ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ
॥ अथ अन्यत्राभावाधिकरणम् ॥
पातञ्जलमतानुवादः
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ
सुधा
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ इदं सूत्रं केचिदित्थं व्याचक्षते । यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति । एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते । न तृणादिवत्स्वयमेव प्रधानस्य परिणामो वक्तव्यः । यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति । कुतः । अन्यत्रानडुहोपभुक्ते तदभावादिति । अत्राशङ्कैव तावदनुपपन्ना । पयोऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात् । प्रत्युदाहरणं च सूत्रप्रणयनायोगात् । परिहारोऽप्ययमनुपपन्नः । गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात् । न पुनरीश्वरापेक्षत्वम् । अतो नायं सूत्रार्थः । किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यति साङ्ख्यस्त्विति ।
अनुव्याख्यानम्
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥
साङ्ख्यस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ॥
अस्तीश्वरः स्वयंभातः क्लेशकर्मादिवर्जितः ॥
साङ्ख्यमतस्य निरस्तत्वात्किं पुनरुपन्यासेनेत्यतोऽस्य मतस्य ततो विशेषं तुशब्देन सूचयति । तमेव विशेषं व्यनक्ति सेश्वर इति । सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तं क्षेत्रेति । तुशब्दोऽवधारणार्थोऽत्राप्यन्वीयते । यद्यपि सेश्वर इत्यनेनैवेश्वरोऽस्तीति ब्रूत इति सिद्धम् । तथाऽपि तदनुवादेन विशेषणविधानमेवैतत् । य ईश्वरोऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति । क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्रमुपादानं प्रकृतिः । तदनुग्रहशक्तिरेवेश्वरस्य तेनाभ्युपगम्यते । अतो निराकरणीय एवासाविति । सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तं स्वयंभात इति । स्वयमिन्द्रियाद्यनपेक्षमेव भातः । कर्तरि क्तः । ततश्च सर्वज्ञ इति लभ्यते ॥ ईश्वरत्वोपपादकं विशेषणान्तरमाह क्लेशेति । क्लेशकर्मविपाकाशयवर्जित इत्यर्थः । तथा चाह पतञ्जलिः । ‘क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर’ इति । तथा ‘निर्माणकायमधिष्ठाय संप्रदायप्रवर्तकोऽनुग्राहकश्चे’ति । तत्राविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अनात्मन्यात्मबुद्धिरविद्या । इदं मदीयमित्यभिमानोऽस्मिता । विषयेष्वासक्तीरागः । कोपो द्वेषः । भयमभिनिवेशः । एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहास् तामिस्रोऽन्धतामिस्र इति व्यवह्रियन्ते । वार्षगण्यस्त्वेतानविद्येत्येवाह । कर्मेति विधिनिषेधावुच्येते । आशयशब्देन धर्माधर्मौ । विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति । इतिशब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।
शेषवाक्यार्थचन्द्रिका
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ ननु ‘साङ्ख्यस्तु सेश्वर’ इत्याद्युत्तरभाष्यमनर्थकम् । न च पातञ्जलमतोपन्यासपरं तदिति वाच्यम् । तस्याप्यनर्थकत्वात् । न च पातञ्जलमतनिरासस्य सूत्रार्थतां दर्शयितुं तदिति वाच्यम् । परोक्तसूत्रार्थसम्भवे तत्परित्यागेन पातञ्जलमतनिरासस्य सूत्रार्थत्वाश्रयणस्य निर्निबन्धनत्वादित्यतः परोक्तसूत्रार्थस्यानुपपन्नत्वाद्युक्तं तदनादरेण पातञ्जलमतनिरासस्य सूत्रार्थत्वाश्रयणमित्याशयेन तन्मतोपन्यासतयोत्तरभाष्यं सङ्गमयितुं परकीयं सूत्रार्थमनूद्य दूषयति इदं सूत्रमित्यादिना ॥ स्वयमेवेति । चेतनव्यापारमनपेक्ष्य स्वभावत एव क्षीराकारेण परिणमत इत्यर्थः ॥ स्वयमेवेति । स्वभावत एवेत्यर्थः । न तत्र चेतानापेक्षेत्याशयः । एवमेवाग्रेऽपि तात्पर्यं बोध्यम् ॥ परिहृतत्वादिति । तत्र यथा पयोऽम्बुनोश्चेतनानधिष्ठितयोः स्वभावत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थस्य त्वया वर्णितत्वेन यथा तृणादिकं स्वत एव क्षीरीभवति, एवं प्रधानमपि स्वभावत एव परिणंस्यतीत्येतत्सूत्रनिवर्तनीयशङ्काया अपि तच्छङ्क्षानिवर्तकेन ‘पयोऽम्बुवच्चेत्तत्रापी’त्यनेनैव परिहृतत्वात्सूत्रान्तरानारम्भकत्वादित्यर्थः ॥ प्रत्युदाहरणं चेति । तथा सत्युदाहरणानामानन्त्येन शास्त्रापर्यवसानप्रसङ्गादिति भावः ॥ इति वदतेति । सूत्रकृतेति शेषः ॥ प्रकृतेरिति । गवाद्युपभुक्ततृणादिदृष्टान्तेनेति शेषः ॥ न पुनरीश्वरेति । न च बुद्धिपूर्वकारी तत्रापीश्वर एव सर्वज्ञः सम्भवतीति शङ्कानिराकरणस्यार्थस् तथा चेश्वरापेक्षत्वसिद्धिः स्यादिति भामत्यामुक्तत्वात्कथमेतदिति वाच्यम् । ईश्वरापेक्षायाः सूत्रार्थतया लाभो नेत्याशयात् । तथा हि । अन्यत्रानडुहोपभुक्ते तदभावादिति वदता सूत्रकृता गवादिष्वेव सहकारिविशेषसद्भावमात्रमुक्तं, न पुनश्चेतनरूप एव सहकारीति । येनेश्वरकल्पना तत्र स्यात् । न च परिशेषात्तत्र तत्कल्पनाऽभिप्रेता । औदर्यवह्निविशेषरूपस्य वा अदृष्टादिविशेषरूपस्य वा सहकारिविशेषस्य सुवचत्वेन परिशेषस्यासम्भवादिति ।
मूले तुशब्दानर्थक्यमाशङ्क्य निरस्तसाङ्ख्यमतापेक्षया निरसिष्यमाणसाङ्ख्यमतस्य वैलक्षण्योपदर्शनार्थत्वान्न वैयर्थ्यमित्यभिप्रेत्य किं वैलक्षण्योपदर्शनेनापीत्यतः पुनरुपन्यासवैयर्थ्यशङ्कानिरासस्तत् प्रयोजनमिति भावेनोक्तशङ्कानिरासकतया तं योजयितुं तां शङ्कामुत्थापयति साङ्ख्यमतस्येति । तर्हि वैलक्षण्योपदर्शकतुशब्देनैवोक्तशङ्कानिरासान्मूले सेश्वरपदानर्थक्यमित्याशङ्क्य तुशब्दोपदर्शितविशेषव्यञ्जकत्वान्न वैयर्थ्यमिति भावेन तत्परतया योजयति तमेवेति । नन्वीश्वरस्य क्षेत्रानुग्रहशक्तिमत्त्वस्य सिद्धान्तेऽप्यभिमतत्वात्कथमियं वैषम्योक्तिरित्यो यथेयं वैषम्योक्तिः स्यात्तथा योजयति तुशब्द इति । मूले क्षेत्रानुग्रहशक्तिमानित्यादेरिवास्तीश्वर इत्यस्यापि विधायकताभ्रान्तिं सयुक्तिकं परिहरति यद्यपीति । तर्हि तद्वैयर्थ्यमित्यतोऽनुवादत्वान्न तदिति भावेनानुवादस्यापि किं प्रयोजनमित्यतस्तद्दर्शयति तथाऽपीति । तदनुवादेन विशेषणविधानप्रकारमेव दर्शयति ईश्वरोऽस्तीत्यादिना ॥ इन्द्रियाद्यनपेक्षमेवेति । अत्र तुशब्दोऽवधारणार्थोऽत्राप्यन्वीयत इत्युक्तं भवति ॥ कर्तरि क्त इति । ‘मतिबुद्धिपूजार्थेभ्यश्चे’त्यत्र ‘कर्तरि च ऋषिदेवतयोरि’त्यतः कर्तरीत्यनुवृत्तेर् भातीति भात इति भातेः कर्तरि क्तप्रत्यये निष्पन्नभात शब्देन भानकर्तृत्वलाभात् । भाशब्देन च ज्ञानस्य विवक्षितत्वात्सर्वज्ञत्वस्य लाभ इति भावः । ईश्वरस्य क्लेशकर्मादिवर्जितत्वं परस्य सम्मतमित्यत्र ज्ञापकमाह तथा चेति । सर्वज्ञत्वानुग्राहकत्वयोस्तत्सम्मतत्वेऽपि तद्वाक्यं पठति तथेति । निर्माणकायं लीलाविग्रहमित्यर्थः । इतिशब्दस्याहेति पूर्वेण सम्बन्धः । तत्र के ते क्लेशाः कति चेत्यपेक्षायां प्राधान्यक्रमेण निर्दिशति तत्रेत्यादिना ।
निर्देशक्रमेण तेषां लक्षणान्याह अनात्मनीत्यादिना । अत्रानात्मशब्देन अव्यक्तमहदहङ्कारपञ्चतन्मात्राख्यमष्टकं विवक्षितम् । ततश्चाष्टकविषयत्वादष्टविधत्वं तमोऽपरपर्यायाया अविद्यायाः ‘भेदस्तमसोऽष्टविध’ इत्यादिनोक्तमुपसङ्गृहीतमिति द्रष्टव्यम् । इदं मदीयमित्यभिमान इति । अणिमाद्यष्टविधमैश्वर्यं मदीयमित्यभिमान इत्यर्थः । ततश्चाष्टविधैश्वर्यविषयत्वादष्टविध इत्यस्मिताऽपरपर्यायमोहस्य ‘मोहस्य भेदोऽष्टविध’ इति तन्त्रान्तरोक्ताष्टविधत्वमुपसङ्गृहीतं भवति । विषयेष्विति । शब्दादिषु विषयेष्वित्यर्थः । तेषां च दिव्यादिव्यभेदेन दशविधत्वात्तद्विषयत्वेन रागापरपर्यायमहामोहस्य दशविधत्वसिद्धे‘र्दशविधो महामोह’ इति तन्त्रान्तरोक्तदशविधत्वं सङ्गृहीतं भवति । कोपो द्वेष इति । शब्दादयो दश विषया रञ्जनीयाः स्वरूपतः । एैश्वर्यं त्वणिमादिकं न स्वरूपतो रञ्जनीयं किन्तु रञ्जनीय शब्दाद्युपायस् ते च शब्दादय उपस्थिताः परेणापहन्यमानास् तदुपायाश्चाणिमादयः स्वरूपेणैव कोपनीया भवन्ति । शब्दादिभिर्दशभिः सहाणिमाद्यष्टकमष्टादशविधमिह कोपत्वेन विवक्षितम् । तद्विषयत्वाद्द्वेषापरपर्यायतामिस्रस्य ‘तामिस्रो द्वेषोऽष्टादशधे’ति तन्त्रान्तरोक्ताष्टादशविधत्वमुपसङ्गृहीतं भवति ॥
भयमभिनिवेश इति । देवाः खल्वणिमादिकमष्टविधमैश्वर्यमासाद्य शब्दादीन्भुञ्जानाः, शब्दादयो भोगास्तदुपायाश्चाणिमादयोऽस्माकमसुरादिभिर्नापह्नियन्तामिति बिभ्यति । तदिदं भयमष्टादशविधं तद्विषयत्वादभिनिवेशापरपर्यायान्धतामिस्रस्या‘भिनिवेशोऽन्धतामिस्रं तथा’ इति तन्त्रान्तरोक्ताष्टादशविधत्वमुपसङ्गृहीतं भवति ॥ एत एवेति । अविद्यादयोऽभिनिवेशान्ताः क्लेशा एवेत्यर्थः । यथासङ्ख्यमिति शेषः । एते च पञ्चविपर्ययविशेषा इति पूरणीयम् । यद्यप्यस्मितादयो । विपर्ययप्रभवा न तु विपर्ययरूपास् तथाऽपि यदविद्यया विपर्ययेण कार्यते वस्त्वस्मितादयस्तत्स्वभावाः सन्तस्तदभिनिविशन्त इति विपर्ययस्वभावत्वाद्विपर्ययप्रभेदत्वोक्तिरिति ध्येयम् । एवमविद्यादीनामभिनिवेशान्तानां यथासङ्ख्यं तमआदित्वमित्युक्तम् । अत्रैवैकदेशिमतमाह वार्षगण्यास्त्विति । एतान् तमआदीन् ॥ अविद्यैवेति । न त्वविद्याऽस्मिताद्वेषाभिनिवेशानिति न पूर्वोक्तदोषावकाश इति भावः ।
**परिमल **
ॐ अन्यत्राभावाच्च न तृणादिवत् ॥ अत्र पादे परकृतसूत्रव्याख्यानस्य भाष्यकृता क्वाप्यनिरासात्, तदप्यनुमतमिति मन्दानां भ्रमनिरासाय तदनूद्य स्वयं निरस्यन्नवतारयति इदं सूत्रं केचिदित्यादिना ॥ अत्राशङ्कैवेति । परकृतव्याख्याने सूत्रावतारिकारूपा शङ्कैव न युक्तेत्यर्थः । सूत्रार्थं च निराह परिहारोपीति ॥ अत्रापीति । क्षेत्रानुग्रहशक्तिमानेवेत्यन्वीयत इत्यर्थः । अस्तीश्वर इत्यस्य पौनरुक्तयमाशङ्क्यानुवादपरत्वेन सार्थक्यमाह यद्यपीति ॥ क्षियन्त्यस्मिन्निति । क्षिनिवासगत्योरिति धातोः । अधिकरणे औणादिके‘त्र’ प्रत्यये गुणे च रूपमिति भावः ॥ कर्तरि क्त इति । भातेरकर्मकत्वाद्गत्यर्थाकर्मकेत्यादिना क्तप्रत्यय इति भावः । निर्माणकायमित्यस्य तत्तन्निर्माणानुकूललीलाविग्रहमित्यर्थः । तन्त्रान्तरे तदीयग्रन्थान्तरे । वार्षगण्यस्त्विति । साङ्ख्यैकदेशी कश्चित् ॥ आगामिन इति । बीजावपनकर्तैवेतीत्यत्रस्थेतिशब्दस्य क्षेत्रानुग्रहशक्तिमानेवेति स्वयं भात इति क्लेशकर्मादिवर्जित इत्यादिरूपेण सम्बध्य ब्रूत इत्यनेनान्वय इत्यर्थः ।
यादुपत्यम्
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ स्वयमेवेति । न चेतनव्यापारमपेक्षत इत्यर्थः । एवमग्रेऽपि । पयोऽम्बुवदिति । तत्र यथा पयोऽम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थ इत्युक्तत्वेनास्याः शङ्कायास्तेनैव परिहृतत्वादित्यर्थः ॥ इति वदतेति । सूत्रकृतेति शेषः ॥ प्रकृतेरिति । गवाद्युपभुक्ततृणादिदृष्टान्तेनेति भावः ॥ न पुनरीश्वरेति न च बुद्धिपूर्वकारी तत्रापीश्वर एव सर्वज्ञः सम्भवतीति शङ्कानिराकरणस्यार्थ इति भामत्यामुक्तत्वात्कथमेतदिति वाच्यम् । ईश्वरापेक्षायाः सूत्रार्थतया लाभो नेत्याशयात् । तथा हि अन्यत्रानडुहोपभुक्ते तदभावादिति वदता हि सूत्रकारेण गवादिष्वेव सहकारिविशेषसद्भावमात्रमुक्तं न पुनश्चेतनरूप एकसहकारीति, येनेश्वरकल्पना तत्र स्यात् । न च परिशेषात्तत्र तत्कल्पनाऽभिप्रेता । औदर्यवह्निरूपविशेषस्य वा, अदृष्टादिविशेषरूपस्य वा, सहकारिविशेषस्य सम्भवेन परिशेषस्यासम्भवादिति अत्रापीति । सेश्वरः साङ्ख्यस्त्वित्थं ब्रूते इत्यत्र अन्वयस्य सिद्धत्वादत्रापीत्युक्तम् । समुच्चयार्थस्यात्रायोगादवधारणार्थ इत्युक्तम् ।
**श्रीनिवासतीर्थीया **
ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ ॥ इति सिद्धमिति । तथा चास्तीश्वर इत्येतद्-व्यर्थमिति भावः । क्षियन्तीति । निवसन्तीत्यर्थः । क्षि निवासगत्योरिति धातुः ॥ निर्माणकायं जगन्निर्माणोपयुक्तं लीलाविग्रहम् । एतान् तमआदीन् । अत एव पञ्चपर्वाऽविद्येति प्रसिद्धिः।
**वाक्यार्थरत्नमाला **
अन्यत्राभावाधिकरणम् । ॐ अन्यत्राभावाच्च न तृणादिवत् ॐ । उपन्यासपरमिति । उपन्यासरूपप्रयोजनवत्वान्नानर्थकं भाष्यमित्यर्थः । तस्यापीति । बुध्या विविच्य उपन्यासस्यापीत्यर्थः । ततश्चोपन्यासपरं भाष्यमनर्थकमेवेति भावः । तदितीति । उपन्यासपरभाष्यमित्यर्थः । यद्वोपन्यसनस्य पर्यायशब्दप्रकृतस्य तच्छब्देन नपुंसकेन परामर्श इत्यव्यवहिताक्षेपोऽयम् । सन्त्येव तन्मतोपन्यासे तन्निरासस्य सूत्रार्थतया प्रदर्शनसम्भवादिति भावः ॥ शिष्टमुत्तराधिकरणे उपपादयिष्यामः । तन्मतेति । पातञ्जलमतेत्यर्थः । निरासतयेत्यस्य निरासपरतयेत्यर्थः । उत्तराधिकरणे निरासपरतयेत्येव वक्ष्यति । शाङ्करभाष्याद्यनुसारेण तात्पर्यमाह । चेतनव्यापारमिति । क्षीरीभवतीत्यस्य व्याख्यानं क्षीराकारेणेत्यादि । अग्रेऽपीति । न तृणादिवत्स्वयमेवेत्याद्युत्तरवाक्येपीत्यर्थः । मूले आशङ्काऽकिलेत्यत्र किलेतिशब्दो वाक्यालङ्कारे । नत्विदं किमु परस्येत्यादाविव निश्चयार्थः । यथा क्षीरमचेतनमित्यादिभाष्यमर्थतोऽनुवदति । यथापयोम्बुनोरित्यादि । चेतनाधिष्ठितयोरिति परिहारभाष्यानुसारेण स्वभावत इत्येतदेव विवृतं चेतनानधिष्ठितयोरिति । शङ्कार्थस्येति । पयोम्बुवच्चेतिशङ्काभागार्थस्येत्यर्थः । इत्येतत्सूत्रेति । एवंरूपा या शङ्केत्युत्तरेण सम्बन्धः ।
तच्छङ्केति । यथा पयोम्बुनोरित्यादिशङ्केत्यर्थः । अत्र च वर्णितत्वेनेतीत्थम्भूतलक्षणे तृतीया । तच्छङ्कानिवर्तकत्वं प्रकारं प्राप्तस्योक्तं वर्णनं लक्षणम् । उक्तशङ्कार्थवर्णनं दृष्ट्वा पयोम्बुवच्चेत्यत्रापीत्यस्मिंस्तच्छङ्कानिवर्तकत्वस्य ज्ञायमानत्वात् । ततश्च वर्णनप्रयुक्ततच्छङ्कानिवर्तकेनेति संपूर्णसूत्रविशेषणं युक्तमिति तच्छङ्कानिवर्तकेन तत्रापीत्यनेनेति वक्तव्यमिति शङ्कानवकाश इति ज्ञेयम् । तथाविधसूत्रेणेव यथा तृणादिकमित्यादिशङ्काया अपि परिहृतत्वादिति योजना । प्रत्युदाहरणे चेत्युत्तरवाक्यानुसारेण तात्पर्यमाह । सूत्रा(न्तरा)नारम्भकत्वादित्यर्थ इति । सूत्रारम्भकप्रयोजकत्वानुपपत्तेरित्यर्थः । अयोगमुपपादयति । तथासतीति । अन्यत्राभावादित्येतद्-व्याख्यानानुवादेऽपि सूत्रानुवादाभावेन सूत्रकारीयत्वं वदनस्य प्रतीयत इत्यतः परेण व्याख्यातसूत्रखण्डस्य तदुक्तरीत्यार्थानुवादोऽयमिति दर्शयन्नाह । सूत्रकृतेति । शेष इति । शङ्कानिराकरणस्यार्थ इति । निराकरणपरसूत्रखण्डस्यार्थ इत्यर्थः । सूत्रार्थतयेति । सूत्राक्षरलाभाया तस्यैव सूत्रार्थतया वाच्यत्वम् । त्वदुक्तार्थस्योत्सूत्रार्थत्वेन तेन तल्लाभे व्यर्थ एव । सूत्राक्षरपर्यालोचनायान्तु नेश्वरापेक्षालाभ इत्यर्थः । सूत्राक्षरमर्यादया तल्लाभाभावमेव दर्शयति । तथाहीति । अन्यत्रानुडुहेत्यादिना ॥ औदर्येति । जाठरेत्यर्थः । अदृष्टादीत्यादिपदेन संस्थानपरिग्रहः । असम्भवादितीत्यत्रेतिशब्द ईश्वरापेक्षाभावप्रदर्शनपरिसमाप्तौ । विधायकतेति । ईश्वरसद्भावविधायकतेत्यर्थः । मतिबुद्धिपूजार्थेभ्यश्चेति । बुद्धेः पृथगुपादानान्मन ज्ञाने इति, धातोरनेकार्थत्वान्मतिरिच्छाबुद्धिर्ज्ञानं पूजा अर्चनम् । एतदर्थकेभ्यो धातुभ्यो वर्तमाने क्तप्रत्ययो भवतीति सूत्रार्थः । सतां मतः । इष्ट इत्यर्थः । बुद्धः विदित इत्यर्थ इत्याद्युदाहरणम् । कर्तरि च ऋषिदेवतयोरिति । पुवः संज्ञायामिति पूर्वसूत्रापुव इति वर्तते । पूङ्धातो पूञ् धातोर्वा करणे कर्तरि च कारके इत्यत्र प्रत्ययो भवतीति सूत्रार्थः । ऋषौ वाच्ये पूयतेऽनेनेति पवित्रम् । देवतायां तु अग्निः पवित्रं समा पुनातु । सोमः पवित्र इत्येवं कर्तरि चोदाहरणम् । कर्तरीत्यनुवृत्तेरिति । यद्यपि वृत्यादौ कर्तरि चेति पूर्वसूत्रात्कर्तरीत्यस्य मतिबुद्धीति सूत्रेऽनुवृत्तिमाश्रित्य क्तप्रत्ययः कर्तरि न व्याख्यातः । तथाचानुवृत्तेरिति निर्मूलमित्याभाति । तथापीहानुवृत्तेरित्यस्याभियुक्तप्रयोगसंरक्षणायानुवृत्तेर्व्याख्यातुं शक्यत्वादित्यर्थकतया स्वयंभात इत्येतत्प्रयोगस्याप्यभियुक्तप्रयोगतया तत्संरक्षणायानुवृत्तिर्व्याख्येयेत्यत्र तात्पर्यान्न दोष इति द्रष्टव्यम् । स्वयंभात इति परोक्तिस्तट्टीकाकारैः कर्तरि क्तप्रत्ययाश्रयणेन व्याख्याता स्तदनुवादश्च टीकायामिति न दोष इत्यप्याहुः । दीप्त्यर्थकत्वाद्भाधातोः प्रकृतोपयोगायानेकार्थतां धातूनामाश्रित्याह । भाशब्देन चेति । साङ्ख्यपरीक्षाद्यनुसारेणाह । अत्रानात्मशब्देनाव्यक्तेत्यादि । तमोऽपरपर्यायाया इति तमोऽपरपर्यायाया अविद्याया भेदस्तमसोऽष्टविध इत्यादिनोक्तमष्टविधत्वमिति सम्बन्धः । तन्त्रान्तरोक्तेति । एतत्प्रकरणं निष्कास्यमस्ति द्वेषाभिनिवेशानीतीति । अत्र च न त्वित्यादिर्मूले शेषः पूरणीय इत्याशयेन प्रवृत्तेर्मूलोक्तमाहेति संयोज्यमिति सिद्धमित्यभिनिवेशानित्याहेतीत्यर्थलाभ इति ज्ञेयम् ।
क्षेत्रशक्तिमती सैव प्रकृतिः
क्षेत्रशक्तिमती सैव प्रकृतिः
सुधा
वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाह क्षेत्रेति ।
अनुव्याख्यानम्
क्षेत्रशक्तिमती सैव प्रकृतिः …….
या जगदुपादानं सा प्रकृतिरेवोपादानत्वशक्तिमतीति ब्रूते । न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् । व्यावर्त्यान्तरमाह बीजेति ।
अनुव्याख्यानम्
……. …….. बीजशक्तिमान् ॥
जीवः, पर्जन्यवत् …… ……..**
अत्राप्येवेति सम्बध्यते । शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः । जीव एव तद्वानिति ब्रूते । न तु तदीयां बीजशक्तिं तत्त्वविद इव भगवदधीनाम् । यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आह पर्जन्यवदिति । यथा हि पृथिव्याः कलमादिबीजानां चोपादानत्वबीजत्वशक्ती यद्यपि स्वायत्ते । तथाऽप्यंकुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनुग्राहकत्वम् । तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वेऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।
तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याह दैवेति ।
अनुव्याख्यानम्
…. …… दैवशक्तिमानीश्वरः स्मृतः ॥
दैवशब्दोऽदृष्टस्वरूपत्वमाह । तेनान्वयव्यतिरेकाविषयत्वं लक्ष्यति । तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहकोऽङ्गीकरणीय इत्यत उक्तं स्मृत इति । ‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरमि’त्यादाविति शेषः । स्मृत इत्युपलक्षणम् । श्रुत इत्यपि ग्राह्यम् ।
प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आह पृथिवीवदिति ।
अनुव्याख्यानम्
….. पृथिवीवत्प्रधानं तत्
यथा पृथिव्याः स्वायत्तोपादानत्वशक्तिस् तथा तत् तस्मादुपादानत्वात्प्रधानमपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः । उपलक्षणं चैतत् । कलमादिबीजवद्बीजत्वाज्जीवोऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।
शेषवाक्यार्थचन्द्रिका
ननु क्षेत्रशक्तिमतीत्युत्तरभाष्यमनर्थकम् । न च प्रकृत्यादेरुपादानत्वादिशक्तिमत्ताप्रदर्शनार्थं तदिति वाच्यम् । तस्याप्यनर्थकत्वात् । न च क्षेत्रानुग्रहशक्तिमानेवेत्यवधारण व्यावर्त्यप्रदर्शनार्थं तदिति वाच्यम् । तस्याप्यनर्थकत्वात् । न च क्षेत्रानुग्रहशक्तिमानेवेत्यवधारणव्यावर्त्य प्रदर्शनार्थं तदिति वाच्यम् । तत्प्रदर्शनस्यापि प्रयोजनानुपलम्भादित्यतस् तत्प्रदर्शनपूर्वकमवधारणव्यावर्त्यप्रतिपादकतयोत्तरवाक्यं योजयति वेदवादेति ॥ व्यावर्त्यान्तरमाहेति । अत्रापि वेदवादं स्फुटीकर्तुमवधारणस्येति शेषः । क्षेत्रानुग्रहशक्तिमानित्यनुग्राह्यत्वोक्तेः पर्जन्यवदिति पुनरनुग्राहकत्ववर्णनमनर्थकमित्याशङ्ख्योपादानत्वादिशक्तेः प्रकृत्यादिमात्रनिष्ठत्वेनेश्वरस्य प्रागुक्तप्रकृत्यनुग्राहकत्वासम्भवशङ्काया दृष्टान्तोक्त्या तत्समर्थनेति निरासार्थत्वान्न तदिति भावेन तच्छङ्कानिवर्तकतया तद्योजयितुं तां शङ्कामुत्थापयति यदीति । शक्तेरदृष्टत्ववर्णनानर्थक्यमाशङ्क्येश्वरस्य प्रकृत्यनुग्राहकताया अन्वयव्यतिरेकसमधिगम्यत्वाभावसमर्थनार्थत्वान्न तदिति भावेन तत्तात्पर्यमाह तत्किमिति । तथाऽपि स्मृत इति तस्य स्मृतिसिद्धत्ववर्णनमनर्थकमित्यतस् तस्य अप्रामाणिकत्वशङ्कानिरासार्थत्वान्न तदिति भावेन तच्छङ्कानिरासकतया तत्तात्पर्यमाह तत्किमिति ॥ श्रुत इत्यपि ग्राह्यमिति । ‘यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज भूम्यां’ इति श्रुत इत्यपि ग्राह्यमित्यर्थः ॥ तथाऽपि पृथिवीवदिति भाष्यखण्डवैयर्थ्यम् । न च पृथिवीदृष्टान्तेन स्वायत्तशक्तित्वोपपादनार्थमेतदिति वाच्यम् । तस्याप्यनर्थकत्वादित्यतः ‘क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमानित्युक्तप्रकृतिपुरुषस्वायत्तशक्तित्वस्य प्रामाणिकत्वेनोपपादनार्थत्वान्न तदिति भावेन तदप्रामाणिकत्वशङ्कानिरासकतया तद्योजयितुं तां शङ्कामुत्थापयति प्रकृतिपुरुषयोरिति । तावता प्रकृतेरुपादानत्वशक्तेः स्वायत्तत्वसमर्थनेऽपि जीवस्य बीजशक्तेः स्वायत्तत्वस्य मूलेऽसमर्थनात्, नोक्ताक्षेपपरिहारकत्वमस्य मूलस्येत्यतस्तत्सिद्ध्यर्थमपेक्षितं पूरयति उपलक्षणं चैतदिति ।
**परिमल **
अवधारणेति । क्षेत्रानुग्रहशक्तिमानित्यत्रावधारणार्थतयान्विततुशब्दव्यावर्त्यमित्यर्थः । मयाध्यक्षेणेति गीतावाक्यम् । श्रुत इत्यपीति । यो योनिमधितिष्ठतीत्यादाविति भावः ।
यादुपत्यम्
अवधारणव्यावर्त्यमाहेति । क्षेत्रानुग्रहशक्तिमानेवेत्यवधारणव्यावर्त्यमाहेत्यर्थः । अत्रापि बीजभूतबीजावपनेऽपि ।
**वाक्यार्थरत्नमाला **
असम्भवशङ्काया इति । निरासार्थत्वादित्यनेन सम्बन्धः । तत्समर्थनेनेत्यत्र प्रकृत्यनुग्राहकत्वं तच्छब्दार्थः । तत्वनिर्णयटीकातत्वप्रकाशिकयोर्विससर्जेति व्याख्यातम् । तट्टीकायामुपपादनं चात्र ज्ञेयम् । व्यससर्ज भूम्यामिति श्रुतिपाठो नारायणोपनिषद्भाष्यानुसारेण व्याख्येयमस्ति । ‘‘क्षेत्रशक्तिमती सैवे’’त्यनुव्याख्याने शेषो जीव इतीति स्पष्टत्वाज्जीव इत्यंशानुवादः । बीजशक्तिमान् जीव इत्युक्तेति पाठस्तु स्वरस एव ।