प्रत्यक्षस्यैव मानत्वमिति केनावसीयते
वेदप्रामाण्यसमर्थनम्
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते
सुधा
नन्वस्त्वात्मा देहातिरिक्तस्तथाऽप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् । वेदादिरागमोऽनुमानं चेति वदामः । तस्य प्रामाण्यमेव कुत इति चेत् । तत्राह प्रत्यक्षस्यैवेति ।
अनुव्याख्यानम्
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ॥
यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् । प्रत्यक्षेणेति चेत् । प्रत्यक्षस्य मानत्वमित्येव केनावसीयते । तथा च पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति । प्रत्यक्षज्ञानं तावत्प्रतीयते । प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम् । अतः कथमुक्तो दोषः । प्रामाण्यपरतस्त्ववादेऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरित्यत आह यदीति ।
अनुव्याख्यानम्
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥
यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकमुच्यते । तर्हि तदेव वेदप्रामाण्यविषये कथं साधकं न भवेत् । न हि वेदवाक्याज्ज्ञानं नोत्पद्यते । न च न प्रतीयते । अत्र वेदग्रहणमुपलक्षणम् । अत एवान्येति सामान्येन वक्ष्यति ।
शेषवाक्यार्थचन्द्रिका
ननु ‘प्रत्यक्षस्यैव मानत्वमि’ति प्रत्यक्षाप्रामाण्यव्युत्पादनमनर्थकम् । न चानुमानागमयोरप्रामाण्ये प्रत्यक्षस्याप्यप्रामाण्यं स्यादिति प्रतिबन्दीग्रहणरूपत्वेनास्यानुमानागम प्रामाण्यसमर्थनार्थत्वान्नानर्थक्यमिति वाच्यम् । ‘देहादन्योऽनुभवत आत्मा भाति शरीरिणामि’त्यादिना प्रत्यक्षबलेनैव देहात्मभेदस्य समर्थनेनानुमानाद्यवष्टम्भेन तदसाधनान्निर्बीजतयाऽनुमानागमाप्रामाण्य शङ्काया एवानुत्थानेन प्रतिबन्दीग्रहणत्वायोगादित्यतो ‘देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न ही’ति परोक्तनिरासाय देहात्मभेदस्येव स्वर्गापवर्गयोरपीह साध्यतया प्रस्तुतत्वात्तयोश्च प्रत्यक्षेण साधयितुमशक्यत्वादनुमानागमाभ्यामेव साधनीयत्वेन तदप्रामाण्यशङ्कोदयेत, उक्तरीत्या प्रतिबन्दीग्रहणस्योपपन्नत्वाददोष इति भावेनानुमानाद्यप्रामाण्यशङ्कानिरासपरतयोत्तरभाष्यं योजयितुं स्वर्गापवर्गयोरप्रामाणिकत्वशङ्कामुत्थापयति नन्विति ॥ किं मानमिति । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिकी दुःखनिवृत्तिः । तत्र न तावप्रत्यक्षं प्रमाणम् । परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् । स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणेक्ष्यते । नापि प्रत्यक्षादन्यत् । तत्प्रामाण्यस्यासिद्धेः । एवं तत्साधनादावपीति शङ्कितुर्गूढोऽभिसन्धिः । गूढाभिसन्धिरेवोत्तरमाह वेदादिरागम इति । ‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । तीर्णो हि तदा सर्वान् शोकान्हृदयस्य भवति’ । ‘आत्मेत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन’ इत्यादिश्रुतिस्मृत्यादिरूप इत्यर्थः ॥ अनुमानं चेति । यागादिप्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात्, कृष्यादिप्रवृत्तिवदिति स्वर्गे; अपवर्गे त्विहामुत्र फलभोगवैराग्यवतां योगिनां प्रवृत्तिः, सफला प्रेक्षावत्प्रवृत्तित्वात्सम्मतवदित्यनुमानं चेत्यर्थः । यद्यपि प्राकृतानां प्रत्यक्षं न स्वर्गमोक्षादिकं गोचरयितुं क्षमते । तथाऽपि महत्तमपुरुषप्रत्यक्षेण मोक्षादिनिश्चयो युज्यत एवेति पराभ्युपगतप्रामाण्यं प्रत्यक्षमेवात्र साधकतया वक्तुं शक्यते । यद्वक्ष्यति ‘घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा’ इत्यादि । तथा च तत्परित्यागेन शब्दानुमानयोरुपन्यासो यद्यपि न युक्तस् तथाऽपि तदीयप्रत्यक्षस्याप्यन्येषामसिद्ध्या तदवगमकतयाऽपि तद्वाक्यादेरनुसरणीयत्वेन आवश्यकत्वाद् लाघवाच्च प्रत्यक्षपरित्यागेनागमानुमाने एवोपन्यस्ते इति द्रष्टव्यम् । अर्थादीत्यादिपदेन कामस्यार्थकामसाधनस्य च परिग्रहः ।
अस्तु प्रत्यक्षस्यापि प्रामाण्यानिश्चयः किं तावताऽपीत्यत आह तथा चेति । अनीहं लौकिकालौकिकप्रवृत्तिशून्यं प्रवर्तकीभूतेष्टसाधननताज्ञानशून्यत्वादिति भावः । यदीत्युत्तरभाष्यानर्थक्यमाशङ्क्य वैषम्यशङ्कानिरासेनोक्तप्रतिबन्दीसमर्थनार्थत्वान्न तदिति भावेन तन्निरासपरतयोत्तरभाष्यं योजयितुं वैषम्यशङ्कामुत्थापयति प्रत्यक्षज्ञानमिति ॥ अतः कथमिति । प्रत्यक्षेणैवार्थकामयोस्तत्साधनानां च सिद्धिसम्भवान्नानीहत्वप्रसङ्ग इत्यर्थः । न्यायमतमाश्रित्यापि प्रामाण्यनिश्चयमुपपादयति प्रामाण्येति । आदिपदेन दोषाभावपरिग्रहः । स्वतस्त्वपक्षमनुरुध्याह ज्ञानग्राहकमिति । परतस्त्वपक्षमाश्रित्याह बाधाभावादिकं चेति । वेदप्रामाण्य इति विषयसप्तमीति भावेनाह प्रामाण्यविषय इति ॥ ज्ञानमिति । वाक्यार्थज्ञानमित्यर्थः । न हि सत्यां सामग्य्रां कार्यानुदयः । अन्यथाऽतिप्रसङ्गादिति भावः ॥ न प्रतीयत इति । प्रतीतिसामग्रीसत्त्वेन तदभावायोगादिति भावः ॥ उपलक्षणमिति । पौरुषेयागमानुमानयोरिति शेषः । वेदग्रहणस्य वेदमात्रपरत्वमेवास्तु किमितरोपलक्षणत्वाश्रयणेनेत्यत आह अत एवेति ॥ वक्ष्यतीति । ‘न चान्यामानते’त्युत्तरवाक्य इति शेषः ।
**परिमल **
मूलं सङ्गमयितुमाह यत्परेणेति ॥ अर्थादीति । अर्थकामौ । एवकारं भिन्नक्रमं मत्वा योजयति इत्येवेति ॥ अनीहम् प्रवृत्तिरूपचेष्टाहीनमित्यर्थः ॥ बाधकाभावादिनेति । संवाद आदिपदार्थः ॥ उपलक्षणमिति । अनुमानस्येति भावः ।
**श्रीनिवासतीर्थीया **
उक्तो दोष इति । तथा च तेनैव पुरुषार्थादिसिद्धिसम्भवाज्जगदनीहमापद्येत इत्युक्तदोषः कथम् इत्यर्थः ।
**वाक्यार्थरत्नमाला **
प्रतिबन्दीग्रहणत्वायोगादिति । प्रत्यक्षस्यैवेति वाक्यस्य प्रतिबन्दीग्रहणरूपत्वायोगाच्चेत्यर्थः । चशब्दयुक्तपाठस्तु स्वरस एव । प्रतिबन्दीग्रहणस्यैवायोगेन प्रतिबन्दीग्रहणरूपत्वायोगादिति भावः । वक्ष्यति च प्रतिबन्दीग्रहणस्योपपन्नत्वाददोष इतीति । इति स्वर्ग इति । अनुमानमिति वक्ष्यमाणमात्रापि सम्बध्यते । यद्यपि प्राकृतानामित्यादिः परग्रन्थः । युज्यत एवेतीति । इत्येवं प्रकारेणेत्यर्थः । प्रत्यक्षमेवात्रेति । यद्यपीति वक्ष्यमाणमात्रापि सम्बध्यते । यद्यपि वक्तुं शक्यत इति । वक्ष्यतीति । विद्यैवेत्यधिकरणीयानुभाष्य इति शेषः । तावत्प्रतीयत इति मूलम् । अन्यथा जानामीत्यनुव्यवसायो विरुध्येतेति भावः ।
न चान्यामानता क्वापि प्रमाणेनावसीयते
न चान्यामानता क्वापि प्रमाणेनावसीयते
सुधा
ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः । अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते । तत्कथं वेदादिप्रामाण्यसिद्धिः । परतस्त्वेऽपि वाधकाभावः कुत इति चेत् । सममेतत्प्रत्यक्षेऽपि । अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत् । तुल्यमेतद्वेदादावित्याह न चेति ।
अनुव्याख्यानम्
न चान्यामानता क्वापि प्रमाणेनावसीयते ॥
प्रत्यक्षादन्ययोरनुमानागमयोरमानता । क्वापि विषये ।
शेषवाक्यार्थचन्द्रिका
ननु न चान्यामानतेत्यपवादकस्यानुपलम्भबाधितत्ववर्णनमनर्थकम् । न चानुमानादेर्निरपवादत्वोपदर्शनाय तदिति वाच्यम् । तदुपदर्शनस्याप्यनर्थकत्वात् । न चागमादिजनितविज्ञाने साक्षिणो अप्रामाण्यग्राहकत्वासम्भवप्रतिपादनार्थं तदिति वाच्यम् । प्रामाण्यग्रहणस्वभावस्य साक्षिणो ऽप्रामाण्यग्राहकत्वप्रसक्तेरेवाभावेन तदसम्भवप्रदर्शनाय अपवादाभावप्रदर्शनस्यानर्थकत्वादित्यतः साक्षिणः प्रामाण्यग्राहकत्ववद् अप्रामाण्यग्राहकत्वस्यापि सत्त्वेन वेदादिजनितविज्ञाने तदग्राहकत्वप्रतिपादनाय अपवादाभावप्रतिपादनस्यार्थवत्त्वादित्यभिप्रेत्य, कथमेवं सति प्रामाण्यस्य स्वतस्त्वसिद्धान्तः कथं चाप्रामाण्यग्राहकत्वं तस्येत्यतस् तत्स्वतस्त्वनिर्वाहप्रदर्शनपूर्वकमप्रामाण्यग्राहकत्वसम्भवशङ्कामुत्थापयति नन्विति ॥ उत्सर्ग इति । न तु ज्ञानं गृह्णन्साक्षी प्रमाणतयैव तद्गृह्णातीति नियमः । तथा सति बौद्धादिवाक्यजनितज्ञानग्राहकस्य साक्षिणस्तत्प्रामाण्यग्राहकत्वप्रसङ्गात् । न चेष्टापत्तिः । तस्य वेदविरोधित्वात् । वेदविरोधिनः प्रामाण्ये च पुनर्वेदप्रामाण्यं न स्यात् । वस्तुनो द्वैरूप्यापत्तिश्चेति भावः । अस्तु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः, किं तावता प्रकृत इत्यत आह अपवादेन त्विति । प्रवृत्त्यसामर्थ्यादिरूपापवादसाहाय्येनेत्यर्थः । ज्ञानग्राहकेणेति विभक्तिविपरिणामेनानुवर्तते । अपवादग्राहकस्य साक्षिणोऽप्रामाण्यग्राहकत्वेऽपि प्रकृते तद्विरहान्न तद्ग्राहकत्वमित्यभिप्रेत्य कुतोऽत्रापवादाभाव इत्यतस्तन्नियामकोक्त्याऽपवादाभावं परमुखेनैव वाचयितुं गूढाभिसन्धिः प्रतिबन्दीमुपादत्ते सममेतत्प्रत्यक्षेऽपीति । अभिसन्धिमजानतः प्रतिबन्दीमुद्धरति अनुपलम्भादिति । सिद्धान्ती स्वाशयोद्घाटनरूपतयोत्तरभाष्यं सङ्गमयति तुल्यमिति ।
**परिमल **
न चेत्यादिमूलमवतारयति नन्वित्यादिना ।