०४ सर्वैर् हरिरङ्गीकार्यतमः

तस्माच्च्छतिप्रमाणेन युक्तिभिश्च परो हरिः

सर्वैर् हरिरङ्गीकार्यतमः

तस्माच्च्छतिप्रमाणेन युक्तिभिश्च परो हरिः

सुधा

किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आह तस्मादिति ।

अनुव्याख्यानम्

तस्माच्च्छतिप्रमाणेन युक्तिभिश्च परो हरिः ॥

अङ्गीकार्यतमो नित्यः सर्वैरपि सुनिश्चितम् ॥ २२५ ॥

न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेनेत्याद्युक्तम् । पर उत्कृष्ट उक्तविशेषणोपपन्नः । नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम् । सर्वदेति यावत् । निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात्प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात्सुनिश्चितमित्युक्तम् । प्रथमाध्यायव्युत्पादितेन स्वपक्षसाधनेनात्र व्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः । नन्वेवं तर्हि उत्तराधिकरणानामनारम्भ एव । निराकरिण्यमाणैरप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् । सत्यम् । तथाऽपि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादयितुमुत्तरो ग्रन्थः ॥ २२५ ॥

शेषवाक्यार्थचन्द्रिका

तस्मादित्युत्तरभाष्यानतर्थक्यमाशङ्क्य स्वपक्षसिद्धिरूपपरपक्षोपालम्भफलप्रदर्शनार्थत्वान्न तदिति भावेन तत्फलोपदर्शकतया तद्योजयितुं परपक्षोपालम्भफलाकाङ्क्षामुत्थापयति किमत इति । ननु तस्मात्परपक्षस्य निरस्तत्वात्परो हरिरङ्गीकार्यतम इत्येतावतैव परपक्षनिरासस्य स्वपक्षसिद्धिरूपफलोक्तेः ‘श्रुतिप्रमाणेने’त्यादेरानर्थक्यमित्यतः स्वपक्षसाधकप्रमाणोपन्यासार्थत्वात्तस्य न तदिति भावेन स्वपक्षसाधकोपन्यासस्यावश्यकतामुपदर्शयति न परपक्षेति ॥ सामर्थ्यादिति । योग्यत्वादित्यर्थः । नित्यत्वस्याङ्गीकारविषयविशेषणताया वैयर्थ्यप्रसङ्गेनायोग्यत्वादिति भावः ॥ २२५ ॥

**परिमल **

श्रुतिप्रमाणेनेत्याद्युक्तमिति । पूर्वाध्यायोक्तश्रुतियुक्तिभिरित्यग्रे व्यक्तम् । पर इत्यस्यार्थान्तरम् उक्तविशेषणोपपन्न इति । विलक्षणार्थत्वात्तस्येति भावः ॥ सामर्थ्यादिति । तद्विशेषणत्वयोग्यतावशादित्यर्थः । सुनिश्चितमिति क्रियाविशेषणम् । तत्र निश्चयस्य सुष्टुत्वं व्यनक्ति निश्चयस्येति ॥ यथालक्षितमिति । जगज्जन्मादिकारणत्वादिलक्षणवत्तयोक्तमित्यर्थः ॥ २२५ ॥

यादुपत्यं

सामर्थ्यादिति । अर्थाबाधरूपयोग्यताबलादित्यर्थः । नित्यत्वस्याङ्गीकारविषयविशेषणत्वं वैयर्थ्यप्रसङ्गेन बाधितमिति भावः ॥ २२५ ॥

**वाक्यार्थरत्नमाला **

अङ्गीकारस्य विशेषणमिति मूलम् । अङ्गीकाररूपक्रियाविशेषणमित्यर्थः । त्वमग्रे प्रथमो मातरिश्वन इत्यत्र प्रथम इति प्रथमान्तस्य भाष्यटीकोक्ताविर्भावरूपक्रियाविशेषणत्ववदिदं व्युप्ताद्यम् । इत्येशेषमितिमङ्गलम् ॥

॥ इति अन्यथानुमित्यधिकरणम् ॥