाण्वारम्भवादिनाम् परमाणुसमवायिकारणकार्यवादिनां वैशेषिकनैयायिकानामित्यर्थः । एतच्च ‘ईशं वदन्तोन्ये’ इति मूलोक्त्युपयोग्यपि शङ्कोत्थापनाद्यर्थमुक्तम् । ननु नित्यज्ञानेति ज्ञानादिगतनित्यत्वोक्तिवत्संख्यादिगतनित्यत्वाद्युक्ति कुतोनेत्यत आह नित्यद्रव्येति ॥ एकपृथक्त्वेति । अयमस्मात्पृथगित्येवंरूपम् एकपृथक्त्वमित्यर्थः । ईशघटौ पृथगिति द्वित्वसमानाधिकरणं द्विपृथक्त्वं, आदिपदेनेशघटपटाः पृथगिति त्रित्वसमानाधिकरणत्रिपृथक्त्वग्रहः ॥ सर्वत्रेति । नित्यद्रव्येऽनित्यद्रव्ये चेत्यर्थः । ईशादौ नित्येऽपि घटादिनिरूपितद्वित्वादेरनित्यत्वात् ॥ नाभिहित इति । किन्तु सङ्ख्याद्यैरित्येवोक्तमित्यर्थः । तर्हि ज्ञानादौ नित्यत्वोक्तिः कुत इत्यत आह ज्ञानादीनांत्विति ॥ षड्गुणमिति । ज्ञानेच्छे विना तदन्यषड्गुणमित्यर्थः ॥ आत्रेयस्येति । आत्रेयनामकेनाङ्गीकृतमीशज्ञानानित्यत्वमपि अमुख्यमतत्वान्नोपन्यस्तमित्यर्थः ॥ यथार्थज्ञानेति । दोषाजन्यत्वादिति भावः ॥ ज्ञानादीनामखण्डत्वमिति । तद्गुणसंविज्ञाने सति ज्ञानेच्छाप्रयत्नानां त्रित्वाज्ज्ञानादीनामिति बहुवचनोपपत्तिः । देशकालव्यवहितनानाविषयभेदेऽपि तत्तद्विषयकज्ञानादेर्जीवात्मज्ञानादेरिव भिन्नत्वाभावोऽखण्डत्वमित्यर्थः, यद्वा अस्मन्मते यथा ज्ञानेऽभूत्वाभावित्वादिविशेषः । इच्छायां सिसृक्षुत्वादिविशेषः, कृतौ शक्तिव्यक्त्यादिविशेषः, न तथा तन्मते विशेष इति निर्विशेषत्वमखण्डत्वमित्यर्थः ।

यादुपत्यम्

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ सङ्ख्यादाविति । ईश्वरगतसङ्ख्यादावित्यर्थः ॥ षड्गुणमिति । सङ्ख्यादिपञ्चकं प्रयत्नं चेश्वरस्याचक्षत इत्यर्थः । प्रयत्नस्य नित्यत्वेन तदुत्पत्त्यर्थं ज्ञानेच्छयोरनपेक्षणात् । ज्ञानवत्कृतेरपि स्वत एव विषयप्रत्यासत्तिसम्भवेन कृतेर्विषयप्रत्यासत्त्यर्थमपि तदनपेक्षणादिति तेषां भावः ॥ नित्यत्वेनेति । पूर्वं विद्यमानस्य ज्ञानस्य नाश एव ज्ञानान्तरं कल्पनीयं न तु तदनाशे । अतो नित्यत्वमखण्डत्वसूचकमिति ध्येयम् ॥ अखण्डत्व मिति । निर्भेदत्वमित्यर्थः । एकत्वमिति यावत् । अनीश्वरात्मज्ञानादीनामिव नानेकत्वमिति ज्ञातव्यम् ॥

**श्रीनिवासतीर्थीया **

ॐ महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॐ ॥ एवमात्रेयस्येति । परममतत्वाभावादित्यर्थः । तन्मूलयोर् द्वेषमूलयोः । धर्मे द्वेषेणाधर्मकरणादधर्मे द्वेषेण धर्मकरणाद्धर्माधर्मयोर्द्वेषमूलकत्वम् । नन्वथाऽपीच्छाया रागरूपायाः सत्त्वात्तन्मूलकौ धर्माधर्मौ स्यातामेवेत्यथ आह इच्छाया अपीति । ईश्वरे विद्यमानाया अपीति शेषः ।

**वाक्यार्थरत्नमाला **

महद् दीर्घवद्वाह्रस्वपरिमण्डलाभ्याम् ॥ भाष्य एवेति । अधिकरणप्रतिपाद्यस्येति बुध्याविवेकेनवर्तते । आहेत्यत्र स्वयमिति शेषः । तन्निरासायेति । तन्निरासाय यः परमतोपन्यासस्तस्येति योजना । ज्ञानप्रयत्नेति । ईश्वरस्य ज्ञानेति योज्यम् । आदिपदेन रूपरसगन्धस्पर्शाभ्यानां सङ्ग्रह इति । यद्यपि संस्कारादिगुणा अप्यन्यैरङ्गीकृतास्तथापि तेषां सिद्धान्ते अप्यङ्गीकारेण विप्रतिपत्यविषयताया तत्सङ्ग्रहानुक्तिरिति ज्ञेयम् । विधेश्च परिग्रह इति । तत्परिकल्पितविध्यन्तरन्तु सृष्टिप्रलयविध्योरन्तर्भवतीति हृदयम् । पाकजप्रक्रियां चाप्रामाणिकीमङ्गीकुर्वन्तीति वक्ष्यमाणमूलोक्तस्य विधेरुपलक्षणं चैतदिति ज्ञेयम् । षड्गुणत्वमतं पूर्वपादे गतप्रयोजनवत्वाधिकरणे उपपादितम् । ज्ञानानित्यत्वमतं संस्कारमात्रेणोत्पत्तिरिति । उक्तमूलविधसंस्कारैककारणकत्वादित्यर्थः । तस्य चेश्वरेऽभावादिति शेषः ।