कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते
साङ्ख्यैकदेशिमतनिराकरणम्
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते
सुधा
एवमनीश्वरसाङ्ख्यमतं साधारणदूषणैरपाकृत्य ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते तन्मतं दूषयति कर्तृत्वमिति ।
अनुव्याख्यानम्
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ॥
यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति । येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवाद् यद्वैयधिकरण्याङ्गीकारेऽनुभवविरोध इत्यर्थः ।
भ्रान्तोऽयमनुभव इति चेन्न । बाधकाभावादित्याह विभागे चेति ।
अनुव्याख्यानम्
विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥
तयोः कर्तृत्वभोक्तृत्वयोः । विभागे व्यधिकरणत्वे । अकृताभ्यागमकृत विनाशौ चैवं सति स्यातामिति ।
शेषवाक्यार्थचन्द्रिका
न केवलं कर्तृत्वभोक्तृत्वयोर्वैयधिकरण्ये साधकाभावः, किन्तु बाधकसद्भावोऽप्यस्तीत्याह अकृतेति ।
**परिमल **
एवं सति स्यातामिति । कर्तृत्वभोक्तृत्वयोर्व्यधिकरणत्वे सति कर्तुः फलाभावात्कृतस्य पुण्यस्य विनाशो ऽकर्तुश्च फलप्राप्त्या अकृतस्य पुण्यस्याभ्यागमः स्यादित्यर्थः ।
वाक्यार्थरत्नमाला — अयमनुभव इति मूलम् । सामानाधिकरण्यानुभव इत्यर्थः । बाधकेति मूलम् । अनेन यदेव तयोर्व्यधिकरणत्वे प्रमाणं तदेव भ्रान्तित्वसाधकं बाधकं वाच्यम् । न च तत्र प्रमाणमस्तीति भाष्यार्थ उक्तो भवति । अत एव वक्ष्यति । साधकाभाव इति टीकायाम् । अकृतेति मूलस्थ चशब्दसमुच्चयस्याप्रतीतेर्भाष्योक्तः । साधकाभावः । समुच्चेय इति दर्शयति । न केवलमिति । साधकाभावः । ततश्च नास्मत्पक्षे बाधकं किंत्विति योज्यम् ।
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम्
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम्
सुधा
यदुक्तमात्मनो मोक्षो न स्यदिति । तदिष्टापादनम् । प्रकृतेरेव मोक्षाभ्युपगमात् । न च बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः । बन्धस्यापि प्रकृतिगतत्वादिति चेन्न । सकलश्रुतिस्मृतीहासपुराणानुभवैर्बन्धमोक्षयोरात्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरति सर्वेति ।
अनुव्याख्यानम्
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ॥
मायावाद्युपमां यायात् ….. ……
सर्वमानविरोध एव या प्रधानदुर्दीक्षा दुष्टोऽनुष्ठानसङ्कल्पः । तया दीक्षितोऽयं तु साङ्ख्यो मायावादिनामुपमात्वं प्राप्नुयात् । तेऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्र मङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं चाभ्युपगच्छन्ति । तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्ख्योऽयं दृष्टान्तभावमापद्यत इति ।
शेषवाक्यार्थचन्द्रिका
प्रकृतेरेव मोक्षाभ्युपगमादिति । ‘यस्मान्न बद्ध्यते न मुच्यते नापि संसरति कश्चित् । बद्ध्यते मुच्यते संसरति च नानाश्रया प्रकृतिरि’ति तद्वचनादिति भावः । बन्धस्यात्म निष्ठत्वं मन्यमानः शङ्कते न चेति ॥ बन्धस्यापीति । उदाहृतवचनादेवेति भावः ॥ सर्वमानविरोध एवेति । सर्वमानविरुद्धार्थाङ्गीकारलक्षणा या दुर्दीक्षा तया दीक्षित इत्यर्थः । यथा कश्चिद्भस्मादिधारणलक्षणदुर्दीक्षादीक्षितस्तथाऽयमपि सर्वप्रमाणविरुद्धार्थाङ्गीकारलक्षणदुर्दीक्षादीक्षित इति रूपकमेतदिति भावः । उपमाशब्दस्य सादृश्यविशिष्टार्थत्वेऽप्ययं सादृश्यविशिष्टं यायादित्यन्वयप्रसक्त्या प्रकृते तदयोगात् प्रवृत्तिनिमितभूतं सादृश्यमात्रमाश्रित्योक्तमुपपादयति अविद्याया एव सर्वकारणत्वमिति । यद्यपि मायावच्छिन्नं ब्रह्म जगदुपादानमिति पक्षे, रज्ज्वोः सूत्रद्वयमिव मायाब्रह्मणी जगदुपादाने इति च पक्षे नाचेतनाया एवाविद्याया जगत्कारणत्वमस्ति । तथाऽपि मायैव जगदुपादानं, ब्रह्म तु जगदुपादानमायाधिष्ठानमात्रमिति पक्षमवलम्ब्येदमुक्तम् । अयं च पक्षो, यत्र घोषः सा गङ्गेतिवज्जन्माद्यस्य यतस्तद् ब्रह्मेति लक्षणया प्रयोगः यतोऽस्य जन्मादि सा माया, तदाश्रयो ब्रह्मेत्येव निर्देष्टव्यमिति जन्मादिसूत्रव्याख्यानात्, ‘अजामेकामि’त्यादिकारणवाक्यानां साङ्ख्याभिमतप्रधानपरत्वनिरासेनाविद्या परताया एव प्रथमस्य चतुर्थे समर्थितत्वाच्च मुख्यतया स्पष्टमवगम्यत इति ध्येयम् ॥ बन्धमोक्षाधिकरणं चेति । यद्यप्यविद्यानिवृत्तिरूपमोक्षस्यात्मस्वरूपत्वान्नाविद्याधिकरणत्वं मायावादिमतेऽस्तीत्यसदनुवादोऽयमित्याभाति तथाऽपि ‘अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिर् अनादिरनिर्वाच्याऽविद्या’ इति वदता पञ्चपादीकारेणभ्रान्तिकर्मसम्यगनुभवसंस्काराख्यानर्थरूपबन्धस्याविद्याश्रितत्वाभ्युपगमादुक्तबन्धनिवृत्तिरूपमोक्षस्याप्यविद्याश्रितत्वं तस्य सम्मतमेव । बन्धमोक्षयोः सामानाधिकरण्यनियमादित्याशयेनेदमभिधानम् । अत एव ‘सुषुप्त्याद्यनुवृत्तस्याविद्यारूपस्य वाऽविद्यावच्छिन्नत्वरूपस्य वा तत्प्रतिबिम्बितत्वरूपस्य वा सुषुप्त्याद्यननुवृत्तस्य कर्तृत्वप्रमात्तृत्वादिरूपस्य वा संसारस्याज्ञाननिष्ठत्वाभावेऽपि ज्ञानक्रियासंस्काराणामज्ञानस्थत्वादि’त्यादिना बन्धस्याज्ञानाश्रितत्ववर्णनमन्यत्र कृतमित्यवधेयम् ।
**परिमल **
‘तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिरि’ति तदीयवाक्यं हृदि कृत्वाह प्रकृतेरेव मोक्षाभ्युपगमादित्यादि ॥ अनुभवो ऽहं सुखी दुःखीत्यात्मगतत्वेनानुभवः । एकपदार्थः प्रधानेति । सुखदुःखादिरूपबन्धपरिणामत्वात् तद्विलयाधिकरणत्वाच्चाविद्याया इत्येवमुक्तम् ।
यादुपत्यम्
प्रकृतेरेव मोक्षाभ्युपगमादित्यादि । यथाऽऽहुः । ‘तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् । बध्यते संसरति मुच्यते च नानाश्रया प्रकृति’रिति ॥ बन्धमोक्षाधिकरणत्वं चेति । बन्धवत्तद्ध्वंसस्याप्यविद्याकल्पितत्वेन तन्निष्ठत्वादविद्याया मोक्षाधिकरणत्वम् । बन्धध्वंसरूपमोक्षस्यानाविद्यकत्वे च द्वैतापत्तिः । ब्रह्मस्वरूपत्वे च श्रवणादिवैयर्थ्यमिति भावः ।
**श्रीनिवासतीर्थीया **
यदुक्तमिति । तथा च न मुच्येतेत्यनेनेत्यर्थः । तेऽपि मायिनः । असत्कल्पं शून्यतुल्यम् । अङ्गीकारित्वे तद्विषये ।
**वाक्यार्थरत्नमाला **
न च बन्धमोक्षयोरितिशङ्कानवकाश शङ्कानिरासाय तत्प्रसक्तिं दर्शयति । बन्धस्यात्मनिष्ठत्वमिति । विरुद्धार्थेति । अनेन विरोधपदं विरुद्धार्थाङ्गीकारपरमिति सूचितं भवति । रूपकमेतदितीति । उपमारूपो रूपकालङ्कार इत्यर्थः । सादृश्यविशिष्टार्थत्वेऽपीति । योहि यस्योपमा स तन्निष्ठसादृश्य प्रतियोगीति सादृश्यप्रतियोगित्वविशिष्टार्थत्वेऽपीत्यर्थः । मायावादिनो हि साङ्ख्या उपमा । तस्य प्रतियोगितासम्बन्धेन मायावादिनिष्टसादृश्यविशिष्टत्वेन सादृश्यविशिष्टत्वं यायादित्येव वक्तव्यतया सादृश्यविशिष्टं यायादित्युक्तययोगः । नहि स्वस्य स्वविशिष्टत्वमत्रापाद्यमिति शक्यते वक्तुमिति भावः । यद्यपि मायावच्छिन्नं ब्रह्मेत्यादि । विवरणे त्रैविध्यमत्र सम्भवति । रज्ज्वोः सूत्रद्वय द्वयवन्मायाविशिष्टमित्यादि नैतत्पक्षत्रयमुक्तम् । तत्र तृतीयपक्षस्वीकारे निमित्तं पक्षद्वयापेक्षया तृतीयस्य तदभिमतत्वोपपादकं जन्मादिसूत्रार्थत्वादिकमाह । अयं च पक्ष इत्यादि । विवरणानुसारेण लेख्यम् । स्पष्ठमवगम्यत इतीति । अनेन विशेषतस्तदङ्गीकारानुसारेण मूलं प्रवृत्तमित्यभिधाय एवकारणत्वमिति नासदनुवाद इति प्रतिपादितं भवति । आत्मस्वरूपत्वादिति । आत्मैवाज्ञानहानिरिति परोक्तेरिति भावः । पञ्चमप्रकारत्वेऽप्यात्मगताभावरूपधर्मतया नाविद्याधर्मत्वं सम्भवतीति भावः । अविद्याऽधिकारणं यस्येति विग्रहः ।
अनादिरनिर्वाच्याऽविद्येति । यद्यपि पञ्चपादिकायामनादिरविद्येत्येवोक्तम् । तथापि वस्तुतस्तन्मते अविद्यायास्तथात्वाशयेनाहङ्कारस्य सत्यतापत्तिशङ्कावारणाय चाविद्या अनिर्वाच्यत्वेन विशेषिता । अत एव अविद्याकर्मपूर्वेत्युक्ताहङ्कारस्थलीय पञ्चपादिकाविवरणोपन्यासेऽहङ्कारस्यानाद्यनिर्वचनीयाविद्योपादानमिति निर्वचनीयत्वेनाविद्याविशेषितेति ज्ञेयम् । अविद्याकर्मादिपदार्थाप्रतीतेरविद्याया अविद्याभिमतत्वानुपपत्तेश्चाविद्यादिशब्दार्थान् विवरणोक्तानाह । भ्रान्तिकर्मेति । भ्रान्तिश्च कर्मच पूर्वानुभवश्चेति तथोक्ताः । तेषां संस्कारा एव चित्रम् । तस्य भित्तिरिति विग्रहः । भ्रान्तिसम्यगनुभवभेदमनुसृत्य पृथङिनर्देश इति तत्वप्रदीपनानुसारेण भ्रान्तिकर्मसम्यगनुभवानां संस्कारा इत्यर्थः । षष्ट्यर्थसम्बन्धश्चानुकूलत्वम् । ततश्च भ्रान्त्यादेरध्यस्तत्वेन संस्कारादित्रितयजन्यत्वाद्भ्रान्त्यादीना मनुकूलाः संस्कारा इति गुरुचरणैर्न्यायामृतविचारे उक्तेस्तद्रीत्याऽत्रार्थो ज्ञेयः । अविद्याश्रितत्वेति । उपादानभूताविद्याया आश्रयत्वस्यावर्जनीयत्वादिति भावः । तावता मोक्षस्याविद्याश्रयत्वं कथमङ्गीकृतं तेनेति ज्ञेयमित्यत आह । उक्तरूपबन्धेति । युक्तिमाह । बन्धमोक्षयोरिति । बन्धस्याविद्याश्रितत्वं परसंमतमित्यत्रोपष्टंभकमाह । अत एवेति । अज्ञानस्य विवरणोक्तचिन्मात्राश्रितत्वभङ्गीयन्यायामृते किञ्चोपाधेः प्रतिबिम्बपक्षपातित्वं किं तत्र स्वधर्मप्रतिभासकत्वमित्यादि विकल्पितपक्षेष्वाद्यनिरासाय मालिन्यादेर्दपेणादिनिष्टत्ववत् । सुषुप्त्याद्यनुवृत्तस्येत्यादि अज्ञानस्थलेऽपीत्यत उक्तम् । तथाचाविद्यादि रूपस्य संसारस्याविद्यानिष्टत्वं नास्त्येव । ज्ञानक्रियासंस्काराणां त्वन्मतेऽज्ञानस्थलत्वेऽपि नित्यातीन्द्रियाणां तेषामात्मनि कदाप्यप्रतीतेरिति प्रतिपादनात्तदनुसारेण तथैव वक्तव्ये प्रकृतसङ्गानुसारेण संसारान्तराभावेऽपि ज्ञानक्रिया संस्काराणामज्ञानस्थितत्वादित्यपिशब्दादिव्यत्यासेनानुवाद इति ज्ञेयम् । ज्ञानक्रियेत्यत्र ज्ञानपदं भ्रान्तिसम्यगनुभवपरं क्रियतेति कर्म । तथा च भ्रान्तिकर्मसम्यगनुभव संस्काराणामित्यर्थः । अत एव प्रागुदाहृताहङ्कारवादीयपञ्चपादिकायां तद्विवरणे च तथैव प्रतिपादितम् । भ्रान्तिसम्यगनुभवभेदमनुसृत्य पञ्चपादिकाप्रवृत्ता न्यायामृतेतु तद्भेदमनुसृत्य ज्ञानेति साम्येनोक्तम् । अत्र ज्ञानक्रियानुकूलाः संस्कारा इति पूर्वोक्तरीत्याऽर्थः । भ्रान्त्यादेरध्यस्ततया संस्कारदोष संप्रयोगरूपकारणत्रितयाजन्यतया भ्रान्त्याद्यनुकूलसंस्कारस्यैवार्थतया प्राप्तेः । ज्ञानजन्यसंस्कारा इत्यर्थकथनपर तरङ्गिणीदूषणप्रकारस्तु गुरुराजकृदुक्तरीत्या द्रष्टव्यः ।