यदेवं
चार्वाकमतनिरासः
यदेवं
सुधा
एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाह यदेवमिति ।
अनुव्याख्यानम्
यदेवं ……. ……. ………
यद्येवमतीन्द्रियं वस्तु न स्यात् । तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येतेति शेषः । तत्कथ मिति चेत् । किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते । उत विनेया नराः ।
आद्यं दूषयति दर्शनेनेति ।
अनुव्याख्यानम्
….. दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः ॥
लब्धस्तेनैव हि ….. …….
किमाक्षेपे । अर्थो विषयः प्रयोजनं च । लब्ध उपलब्धः प्राप्तश्च । प्रत्यक्षगोचरो हीति तत्र हेतुः । ततश्चायमर्थः । न तावदनेन शास्त्रेण शास्त्रप्रणेत्राऽतीन्द्रियोऽर्थ उपलभ्यते । तदभावात् । नाप्यैन्द्रियकः । तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । ‘अप्राप्ते हि शास्त्रमर्थवत्’ किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रं प्रणीतवान् । अन्यथा (तत्प्र)प्रणयनानुपपत्तेः । तथा च तं प्रति तमेवार्थमुपदर्शयत्कथं सविषयं स्यात् । एवं प्रयोजनमपि न तावदतीन्द्रियम् । तदभावात् । नाप्यैन्द्रियकम् । तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ॥ ननु हितोपदेष्टरि जनोऽनुरज्यते । ‘जनानुरागप्रभवाश्च सम्पद’ इति चेत् । कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् । तत्तु परेण त्याजितमिति ।
द्वितीयं दूषयति नरैरिति ।
अनुव्याख्यानम्
….. ….. नरैः शास्त्रात्किं मोहनं विना ॥
लब्धमित्यनुवर्तते । अत्रापि पूर्ववदुत्तरम् । स्यादेतत् । धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः । तस्य प्रत्यक्षत्वेऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते । प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः । तत्कथं नरैः शास्त्रात्किं लब्धमित्युच्यते । मैवम् । विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः । विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेद् उतोपपत्तिव्युत्पादनेन । नाद्यः । आगमप्रामाण्याभ्युपगमप्रसङ्गात् । नास्ति अतीन्द्रियं किमपीत्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च । न द्वितीयः । उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् । शास्त्रं शङ्कामेव निवारयति । विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न । स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् । शङ्का हि संशयो वा स्याद्विपर्ययो वा । द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ । नाज्ञामात्रेण । तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत् (न) । तस्यापि प्रमाणत्वात् । तदिदं ‘दर्शनेने’ति प्रकृतानुवृत्तौ सत्यां ‘शास्त्रात्किमि’ति वदता सूचितम् । अन्यथा नरैश्चेत्यवक्ष्यत् । मोहनं विनेत्युभयवाक्यशेषः परिहासः । शास्त्रप्रणेत्रा सुरगुरुणाऽयोग्यजनव्यामोहनं प्रयोजनं लब्धम् । अन्यैश्च मिथ्याज्ञानम् । नातोऽधिकमिति ।
शेषवाक्यार्थचन्द्रिका
व्याख्यातुमिति । स्वमतेनैव निष्फलमित्यादिनेति शेषः । विनेयाः शिष्याः ॥ आक्षेप इति । परिहाराभावेन प्रश्नार्थत्वासम्भवादिति भावः ॥ विषयः प्रयोजनं चेति । अर्यते ज्ञायत इति व्युत्पत्त्या विषयस्य, अर्थ्यते प्रार्थ्यत इति व्युत्पत्त्या प्रयोजनस्य च तेन लाभादिति भावः ॥ तदभावादिति । अतीन्द्रियार्थसाधकप्रमाणाभावादिति भावः । लोकोपकार एव शास्त्रप्रणेतुः प्रयोजनमित्यभिप्रेत्य तस्य प्रयोजनतामुपपादयति नन्विति ॥ कृतघ्नतानिमित्तेति । अनेन तावदस्माकं हितोपदेशेनोपकारः कृतः । अतो ऽस्माभिरप्ययं प्रत्युपकर्तव्यो ऽन्यथा कृतघ्नतानिमित्तप्रत्यवायः स्यादित्यनुसन्धाने सतीत्यर्थः ॥ अत्रापि पूर्ववदिति । न तावदनेन शास्त्रेण नरैरतीन्द्रियार्थ उपलभ्यते प्रमाणाभावेन तदभावात् । नाप्यैन्द्रियकः, तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । प्रयोजनमपि, न तावदतीन्द्रियं प्रमाणाभावेन तदभावात् । नाप्यैन्द्रियकं तस्य योग्यानुपलम्भबाधितत्वादिति पूर्ववदुत्तरमित्यर्थः । ननु धर्माद्यभावस्य प्रत्यक्षगोचरत्वात्कथं विषयत्वमित्यतः प्रत्यक्षत्वेऽपि तस्य वेदादिवाक्यजनितधर्मादिसद्भावभ्रान्त्या कलङ्कितत्वाद्विषयत्वमुपपन्नमित्याह तस्येति ॥ प्रयोजनं चेति । नराणामिति शेषः । धर्मादिसद्भावभ्रान्त्या कामभोगादुपरुद्धानां धर्माद्यभावप्रतिपादनेन भ्रान्तौ निवृत्तायां यथेष्टकामोपभोग इत्यर्थः ॥ वैयर्थ्याच्चेति । आप्तौक्तौ हेत्वाद्याकाङ्क्षानुदयादुदये वाऽऽप्तत्वव्याघातादिति भावः । कृतस्य चर्चस्योद्भाष्यत्वं परिहरति तदिदमिति । कथमेतावतोऽर्थस्य शास्त्रशब्देन सूचनमित्यतस्तद्ग्रहणसामर्थ्यादिति भावेन तदुपपादयति अन्यथेति । परिहासप्रकारमेवोपदर्शयति शास्त्रप्रणेत्रेति ।
**परिमल **
किमिति सामान्ये नपुंसकम् । ‘शक्यं हि श्व(स्व)मांसादिनापि क्षुत्प्रतिहन्तुमि’ति महाभाष्यप्रयोगवदयं ध्येयः । विनेया नरा इति । शिष्यभूता जनाः प्रतिपद्यन्ते लभन्ते चेति विपरिणा मेनान्वयः ॥ किमाक्षेप इति । किंशब्दादेशः क इति शब्दः । लब्धपदस्यापि विषयप्रयोजनरूपार्थद्वयान्वयाय क्रमेणार्थद्वयमाह लब्ध इति । तेनेत्यस्यार्थः शास्रप्रणेत्रेति ॥ शास्त्रमर्थवदिति । सविषयं भवतीत्यर्थः । तेनैवेत्येवकारसार्थक्याय युक्त्यन्तरपरत्वेन व्याचष्टे किञ्चेति । योग्यानुपलम्भबाधितत्वमसिद्धमिति शङ्कते ननु हितेति ॥ अनुरज्यते अनुरागयुक्तो भवति ॥ कृतघ्नतेति । कृतोपकारस्यानुरागादिरूपप्रत्युपकाराकरणं कृतघ्नता तन्निमित्तो यः प्रत्यवायः पापं तदनुसन्धाने सति हितोपदेष्टरि अनुरज्यते जन इत्यादिकं त्वदुक्तं प्रयोजनं स्यान् न च तदस्ति । त्वयैव धर्माधर्मौ न स्त इत्युक्त्या तदनुसन्धानस्य त्याजितत्वादित्यर्थः ॥ अत्रापीति । द्वितीयपक्षेऽपि ॥ पूर्ववदुत्तरमिति । प्रणेतृपक्ष इव उत्तरम् । शिष्यजनैर्नतावच्छास्त्रेणातीन्द्रियोऽर्थ उपलभ्यते । तदभावात् । नाप्यैन्द्रियकः प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः । अप्राप्ते हि शास्त्रमर्थवत् । नापि तैः प्रयोजनं लब्धम् । अतीन्द्रियस्याभावात् । ऐन्द्रियकस्य योग्यत्वे सत्यनुपलम्भबाधितत्वादिति ध्येयमित्यर्थः ।
अनुशासनार्थकशास्त्रपदप्रयोगसूचितां युक्तिं वक्तुमाह स्यादेतदित्यादिना ॥ तस्य प्रत्यक्षत्वेपीति । प्रतियोग्यनुपलब्धिरेव अभावप्रत्यक्षत्वे हेतुरिति मन्वानस्या(यम)नुवादः ॥ वैदिकेति । यजेतेत्यादिवेदार्थानुसन्धानजन्यसंस्कारनिमित्ता या धर्माद्यभावनास्तित्वशङ्का तद्विषयत्वेनेत्यर्थः ॥ शङ्कामेवेति । धर्माद्यस्तित्वशङ्कामेवेत्यर्थः ॥ स्वयं वेति । आप्त(त्म)वाक्यात्मना वेत्यर्थः । असामर्थ्यमेव व्यनक्ति शङ्का हीति ॥ विपरीतेति । शङ्काविषयविरोध्यर्थेत्यर्थः । प्रसङ्गरूपतर्कव्युत्पादनेनार्थमुपदर्शयच्छास्त्रं शङ्कां वारयिष्यतीति आशङ्कामनूद्य निराह तर्केति ॥ प्रमाणत्वादिति । तच्च व्युत्पादयिष्यति भक्तिपादे इति भावः ॥ शास्त्रात्किमिति वदता सूचितमिति । किं स्वयमेवार्थं शास्त्युत तर्कादिव्युत्पादनेनैवेत्यर्थस्य ध्वनितत्वादिति भावः ॥ उभयवाक्यशेष इति । तेन कोऽर्थो लब्धः नरैश्च कोऽर्थो लब्ध इति वाक्यद्वयशेषतां व्यनक्ति शास्त्रप्रणेत्रेति ।
यादुपत्यं
विनेयाः शिष्याः ॥ कृतघ्नतानिमित्तेति । अनेन तावदस्माकं हितोपदेशेनोपकारः कृतः । अस्माभिश्चास्य प्रत्युपकारः कर्तव्यः । अन्यथाऽस्माकं कृतघ्नतानिमित्तप्रत्यवायः स्यादित्यनुसन्धाने सतीत्यर्थः ॥ वैदिकवासनेति । धर्मादिसद्भावविषयकवासनेत्यर्थः ॥ शास्त्रात्किमिति वदतेति । शिष्यते यथावस्थितमेव प्रतिपाद्यते वस्त्वनेनेति व्युत्पत्त्या शास्त्रशब्देन प्रमाणत्वस्य सूचनादिति भावः ।
**श्रीनिवासतीर्थीया **
ननु शास्त्रप्रणेत्रा सम्पद्रूपं प्रयोजनं लब्धमित्याशङ्कते नन्विति ॥ अत्रापि पूर्ववदिति । न तावदनेन शास्त्रेण विनेयेनातीन्द्रियार्थ उपलभ्यते तदभावात् । नाप्यैन्द्रियकः । तस्य प्रत्यक्षगोचरत्वेन शास्त्राविषयत्वात् । एवं प्रयोजनमपि न तावदतीन्द्रियं तदभावात् । नाप्यैन्द्रियकम् । अनुपलम्भबाधितत्वादित्युक्तरीत्योत्तरं वक्तव्यमित्यर्थः । शङ्कां वैदिकवासनानिमित्तधर्माधर्मदि शङ्काम् ॥ विषयेति । धर्माद्यभावरूपेत्यर्थः । स्वयम् आगमत्वेन । असामर्थ्यादित्यनन्तरमागमत्वादिनोपदर्शने चागमोपपत्त्योः प्रामाण्यापत्तिरिति वाक्यशेषः । अन्यथा एतत्सूचनाभावे ॥ इत्यवक्ष्यदिति । दर्शनेनेत्यनुवृत्तिसम्भवाच्छास्त्रादिति व्यर्थमित्यर्थः ।
**वाक्यार्थरत्नमाला **
शास्त्रीयविषयप्रयोजनज्ञानलाभौ हि शास्त्रसम्बन्धिन एव वाच्यावित्यतस्तत्सम्बन्धिविनेयेष्विव प्रणेतर्यपि तत्सम्बन्धाद्विकल्पप्रवृत्तिरिति भावेन विकल्पयति । मूले किमनेनेति । अर्यते ज्ञायत इति । अत्र गत्यर्थादर्यतेरुषिकुषिगार्तिभ्यस्थनित्युणादिसूत्रेण थन्प्रत्ययेऽर्थ इति भवति । अर्थत्वमर्यतेव स्यादिति युक्तिपादीयमूलटीकयोः स्पष्टमेतत् । अर्थ्यते प्रार्थ्यत इति । अत्र चार्थ उपयाञ्चायामिति प्रार्थनार्थादर्थधातोः कर्मणि पचाद्यचिप्रत्ययेऽर्थ ति रूपं ज्ञेयम् । प्रकृतं लब्धम् इत्येतल्लिङ्गविपरिणामेऽनुवर्तत इत्याशयेनाह । लब्धमित्यनुवर्तत इति मूलम् । किञ्च प्रत्यक्षेणेत्यादि दूषणस्यात्राप्रसक्तेरुपयुक्तातिदेशपरतया तत्वनिर्णयटीकाग्रन्थानुसारेण व्याचष्टे । न तावदिति । प्रत्यक्षगोचरत्वादिति । चार्वाकेण तथाभ्युपगतत्वादिति भावः । तत्वनिर्णयटीकायां धर्मादिकं पश्वादिभिरिव स्वभावत एव अप्रतिपन्नमिति किं तदभावप्रतिपादनेनेत्युक्तत्वेऽपि धर्माद्यभावस्य प्रत्यक्षगोचरतया एव फलतः प्राप्तेरिति ज्ञेयम् । निर्विषयत्वनिष्प्रयोजनत्वोभयपरतया इत्यस्य समाश्रयणीयत्वादित्युत्तरेणान्वयः । एवं तदुभयपरताया इत्यस्यापि ।
मूले परिपाक इति । उपसर्गस्य घञ्यमनुष्ये बहुलमिति दीर्घविकल्पात्परीत्युपसर्गस्य घञिपरतः ह्रस्वेन दीर्घेण च प्रयोगः साधुः । अत एव टीकायां हृस्वप्रयोगः ।