०४ भवच्छास्त्रम् उन्मत्तप्रलपितमेव

स्वपरार्थविहीनत्वात्

भवच्छास्त्रम् उन्मत्तप्रलपितमेव

स्वपरार्थविहीनत्वात्

सुधा

किमतो यद्येवमित्यत आह स्वेति ।

अनुव्याख्यानम्

स्वपरार्थविहीनत्वात् ….. ……

निष्फलं शास्त्रमिति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते । तच्चोपलक्षणम् । निर्विषयं चेत्यपि द्रष्टव्यम् । विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम् । तृतीयप्रकाराभावात् । सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् । ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात्तद्-व्याप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।

अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् । ततः किमित्यतः सूत्रं व्याख्याति स्वमतेनैवेति ।

अनुव्याख्यानम्

….. ….. स्वमतेनैव निष्फलम् ॥

किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥

यत एवं स्वमतेनैव निष्फलं निर्विषयं च न केवलं परोपपादनेन । तस्माद् वृथा विषयप्रयोजनशून्यम् । यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाऽभ्युपगतम् । तस्माद्विषयप्रयोजनशून्यमेवेत्यर्थः । यस्माद्वृथा तस्मात्तच्छास्त्रं किमिति स्वयं प्रेक्षावान् प्रलपति । प्रेक्षावता नारम्भणीयमिति यावत् । विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यादिति । यद्वा निष्फलमिति प्रयोजनाभावाभिधानम् । वृथेति विषयाभाववचनम् । तथा चैवं सूत्रयोजना । न केवलं परोपपादनेन किन्तु स्वाभ्युपगमेऽप्यर्थाभावादनारम्भणीयं शास्त्रमिति शेष इति । अर्थाभावहेतोरसिद्धिपरिहारायाभ्युपगमेऽपीत्युक्तम् ।

शेषवाक्यार्थचन्द्रिका

ननु स्वपरार्थविहीनत्वेऽपि विषयप्रयोजनवत्त्वसम्भवादप्रयोजकमेतदित्यतो व्यापकाभावेन व्याप्याभावस्य साधनादापादनाद्वाऽत्र व्याप्यव्यापकाभावानुपपत्तेरेव बाधकत्वान्न तदिति भावेन विषयप्रयोजनवत्त्वस्य स्वपरविषयप्रयोजनवत्त्वेन व्याप्यव्यापकभावमुपपादयति विषयप्रयोजनवत्त्वं हीति । निर्विषयं चेति । अनेन मूले निष्फलमित्येतन्निर्विषयत्वोपलक्षणमित्युक्तं भवति । स्वमतेनैवेत्येवकारोऽप्यर्थ इति भावेन तदर्थमाह न केवलमिति । यत एवमित्यादिनोक्तमेव विशदयति यस्माद्वादिनेत्यादिना । उक्तयोजनायां निष्फलमित्यस्य निर्विषयत्वनिष्प्रयोजनत्वोभयपरतायाः, वृथेत्यस्य च तदुभयपरताया, निर्विषयत्वाद्यभ्युपगमेन साक्षादेवानारम्भणीयत्वसाधनसम्भवे मध्ये निर्विषयत्वाद्यापादनस्य च समाश्रयणीयत्वात्स्पष्टं भाष्यस्यास्वारस्यम् । उक्तप्रकारेणैव सूत्रयोजनाप्रसक्त्या तदस्वारस्यं च भवतीत्यतस्तदुभयस्वारस्यानुरोधेन प्रकारान्तरेण भाष्यं योजयति यद्वेति । तथाऽपि भाष्योक्तो हेतुहेतुमद्भावः कथमित्यतः सूत्रयोजनाप्रदर्शनेनैव तस्यापि सूचिततां मन्वानः सूत्रयोजनामेवाह तथा चेति ॥ स्वाभ्युपगमेऽपीति । स्वाभ्युपगमेनापीत्यर्थः ॥ अनारम्भणीयं शास्त्रमिति शेष इति । इति शेषो भाष्यकारैः सूत्रे पूरित इत्यर्थः । अर्थाभावमात्रेण शास्त्रानारम्भणीयतासिद्धेः सूत्रेऽभ्युपगमेऽपीत्यनर्थकमित्यतोऽर्थाभावहेतोरसिद्धिपरिहारार्थत्वान्न तदित्याह अर्थेति ।

**परिमल **

निष्फलमित्यस्य विशेष्याकांक्षां पूरयति निष्फलमिति । स्वपरार्थविहीनत्वादित्यत्रार्थपदस्य विषयप्रयोजनरूपार्थद्वयमुपेत्य निष्फलं निर्विषयं च शास्त्रमित्यत्र हेतुं व्यनक्ति विषयप्रयोजनवत्त्वं हीत्यादिना ॥ सर्वप्रकारेति । स्वपरविषयप्रयोजनवत्त्वरूपप्रागुक्तप्रकारद्वयेत्यर्थः ॥ सूत्रं व्याख्यातीति । व्याख्याप्रकारश्चाग्रे व्यक्तः । यत्तच्छब्दाध्याहारेण मूलं योजयति यत एवमिति । एवकाराभिप्रायो न केवलमिति । स्वमतेनैव निष्फलमित्यस्य वृथेत्यस्य च हेतुहेतुमद्भावस्यास्फुटत्वाद्य्वनक्ति यस्माद्वादिनेत्यादिना । ‘किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयमि’त्येतदपि यत्तच्छब्द प्रयोगेन योजयति ॥ यस्माद्वृथेति । निष्फलमित्येतन्निर्विषयमित्यस्य नोपलक्षकमिति भावेनाह यद्वेति । योजना तु प्राग्वदेवेति भावः ॥ अर्थाभावादिति । विषयप्रयोजनयोरभावादित्यर्थः ।

यादुपत्यम्

एतदेव स्पष्टयति यस्माद्वादिनेत्यादिना ॥ स्वाभ्युपगमेऽपीति । स्वाभ्युपगमेनापीत्यर्थः ।

**श्रीनिवासतीर्थीया **

तच्चेति । निष्फलपदम् । अभ्युपगमेऽपि अभ्युपगमेनापीति यावत् ॥ इत्युक्तमिति । स्वाभ्युपगमेनापीत्युक्त्या हेतोरङ्गीकृतत्वादित्यर्थः ।

**वाक्यार्थरत्नमाला **

सर्वप्रकारेति मूलम् । परित्यागेन यत्सामान्यावस्थानं तदभावात् । यावद्विशेषं विना कृतं सामान्यं नाङ्गीकर्तुं शक्यमित्यर्थः । किमित्यतः सूत्रमिति । एतन्मतनिरासार्थं सूत्रमिति मूले उक्तेरत इत्यस्येत्याशङ्कानिरासार्थं प्रवृत्तं यत्सूत्रमिति योज्यम् । निर्विषयत्वमिति । पूर्वमुपलक्षणस्योक्तत्वादिहानुवादोपपत्तिः । अनादरणीयं शास्त्रमिति शेष इति पाठः । पूर्वप्रकृतानारम्भणीयत्वस्यैवानुपादेयत्वार्थकस्यानुवादोऽयम् । अनारम्भणीयमित्यपि पाठस्तु पूर्वप्रकृतानुसारी । तदनुसारेण टीकायामनारम्भणीयमित्येवानुवादः कृतः । यद्यपि भाष्येऽनारम्भणीयमित्युक्तिर्नास्ति । तथापि किमिति प्रलपतीत्येतत्पूर्वमूलोक्तरीत्यार्थतस्तस्य लाभमाश्रित्य विशिष्टशेषोक्तिरिति ज्ञेयम् ।