देहादन्योऽनुभवत आत्मा भाति शरीरिणाम्
आत्मा देहादन्यः
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम्
सुधा
ननु च प्रमाणानुरोधि प्रयोजनम् । न पुनः प्रयोजनमनुरुध्या प्रामाणिकोऽप्यर्थोऽङ्गीकर्तुमुचितः । अतिप्रसङ्गात् । प्रमाणं च प्रत्यक्षमेव नान्यत् । न चैवं लोकव्यवहारोच्छेदः । सम्भावनयैव तदुपपत्तेः । संवादेन च प्रामाण्याभिमानात् । प्रत्यक्षेण च देह एवात्मोपलभ्यते । गौरोऽहं जानामीति । तथा च कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात्कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयोऽङ्गीकर्तुं शक्यत इत्यत आह देहादिति ।
अनुव्याख्यानम्
देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् ॥
मम देह इति व्यक्तं ममार्थ इति वत्सदा ॥
अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव । मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते । न चान्यताऽप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते । यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धावभास इति । नन्वेवं प्रतिभास एव नास्ति । अपि तर्हि घटस्य स्वरूपमितिवद्य्ववहारमात्रमिति चेन्न कल्पकाभावात् । विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते । न चैवं प्रकृते । कस्यचित् कदाचिदपि देहोऽहमिति प्रमाभावात् । तदिदमुक्तं शरीरिणां सदेति । अत एव प्रतिभासोऽपि भ्रमोऽस्त्विति निरस्तम् । अस्ति गौरोऽहमिति प्रमेति चेन्न । प्रतिपक्षतया बाधकत्वानुपपत्तेः ।
शेषवाक्यार्थचन्द्रिका
अतिप्रसङ्गादिति । देवदत्तपिपासानिवृत्त्यनुरोधेन मरावपि वारिसिद्धिप्रसङ्गादित्यर्थः । नन्वस्ति तावद्धूमदर्शनान्तरं वह्निव्यवहारः प्रत्यक्षसिद्धस्यापह्नवायोगात् । तथा चास्ति वह्निज्ञानम् । तच्चानुमितिरेवेत्यनुमानप्रामाण्यमावश्यकम् । तथा प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य तदर्थव्यवहारोऽपि । तथा चास्ति संसर्गज्ञानम् । तच्च शाब्दमेवेति शब्दप्रामाण्यमपीति कथं प्रत्यक्षादन्यन्न प्रमाणमित्याशयेन शङ्कते न च लोकेति ॥ सम्भावनयेति । तथा च सम्भावनाया उत्कटैककोटिकसंशयरूपत्वेनाप्रमाणत्वान्न तत्करणप्रामाण्यमित्यर्थः । ननु वह्न्यादिप्राप्त्यनन्तरं प्रमाणे नाहं प्रवृत्त इति व्यवहारोऽनुमानाद्यप्रामाण्ये न स्यादित्यत आह संवादेन चेति । प्रवृत्तिसंवादेनेत्यर्थः । मणिप्रभागोचरमणिज्ञानस्याप्रामाण्येऽपि संवादेन प्रामाण्याभिमानवदत्रापि तत्संवादेनैव प्रामाण्याभिमानः न तु प्रामाण्यात्, अन्यथाऽतिप्रसङ्गादिति भावः ॥ अनुभवत इति । आद्यादित्वात्तृतीयान्तात्तसिरिति भावेनाह प्रत्यक्षेणैवेति । कथं तर्हि मम देह इति व्यवहार इति पृच्छति अपि तर्हीति ॥ व्यवहारमात्रमिति । औपचारिको व्यवहार इत्यर्थः । कल्पकसद्भावाद्घटस्य स्वरूपमित्यस्य व्यवहारमात्रत्वेऽपि प्रकृते तदभावान्न व्यवहारमात्रत्वमाश्रयितुं शक्यमिति समाधत्ते न कल्पकाभावादिति ।
किं तत्कल्पकं यद्भावाभावाभ्यामौपचारिकत्वतदभावव्यवस्थोच्यत इत्यतस्तदाह विपरीतेति । कथं प्रकृते तदभावो येनोक्तव्यवहारस्य व्यवहारमात्रत्वानुपपत्तिः स्यादित्यतः किमत्र देहोऽहमित्याकारा विपरीतप्रमितिरभिमता, किंवा गौरोऽहमित्याकारेति विकल्पद्वयं मनसि निधायाद्यमसिद्ध्या दूषयति कस्यचिदिति ॥ तदिदमुक्तं शरीरिणां सदेतीति । सदेत्यनेन कदाचिदित्यर्थस्य, शरीरिणामिति बहुवचनेन कस्यचिदित्यर्थस्य, शरीरिणां शरीरसम्बन्धिनामिति शरीरसम्बन्धप्रतीतिसद्भावोपपादनेन देहोऽहमित्यभेदप्रमाऽभावस्य च सूचितत्वादित्यर्थः ॥ अत एवेति । देहोऽहमिति विपरीतप्रमाभावादेव मम देह इति प्रत्ययो भ्रान्तिरित्यपि प्रत्युक्तमित्यर्थः । द्वितीयं शङ्कते अस्तीति ॥ सत्प्रतिपक्षतयेति । मम देह इति गौरोऽहमिति च प्रतीतिद्वयस्य प्रत्यक्षत्वाविशेषेण समानबलत्वाद्बाधकत्वोपयोगिन्या अधिकबलताया गौरोऽहमित्यस्यां प्रमायामनिरूपणादिति भावः ।
**परिमल **
अतिप्रसङ्गादिति । तृषार्तस्य चैत्रस्य मरुदेशे पानीयसिद्ध्युपगमप्रसङ्गादित्यर्थः ॥ नचैवं लोकेति । प्रत्यक्षादन्यस्याप्रामाण्ये घनगर्जितादिना वृष्ट्यादेः (व्यवहारः) शब्दप्रयोगानन्तरं प्रवृत्तिनिवृत्त्यादिव्यवहारो लोकसिद्धो न स्यादित्यर्थः ॥ संवादेनेति । अर्थदृष्टिरूपसंवादेनेत्यर्थः । नचान्यताप्रतीतावित्यत्र अन्यताया अप्रतीताविति पदच्छेदः ॥ सम्बन्धेति । षष्ठी शेष इति सूत्रे स्वस्वामिभावादिरूपसम्बन्धे षष्ठ्या विधानेन ममेति षष्ठ्या सम्बन्धप्रतीतिरिति भावः । प्रतिभासत्वेऽपि भ्रमत्वं किन्नेत्यत आह अत एवेति । विपरीतप्रमित्यभावादेवेत्यर्थः । विपरीतप्रमां शङ्कते अस्ति गौरोहमिति ॥ प्रतिपक्षतयेति । मम देह इति प्रतिभासेनेति योज्यम् ।
यादुपत्यम्
अतिप्रसङ्गादिति । देवदत्तपिपासानिवृत्त्यनुरोधेन मरावपि वारिसिद्धिप्रसङ्गादित्यर्थः ॥ न चैवं लोकेति । प्रत्यक्षस्यैव प्रामाण्ये धूमदर्शनानन्तरं वह्न्यादिव्यवहारः प्रयोजकवृद्धवाक्यश्रवणानन्तरं प्रयोज्यवृद्धस्य तदर्थव्यवहारश्च लोके न स्यादित्यर्थः ॥ सम्भावनयेति । सा च न प्रमाऽतस्तत्करणं न प्रमाणमिति भावः ॥ संवादेन चेति । प्रवृत्तिसंवादेनेत्यर्थः । बाधकत्वानुपपत्तिरिति । परस्परं समबलत्वेन अधिकबलत्वाभावादिति भावः ।
**श्रीनिवासतीर्थीया **
नन्वस्ति प्रतिभासस्तथाऽपि स भ्रम इति चेत्तत्राह अत एवेति । देहोऽहमिति बाधकप्रमाणाभावादेवेत्यर्थः ॥ अस्तीति । मम देह इति प्रतीतिर्बाधिका विपरीतप्रमेत्यर्थः ।
**वाक्यार्थरत्नमाला **
न हि देवदत्तः पिपासित इत्येतावता मरौवारि सिध्यतीति तत्वनिर्णयटीकानुसारेणातिप्रसङ्गमुपपादयति । मरावपीति । मरुदेशेपीत्यर्थः । तदनुसारेण शङ्कते । नन्वस्ति तावदिति । एवं ननु वह्न्यादीत्युत्तरग्रन्थोऽपि । किञ्चागमादिप्रमाणाभावे इत्यादि तत्वनिर्णयटीकापि ।
व्यपदेशमात्रमिति मूलस्यार्थानुवादो व्यवहारमात्रमितीति प्रतीकोपादानम् । क्वचिन्मूले व्यवहारमात्रमित्यपि पाठस्तदा यथाश्रुतानुवाद एवेति ज्ञेयम् । सदेतीतीत्येवमितिशब्दद्वययुक्तं प्रतीकोपादानम् । कदाचिदित्यर्थस्येति । सूचितत्वादिति वक्ष्यमाणेन सम्बन्धः । एवमुत्तरत्रापि । उपलक्षणं चेदम् । अपीत्यपि सोस्कराणीति न्यायेन लक्ष्यत इति ज्ञेयम् । तदनेन कदाचित्कस्यचिद्देहोऽहमिति प्रमा नास्तीत्युक्तं भवतीति दर्शितं भवति । आद्यादित्वादिति । तस्यादित उदात्तमिति सूत्रीयादित इति तसिज्ञापितप्रतियोगे पञ्चम्यास्तसिरित्येतत्सूत्रीयादिभ्य उपसङ्ख्यानमिति वार्तिकबलात्तसिरित्यर्थः । विशेषस्तु तत्र टीकाव्याख्यावसरेऽस्माभिर्निरूपितोऽवधेयः ।