०२ चार्वाकमतनिरासायेदमधिकरणम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ

चार्वाकमतनिरासायेदमधिकरणम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ

सुधा

किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः । किमीश्वरादिनेत्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यति चार्वाकैरिति ।

अनुव्याख्यानम्

ॐ अभ्युपगमेऽप्यर्थाभावात् ॐ ॥

चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ॥

चार्वी बुद्धिस्तत्सम्बन्धादाचार्योऽपि चार्वी । तस्येमे छात्राश्चार्वाकाः । तैरक्षजं मानमुच्यते । नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोति नापरमिति । अनुमानमागमश्च मानं नोच्यत इत्यर्थः । एतदप्यस्माकमनुमतमेव । प्रमेयविशेषे प्रत्यक्षस्यैव मानताऽभ्युपगमादित्यत आह क्वचिदिति ।

एतदुक्तं भवति । प्रमाणाधीना हि प्रमेयसिद्धिः । प्रमाणं च प्रत्यक्षमेव । नातोऽन्यदस्ति । न च प्रत्यक्षेणेश्वरं प्रतीमः । तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।

ननु यदि प्रत्यक्षातिरिक्तं प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आह देह इति ।

अनुव्याख्यानम्

देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥

ज्ञानवान्खल्वात्मा । ज्ञानं च देहधर्मः । यथोक्तम् ‘पृथिव्यापस्तेजोवायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानमि’ति । तस्माद्देह एवात्मा । स च विनाशीत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्टः । पुरुषार्थौ तु कामार्थावेव । पुरुषान्वयसम्भवादिति । तत्रापि काम एव मुख्योऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् । इति चोच्यत इति सम्बन्धः ।

शेषवाक्यार्थचन्द्रिका

चेतनावत्त्वेनेति । ज्ञानवत्त्वेनेत्यर्थः । शरीरस्यैवात्मत्वादिति भावः । चार्वीबुद्धिरित्यादि । अत्र बुद्धिवाचिनश्चारुशब्दाद् वोतो गुणवचनादिति ङीष्प्रत्यये चार्वीति रूपसिद्धौ यष्टीः प्रवेशयेति वदजहत्स्वलिङ्गादेव चार्वीशब्दाद् बुद्धिमति लोकायतिकाचार्य(र्ये)पुरुषविशेषे लाक्षणिकात्तस्येम इत्यर्थे आकच्प्रत्यये तद्धिता इति बहुवचनसामर्थ्यलब्धतद्धितगतिवैचित्र्येणोत्पादिते यस्येति चेतीकारलोपे चार्वाकशब्दनिष्पत्तिरिति द्रष्टव्यम् ॥ सम्मतमिति । तथा च नेयं वैषम्योक्तिरिति भावः । प्रमेयविशेष इति । यत्र चक्षुराद्यतिरिक्तं प्रमापकं प्रमाणं न प्रवृत्तं तत्रेत्यर्थः । न तु तदतिरिक्तप्रमाणान्तरगोचर इत्यर्थः । तस्यासम्भवादिति भावः । ननु प्रत्यक्षातिरिक्ताप्रामाण्यव्युत्पादनस्योक्तार्थविरोधित्वाभावान्न निरसनीयत्वमित्यतस्तद्दर्शयति एतदुक्तं भवतीति ॥ प्रमाणाधीनेति । ‘मानाधीना मेयसिद्धिर्मानसिद्धिस्तु लक्षणात्’ इति न्यायादिति भावः ॥ न च प्रत्यक्षेणेति । तस्यापाततस्तदभावावेदकत्वादिति भावः ।

ननु देह आत्मेति देहस्यात्मत्ववर्णनमनर्थकम् । न च देहविनाशेनात्मनो नाशवत्ताप्रतिपादनार्थमेतदिति वाच्यम् । तत्प्रतिपादनस्याप्युपयोगाप्रतिभासात् । न च कालान्तरे तदभावसिद्ध्यर्थमेतदिति वाच्यम् । तस्या अपि निष्प्रयोजनत्वात् । न च धर्ममोक्षाद्यभावसमर्थनं तत्प्रयोजनमिति वाच्यम् । तत्सद्भावेऽप्यनिष्टाभावेन तत्समर्थनस्याप्यनर्थकत्वादित्याशङ्क्य पूर्वोक्तस्यानुमानाद्यप्रामाण्यस्य समर्थनार्थत्वान्नानुपपत्तिरित्यभिप्रेत्य तत्समर्थनपरतया तद्योजयितुं तदनुपपत्तिशङ्कामुत्थापयति ननु यदीति । कुतो देहस्यात्मत्वमित्यतस्तल्लक्षणयोगित्वादिति भावेन, किं तल्लक्षणं कथं च तद्योगो येनात्मना देहस्य स्यादित्यतस्तदुभयमप्युपदर्शयति ज्ञानवानित्यादिना । ज्ञानं देहस्य धर्म इत्यत्र परस्य संमतिमाह यथोक्तमिति ॥ तत्समुदाये तत्सङ्घाते ॥ तेभ्य इति । शरीराद्याकारेण परिणतेभ्यः पृथिव्यादिभ्यो भूतेभ्यः । चैतन्यं देहस्य भवतीति शेषः ।

ननु न भूतानामेकैकस्य चैतन्यमुपलभ्यते घटादेरदर्शनात् । नापि मिलितानाम् । वह्नितप्तेऽयसि दमितवायुसमाध्माते सलिलकणाभ्युक्षिते भूतचतुष्टयमेलनेऽपि चैतन्यानुपलम्भात्, तत्कथं भूतसङ्घाते शरीरचैतन्यस्य विज्ञानमित्यत आह मदशक्तिवदिति । तस्येति शेषः । तथा च तस्य चैतन्यस्य भूतपरिणामे शरीरे विज्ञानं मदशक्तिवदुपपद्यते । यथा हि मदिरोपादानेषु किण्वादिष्वदृष्टाऽपि मदशक्तिर्मदिरायां विज्ञायते । तथा भूतेष्वदृष्टमपि चैतन्यं तत्कार्ये शरीरे विज्ञायत इति भावः । यदि समस्तव्यस्तविकल्पेन देहस्य चैतन्यं निराक्रियेत तर्हि मदिरायां मदशक्तिरप्यपाक्रियेताविशेषादित्यतिप्रसङ्गसूचनाय मदशक्तिवदिति दृष्टान्तीकरणम् ॥ पुरुषान्वयेति । देहसम्बन्धेत्यर्थः । देहस्यैव पुरुषत्वादिति भावः । मुख्य पुमर्थ इति सम्बन्धः । कामस्यादौ सङ्कीर्तनमिति । अन्यथा ‘अजाद्यदन्तमि’त्यनेनार्थशब्दस्यैव पूर्वनिपातप्राप्त्याऽर्थकामाभ्यामित्येव स्यात् । न च राजदन्तादिषु परमिति शास्त्रेणाजाद्यदन्तशास्त्रस्यापवादात्कामार्थाभ्यामित्यस्योपपत्तेर्नेदं ज्ञापकमिति वाच्यम् । तस्यापि शास्त्रस्य धर्मादिषूभयमिति वचनेनापवादात् । अर्थकामौ कामार्थावित्युभयथाऽपि प्रयोगस्य साधुतयाऽऽश्रयणीयत्वेऽपवादाभावे पुनरुत्सर्गस्य स्थितिरिति न्यायेन प्रथमप्राप्ताजाद्यदन्तशास्त्रस्याप्यानुगुण्यात्प्राथमिकप्रयोगस्यार्थकामाभ्यामित्यस्येव कर्तव्यत्वादिति भावः । अन्ये त्वर्थकामावित्यस्यासाधुत्वे हि नियमेन कामार्थावित्येव वक्तव्यतया कामस्यादौ सङ्कीर्तनस्यासाधुतादोषपरिहारार्थत्वेनान्यथा सिद्धत्वादर्थापेक्षया कामस्य प्राधान्यद्योतकत्वासम्भवेऽपि धर्मादिषूभयमिति वचनानुसारेणोभयथाऽपि प्रयोगस्य साधुतायां नियमेन कामस्यादौ सङ्कीर्तनस्यान्यथासिद्धत्वासम्भवादर्थापेक्षया कामस्य प्राधान्यद्योतकत्वं तस्योपपन्नमित्याशय इत्याहुः ।

**परिमल **

साङ्ख्यनिरासपरपूर्वोत्तराधिकरणेषु मध्ये चार्वाकस्य कुतः प्रसक्तिरिति पृच्छति किं नामेति । अवान्तरसङ्गतिबलादिति भावेनाह मा भूदिति ॥ चार्वीति । समीचीनेत्यर्थः । वोतो गुणवचनादिति ङीष्प्रत्ययः ॥ तत्सम्बन्धादिति । लक्षणयाऽऽचार्यश्चार्वीशब्देन गृह्यत इत्यर्थः । आचार्यस्य बृहस्पतेश्चारुबुद्धिमत्त्वं चैवंरूपमतनिर्माणेन अयोग्यजनव्यामोहकचातुर्याध्द्येयम् ॥ तस्येम इति । चार्वीशब्दात्तद्धिते आकच्प्रत्यये यस्येति ईकारलोपे चार्वाक इति सिद्धिः । आकच् इति तद्धितप्रत्ययश्च तद्धिता इति सूत्रे बहुवचननिर्देशज्ञापकात् ‘विचित्रा हि तद्धितगतिरि’त्युक्तत्वाध्द्येय इति भावः । संज्ञापूर्वक विधेरनित्यत्वाद् वृद्धच्छ इति छप्रत्ययो न कृतः ॥ प्रमेयविशेष इति । स्वात्मीयसुखदुःखादिविषये घटादिगतरेखोपरेखादिविषये चेति भावः ॥ क्वचिदितीति । कस्मिन्नपि वस्तुन्यक्षजादन्यन्मानं नेत्यर्थः। तर्हीश्वराद्यतीन्द्रियसिद्धिः कथमित्यतो, ब्रह्मणो जगत्कारणत्वाद्यविरोधादेतन्मतोपन्यासो व्यर्थ इत्यतो वाह एतदुक्तमिति ॥ शरीरेति । शरीरसंज्ञा इन्द्रियसंज्ञा विषयसंज्ञेत्यर्थः । तेभ्यो देहरूपेण परिणतेभ्यो भूतेभ्यश्चैतन्यं तस्य च विज्ञानं जायते मदिरायां मदशक्तिर्यथा जायते तथा जडपरिणामेऽपि देहे चैतन्यमिति योजना ॥ पुरुषान्वयेति । यस्य पुरुषेण सह भोग्यभोक्तृतया सम्बन्धः स हि पुरुषार्थः । पुरुषश्चेह ज्ञानवान्देह एवेति तेन भोग्यतयान्वीयमानौ कामार्थावेवेति तावेव पुरुषार्थावित्यर्थः । कामः स्रक्चन्दनवनितादिः । अर्थः सुवर्णादिः । ‘धर्मे चार्थे च कामे च मोक्षे च भरतर्षभे’ति भारतोक्तेः ‘अजाद्यदन्तमि’ति सूत्रकृन्मतानुसाराद्वाऽर्थकामाविति कुतो नोक्तम् । धर्मादिषूभयमिति वार्तिकोक्त्याऽर्थकामाविति वक्तुं शक्यत्वेऽपि एवमुक्तेः किं कृत्यमित्यत आह तत्रापीति ।

यादुपत्यं

चेतनावत्त्वेनेति । ज्ञानवत्त्वेनेत्यर्थः । शरीरस्यैवात्मत्वादिति भावः ॥ चार्वी बुद्धिरिति । चारुशब्दाद्वोतो गुणवचनादिति ङीषि चार्वीति रूपसिद्धिरिति द्रष्टव्यम् ॥ तत्सम्बधादिति । तथा च यथा यष्टीः प्रवेशयेत्यादौ यष्टिशब्दोऽजहत्स्वार्थलिङ्ग एव तद्वत्पुरुषलक्षकस्तथा चार्वीशब्दोऽप्य जहत्स्वार्थलिङ्ग एव तादृशबुद्धिमदाचार्यलक्षक इति भावः ॥ तस्येम इति । चार्वीशब्दात्तस्येम इत्यर्थेऽनुक्तप्रत्ययज्ञापकतद्धिता इति बहुवचनेन आकच्प्रत्यये टिलोपे चार्वाकेति रूपमिति द्रष्टव्यम् । चार्वीशब्दात्तस्येम इत्यर्थे विचित्रा हि तद्धितगतिरिति वचनादाकच्प्रत्यये यस्येति चेतीकारलोपे चार्वाकेति रूपमित्यप्याहुः ॥ प्रमेयविशेष इति । उत्पत्त्यनन्तरमेव विनष्टे विद्युदादावित्यर्थः ॥ तेभ्यश्चैतन्यमिति । शरीराद्याकारेण परिणतेभ्यो भूतेभ्य इत्यर्थः । ननु समस्तेषु व्यस्तेषु वा भूतेषु न चैतन्यं दृष्टं तत्कथं तत्कार्ये शरीरे चैतन्यस्य विज्ञानमित्यत आह मदशक्तिवदिति । तस्येति शेषः । तथा च तस्य चैतन्यस्य भूतपरिणामे शरीरे विज्ञानं मदशक्तिवत् । यथा मदिरोपादानेष्वदृष्टाऽपि मदशक्तिर्मदिरायां विज्ञायते । एवं भूतेष्वदृष्टमपि चैतन्यं तत्कार्ये शरीरे विज्ञायत इत्यर्थः । अत एव ‘तेभ्यश्चैतन्यं मदशक्तिवत्तस्य विज्ञानमि’ति शाङ्करभाष्ये पाठः ॥ पुरुषान्वयेति । देहस्यैव पुरुषत्वादिति भावः ॥ कामस्यादाविति । तथा च प्रमाणप्रमेयेत्यादाविव प्रथमोद्देशेन मुख्यता ज्ञायत इति भावः । केचित्त्वन्यथाऽजाद्यदन्तमित्यनेनार्थशब्दस्यैव पूर्वनिपातप्रसङ्गेनार्थकामाभ्यामिति स्यादिति भावमाहुः । तच्चिन्त्यम् । धर्मादिषूभयमिति वार्तिकबलेनानियमश्चात्रेष्यत इति वृत्तावुक्तत्वेनार्थकामावितिवत्कामार्थावित्यस्याप्युपपन्नत्वेन कामस्यादौ सङ्कीर्तनेन वोक्तार्थाज्ञापनात् । सूत्रस्य वार्तिकापेक्षया प्रबलत्वात्तदनुसारेणार्थशब्दस्यैव प्रथमप्रयोगप्राप्तिरिति तु न वैयाकरणानां संमतम् । तैरुत्तरोत्तरमुनिवचनप्रामाण्याभ्युपगमादिति ।

**वाक्यार्थरत्नमाला **

चेतनाशब्दस्य मनोवृत्तिरूपज्ञापनपर्यायतया तथार्थमाह । ज्ञानवत्वेनेत्यर्थ इति । संमाननोत्संजनाचार्यकरणज्ञानभृति विगणव्ययेषु नियत इति सूत्रस्याकर्त्रभिप्राये क्रियाफले णीञ् प्रापण इत्येतद्धातोः संमाननादिषु विशेषणेषु सत्सु आत्मनेपदं भवतीत्यर्थः । संमाननं पूजनम् । तस्मिन्विशेषणे सति न यतेरात्मने पदोदाहरणम् । न पते चार्वीलोकायत इति । तदुपपादनं काशिकायाम् । चार्वीबुद्धिस्तत्सम्बन्धादाचार्योऽपि चार्वी । सलोकायते शास्त्रे पदार्थान्नयति । उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयती । ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्तीति । तत्रत्य मंजर्यां चारुशब्दाद्दोतोर्गुणवचनादिति ङीप् । यष्टी प्रवेशयेति पुरुषेष्वजहत्स्वलिङ्ग एव यष्टिशब्दस्तथा चार्वीशब्द इति व्युप्तादितम् । तदनुसृत्यापेक्षितं पूरयंस्तत्साधुतां दर्शयति । अत्र बुद्धीत्यादिना । चार्वीति रूपेत्यतः प्राक् यणीति शेषः । यद्यपि पुरुषे लक्षणायां चारुशब्द एव फलति । पुरुषशब्दलिङ्गप्राप्तेश् चारुशब्दादपि पुरुषविशेषे प्रवर्तमानादाकच्प्रत्यये चार्वाक इति भवत्येव । तथापि तीरे लाक्षणिकगङ्गादिशब्दस्येव स्वलिङ्गहानिर्नेत्याशयेन यष्टी प्रवेशयेत्यादि दृष्टान्तकीर्तनम् । बुद्धिमतीति । अनेन लक्षणामूलं मत्वर्थसम्बन्धेन बुद्धिवाची चार्वीशब्दो बुद्धिमत्याचार्ये लक्षणया वर्तत इत्युक्तं भवति । तर्हि बुद्धेः साधारण्याद्विशेषसिद्धिर्नस्यादित्यत उक्तं पुरुषविशेष इति । अनेन बुद्धिवाचिनश्चारु शब्दस्यापि बुद्धिविशेषार्थत्वमिति सूचितं भवति । तमेव पुरुषविशेषमभिमानीयदर्शयति । लोकायतिकाचार्य इति । लोकायत शास्त्रे प्रवर्तमान इत्यर्थे विचित्र तद्धितगत्या ठकि लोकायतिकेति प्रातिपदिकम् । इत्यर्थ इति । छात्रा इत्यर्थ इत्यर्थः । आकचप्रत्यय इत्यस्योत्पादित इति वक्ष्यमाणेनान्वयः । बहुवचनसामर्थ्येति । प्रत्ययः परश्चेत्यादिवत्तद्धित इत्येकवचने प्रयोक्तव्ये बहुवचनवैय्यर्थ्यमित्याशङ्कापरिहाराय बहुवचनमनुक्त तद्धितपरिग्रहार्थम् । तेन पृथिव्या ञाञौ । ‘‘अग्रादिपश्चाढङिमज्मन्नि इत्येवमादि सिद्धं भवतीति काशिकायामुक्तेरिति भावः । बहुवचनेन संज्ञिनां बहुत्वसूचनादित्यादिमञ्जर्यनुसारेणोपपादनं पूर्णगुणार्ण मित्येतदृग्भाष्यटीकाव्याख्याने गुरुपादैः कृतमस्ति तदुपपादनं च तत्प्रपञ्चेऽस्माभिः कृतं तत्रैव ज्ञेयम् । यस्येति चेतीकारेति । आकच्प्रत्ययस्याजादितया यकारादिषु अजादिषु स्वादिष्वसर्वनामस्थानेषु परेषु भसंज्ञाया विधानानुसारेण भसंज्ञायाः प्राप्तेस्तादृशाकचिपरत ईकाररूपे वर्णस्य लोप इत्यर्थः । अनेनात्रत्येकारलोपप्रापकापरिस्फूर्त्या अजादितद्धितेऽपि परतष्टिलोपोऽस्तु व्यस्तत्र च टेरिति विधायकं सूत्रं वाच्यम् । तत्र च डितीत्यनुवृत्तेः प्रकृते च डित्परत्वाभावात्तदयोग इति टिलोपोपपत्तये डाकच्प्रत्यय इति कल्प इत्वाडित्वाट्टिलोप इति व्युत्पादयन्तोऽन्यथाख्यातिकारा निरस्ता वेदितव्या इति च सूचितम् । विस्तृतं चैतद्वाक्यार्थविनोदे ।

यस्येति चेतीकारलोप इत्येतत्पूर्वटीकागते आहुरित्यस्वरससूचनं च भ्रान्तिमूलम् । तस्मादेतट्टिलोपाश्रयणं यस्येतिचेत्यस्यापरिस्फूर्त्यावारिस्फूर्तावपि भत्वासम्भवभ्रान्त्या वा ॥ डित्वपक्षे तु डित्वसामर्थ्यादभस्यापीत्यादि प्रक्रिया वास्य संस्कारेण वेति ज्ञेयम् । कुतोऽयमर्थोनेत्यत आह तस्येति । कदाचित्प्रक्षगम्यस्यैव घटादेः कालान्तरादावनुमानादिनापि प्रतीयमानतया प्रत्यक्षातिरिक्तप्रमाणान्तरगोचरत्वस्य प्रमाणसंप्लववादिमतेऽसम्भवादित्यर्थः । असम्भवादिति ज्ञेयमिति पाठः । भावपदं लेखका गतम् । प्रत्यक्षातिरिक्तेति । अतिरिक्तानुमानादेर्यदप्रामाण्यव्युत्पादनं यस्येति योज्यम् । उक्तार्थेति । सर्ववैशिष्ट्यरूपोक्तार्थेत्यर्थः । परमचेतनस्य भगवत एव कतॄत्वमित्युक्तार्थेति यावत् । उत्तराधिकरणमूले तथैव प्रागुक्तप्रमेयवर्णनात् । ईश्वरादिसिद्धिं विनाप्रतीतेरिति भावः । तद्दर्शयतीति उक्तार्थविरोधित्वमीश्वरसिध्यसम्भवमुखेन दर्शयतीत्यर्थः । न्यायादिति । अभियुक्तोक्तप्रकारादित्यर्थः । परस्य संमतिमिति । चार्वाकस्येत्यर्थः । आत्मतत्वविवेककिरणावल्याद्यनुसारेणाह । शरीराद्याकारेणेत्यादिना प्रत्यक्षं प्रमाणमित्यादिभाष्यवार्तिकादिति च ज्ञेयम् । राजदन्तादिष्विति । दन्तानां राजाराजदन्त इति पूर्वप्रयोगार्हस्यापि परनिपातप्रतिपादनाद्धर्मार्थावित्युदाहरणाच्चेति भावः । अनियमश्चात्रेष्यत इति काशिकायामुक्त्वा धर्मादिषु उभयमपीति कथंता परिहारात्काशिकोक्तमपवादमाह । धर्मादिषूभयमिति वचनेनेति । उदाहृतं च काशिकादौ धमार्थौ कामार्थौ अर्थधर्मौ अर्थकामावितीति भावः । तर्ह्यविशेषादुभयथापि प्रयोगस्य साधुत्वादर्थकामाभ्यामिति प्रयोगापादनं न निर्बन्धनमित्यतस्तत्र शास्त्रान्तरानुसारोप्यस्तीत्याह । प्रथमप्राप्ताजाद्यदन्तेति ।