अत्र प्राह स्वयं प्रभुः
पातञ्जलमतनिरासः
अत्र प्राह स्वयं प्रभुः
सुधा
एवमुपन्यस्तमतनिरासार्थं सूत्रमवतारयति अत्रेति ।
अनुव्याख्यानम्
….. ….. अत्र प्राह स्वयं प्रभुः ॥
अत्रैतन्मतविषये दूषणं प्राहेत्यर्थः । स्वयं साक्षान्नोपचारेण । प्रभुरिति सूत्रकृतो दूषणसामर्थ्यमाचष्टे । सूत्रं व्याचष्टे अन्यत्रेति ।
अनुव्याख्यानम्
अन्यत्र काऽपि शक्तिर्न स्वातन्त्र्येण …….
अन्यत्र प्रकृतौ पुरुषे । तथा पृथिव्यां कलमादिबीजे च । काऽपीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्चेत्यर्थः । कथं तर्ह्युपादानत्वादिकमित्यत उक्तं स्वातन्त्र्येणेति । कुतो नास्तीत्यत आह ईशेति ।
अनुव्याख्यानम्
….. ….. …… ईश एव हि ॥
शक्तीस्ताः प्रेरयत्यञ्जः ….. …….
यस्मादीश एव ताः प्रधानादिशक्तीः प्रेरयतीति श्रुत्यादिप्रसिद्धम् । तस्मादन्यत्र काऽपि शक्तिः स्वातन्त्र्येण नास्तीति । न च प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्तेत्युक्तमञ्ज इति । क्रियाविशेषणमेतत् । तदनेन परकीयानुमानस्य बाधितविषयत्वं दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।
शेषवाक्यार्थचन्द्रिका
अत्रेति पराम्रष्टव्यं दर्शयन्नेव विषयत्वं सप्तम्यर्थ इत्याशयेनाह एतन्मतविषय इति । प्रकृत्यादाविति पृथिव्यादाविति वा वक्तव्ये तथाऽनुक्त्वान्यत्रेति सौत्री सामान्योक्तिः किमर्थेत्यतस्तथोक्तौ प्रतिज्ञामात्रदूषणस्य दृष्टान्तमात्रदूषणस्यैव च प्राप्त्योभयदूषणालाभात्तल्लाभाय सामान्योक्तिरित्यभिप्रेत्य पक्षदृष्टान्तसमर्पकतया तद्-व्याचष्टे अन्यत्र प्रकृतावित्यादि । अत्र प्रकृतौ पुरुष इति दार्ष्टान्तिकाभिप्रायेण पृत्तिव्यां कलमादिबीजे चेति दृष्टान्ताभिप्रायेणोक्तमिति द्रष्टव्यम् । उपादानशक्तिरिति वा बीजशक्तिरिति वाऽऽवपनशक्तिरिति वाऽनुक्त्वा क्वापीति सामान्योक्तिरपि उक्तसर्वशक्तिसङ्ग्रहार्थेति भावेन तत्परतया तत्तात्पर्यमाह काऽपीति । भिन्नलिङ्गवचनत्वेन शक्त्यादिविशेषणत्वानुपपत्तेरीश्वरनिष्ठप्रेरणाशक्तेरपरायत्तत्वासिद्ध्या प्रकृतानुपयोगाच्चाह क्रियाविशेषणमिति । साघनं परित्यज्य धात्वर्थमात्रविशेषणमित्यर्थः । ततश्च क्रियाद्वारा प्राप्तस्त्रीलिङ्गत्वबाधेन ‘क्रियाव्ययविशेषणानामि’त्यनेन क्लीबत्वादिविधानान्नानुपपत्तिरिति भावः ॥ अनेनेति । अन्यत्राभावादिति सूत्रखण्डेनेत्यर्थः ॥ परकीयानुमानस्येति । प्रधानं स्वायत्तोपादानत्वशक्तिमद् उपादानत्वात् । जीवः स्वायत्तबीजत्वशक्तिमान् बीजत्वादित्येवं रूपस्येत्यर्थः ॥ दृष्टान्तस्य चेति । पृथिवीकलमादिबीजरूपस्येत्यर्थः ।
**परिमल **
परकीयानुमानस्येति । प्रधानं स्वाधीनशक्तिमत् । उपादानत्वात् । पृथिवीवदिति अनुमानस्य श्रुत्यादिबाधितविषयत्वमित्यर्थः ।
यादुपत्यम्
परकीयानुमानस्येति । प्रधानं स्वायत्तशक्तिमत्, उपादानत्वात् पृथिवीवदित्याद्यनुमानस्येत्यर्थः ।
**वाक्यार्थरत्नमाला **
भिन्नलिङ्गवचनत्वेनेति । शक्तयादीत्यादिपदेन प्रेरकेशसङ्ग्रहः । यद्यप्यञ्च इत्येतदव्ययमेव । तथाचास्य शक्तयादिविशेषणत्वेनानुपपत्तिः । अंजशब्दस्य त्रिलिङ्गत्वात् सर्ववचनवत्वाच्च । अत एव अहन्नहिं पर्वते शिश्रियाणमित्येतद्-व्याख्यावसरे अंज आर्जवेनेति अनूद्य व्याख्यातम् । रमाकृतास्वरादेराकृतिगणत्वं विवृण्वानो नांजसेति तत्वशीघ्रार्थयोरित्यंजसेत्येतदव्ययत्वेनोक्तम् । ओजः सहोभस्तमसस्तृतीयाया इत्येतत्सूत्रीय वृत्यादावंजस उपसङ्ख्यानमञ्जसां कृतमित्युक्तम् । मञ्जर्यादौ चाञ्जसेत्यस्यार्जवेनेति व्याख्यानं कृतम् । तथा चाञ्जसा अञ्ज इत्युभयमप्यव्ययमेवेति ज्ञायते । नचैवमञ्जसा उपसङ्ख्यानेन तृतीयाया अलुगुक्तययोगः । अञ्जःशब्दादव्ययात्तृतीयाया अव्ययत्वादेव लोपेन समासप्रयुक्तलोपाप्रसक्तया तदपवादेन तृतीयाया अलुगर्थमुपसङ्ख्यानानर्थक्यादिति वाच्यम् । समासे सति समासप्रयुक्तस्यापि लोपस्य वक्तुं शक्यतया तदपवादतयोपसङ्ख्यानस्यावश्यकत्वात् । तस्मादञ्जसेतिवदञ्ज इत्यस्याप्यव्ययत्वमेवेति स्त्रीलिङ्गशक्तयादिविशेषणत्वेप्यनुपपत्तिर्नास्तीति प्रतिभाति । तथाप्यञ्जःशब्दस्याव्ययत्त्वाभावपक्षमाश्रित्याञ्जू व्यक्तिम्रक्षणकान्तिगतिष्विति व्यक्त्याद्यर्थादंजेः सर्वधातुभ्योऽसुनित्यौणादिकसूत्रेणासुनि चेतः पयः स इत्यादिवदञ्जःशब्दोऽपि निष्पादयितुं शक्य इत्याशयेन नपुंसकांजःशब्दमाश्रित्य भिन्नलिङ्गवचनत्वेनेत्युक्तिरिति न दोषः । यद्वैतदस्वरसादेवाह । ईश्वरनिष्टप्रेरणाशक्तेरिति । अंजःशब्दस्य शक्तितत्प्रेरकविशेषणत्वे तयोरेवाञ्जःशब्देन परानपेक्षत्वरूपाञ्जस्य प्राप्त्या प्रेरणाशक्तेरुक्तरूपाञ्जस्यासिध्या प्रकृतानुपयोग इत्यर्थः । उपलक्षणं चैतत् । प्रधानादिनिष्ठोपादानत्वादिशक्तीनामञ्जःशब्दोक्तं परानपेक्षत्वं प्रेरयतीत्युक्तपरापेक्षत्वविरुद्धं चेत्यपि ज्ञेयम् । अत्र प्रेरणाशक्तेरपरा शक्तया सिध्येति पाठः । परायत्तत्वासिध्येति तु लेखकागतिः । प्रेरणक्रियाया अञ्जस्ये उक्ते परानपेक्षो यथा स्यात्तथा प्रेरयतीत्युक्ते प्रेरणाशक्तेः परानपेक्षत्वमुक्तं भवतीति हृदयम् । अत्राञ्जःशब्दलिङ्गविचारः कार्योऽस्ति । स्थलान्तरेचाञ्जःशब्दीयविचारो बोध्यः । ‘‘दैवमेवापरे यज्ञ’’मिति गीताभाष्ये यज्ञमिति क्रियाविशेषणमित्युक्तस्य टीकायां व्याख्यानमस्ति । तदनुसारेणाह । साधनमिति । एतस्थलमानंदमयनये एन्नं ब्रह्मेत्याद्युपासामित्यनुव्याख्यानमूलटीकाप्रपञ्चावसरे प्राक् व्याकृतं विस्तरेण । उत्तरत्र च व्याकरिष्यते सन्तीति त्रिविधमपि सत्वं विवक्षितमित्युत्तरमूलानुसारेण सत्ताया स्वरूपादिभेदेन त्रैविध्यसिध्या भाष्ये सत्तापदेनै वस्वरूपस्यैव प्रतीतिप्रवृत्योरपि प्राप्तेः पृथक्तदुभयोपादानवैय्यर्थ्यमित्याशङ्कापरिहाराय सत्तापदं तदर्थैकदेशपरतया योजयति । सत्तास्वरूपमिति मूलम् । अनेन सत्ताया अपीत्यादिरूपभाष्येऽन्यत्रापि तत्वसङ्ख्यानटीकादौ सत्तादिशब्दप्रयोगस्थले सत्तापदमेकदेशपरमन्यथा पदान्तरवैयर्थ्यप्रसङ्ग इत्यापि सूचितम् । केचिदित्युत्तरग्रन्थे सत्तायास्त्रिरूपत्वमुच्यते तदनर्थकम् । नचोत्तरभाष्यगतसन्तीत्यस्य स्वरूपमात्रार्थत्वप्रतीतिनिरासाय तत् ।