०१ प्रकृत्युपसर्जनपुरुषकर्तृत्ववादापाकरणम्

ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ

॥ अथ अन्यथानुमित्यधिकरणम् ॥

प्रकृत्युपसर्जनपुरुषकर्तृत्ववादापाकरणम्

ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ

सुधा

ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्ख्यैकदेशिनां मतमत्र निराक्रियते । तथा हि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य चोपसर्जनत्वमनुभवसिद्धमित्युक्तम् । तथा च तद्धृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते । पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः । सुषुप्त्यादौ च कर्तृत्वानुपलम्भात्प्रकृतिरुपसर्जनभूताऽङ्गीकरणीया । एवञ्च किमीश्वरेणेति ।

शेषवाक्यार्थचन्द्रिका

ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ ‘अङ्गित्वं यदी’त्युत्तरभाष्यस्यान्यथाऽनुमितावित्यधिकरणव्याख्यानार्थत्वान्नानर्थक्यमित्यभिप्रेत्य तथाऽपि प्रतिपाद्यानुक्तिदोष इत्यतो भाष्य एव स्पष्टं तदुक्तेरत्रानुक्तिर्न दोषायेत्याशयवान्प्रकृत्युपसर्जनपुरुषकर्तृत्ववादमपाकरोतीति भाष्यं मनसि निधायैतदधिकरणप्रतिपाद्यमाह प्रकृतीति । ननु पूर्वन्यायेनैतदपि निराकृतमिति नार्थोऽधिकरणेनेत्यतः पूर्वोक्तस्याङ्गित्वानुपपत्तिदोषोद्धारेण पूर्वपक्षप्रवृत्तेर्न गतार्थत्वमिति भावेनाभ्यधिकाशङ्कया पूर्वपक्षमाह तथा हीति ॥ चेतनत्वेन न कर्तृत्वानुपपत्तिरिति । जीवस्य चेतनत्वेन बुद्धिमतस्तत्कार्यप्रयत्नरूपप्रवृत्तिसम्भवादिति भावः । ननु च पुरुषमात्रस्यैव कर्तृत्वोपपत्तौ किं प्रकृत्युपसर्जनस्य पुरुषस्य कर्तृत्वकल्पनयेत्यत आह सुषुप्त्यादौ चेति । आदिपदेन प्रलयादिपरिग्रहः ॥ प्रकृतिरुपसर्जनभूतेति । इन्द्रियादिरूपा प्रकृतिरुपसर्जनभूतेत्यर्थः । सुषुप्त्यादौ च सोपरतेति न कर्तृत्वापादिकेति भावः ।

**परिमल **

ॐ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॐ । अपौनरुक्त्याय सङ्गतिसूचनाय चास्यार्थमाह प्रकृतीति ॥ अनुमीयत इति । महदादिकं जडोपसर्जनकपुरुषकर्तृकं कार्यत्वादश्मानयनादिवद् इत्यनुमीयत इत्यर्थः । न केवलं पूर्वत्रेव साध्यवैकल्यादिदृष्टान्तदोषोऽत्र नेति; प्रतिज्ञाव्याहतिरूपदोषोऽपि नेत्याह पुरुषस्य चेति । हेतोरप्रयोजकत्वं निराह सुषुप्त्यादाविति । मोहादिरादि पदार्थः । तदानीं प्रकृतेरुदासीनत्वादिति भावः ॥ कर्तृत्वेति । ज्ञानेच्छाप्रयत्नरूपकर्तृत्वेत्यर्थः ।

यादुपत्यम्

ॐ अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात् ॐ ॥ प्रकृतिरुपसर्जनेति । इन्द्रियरूपा प्रकृतिरुपसर्जनभूतेत्यर्थः । सुषुप्त्यादौ च सोपस्तेति न कर्तृत्वापादिकेति भावः ।

**वाक्यार्थरत्नमाला **

अन्यथानुमित्यधिकरणम् । व्याख्यानार्थत्वादिति ॥ अनेनाधिकरणान्तर इव परापव्याख्याननिरासार्थानुवादत्वं पूर्वपक्षानुवादत्त्वं वा न मन्तव्यमिति मन्दान् शिक्षयति । प्रतिपाद्येति । उक्ताधिकरणस्येति बुध्या विविच्य संयोजनीयम् । वक्ष्यति च एतदधिकरणस्येति । तर्हि सुषुप्त्यादावप्युपसर्जनीभूतप्रकृतिसद्भावात् कर्तुत्वापत्तिरित्यतो मूलाभिप्रायमाह । सुषुप्त्यादौ चेति ।