०५ प्रकृतिकारणत्वसाधकहेतुर्व्यभिचरितः

ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ

प्रकृतिकारणत्वसाधकहेतुर्व्यभिचरितः

ॐ पयोऽम्बुवच्चेत्तत्रापि ॐ

सुधा

किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः । सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते । सत्त्वादयश्च परिमिता एव । यथोक्तम् । अबग्नीरनभोऽहङ्कृन्महत्तत्त्वगुणत्रयैः । क्रमाद्दशोत्तरैः’ इति । न च प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् । न च परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति । सार्वत्रिककार्यानुत्पत्तिरिति चेन्न । सर्वत्र कार्यसद्भावे प्रमाणाभावात् । भावेऽप्यनेकैस्तदुत्पत्त्युपपत्तेः । युक्तं च परिमितानामेव कारणत्वम् । तन्त्वादिषु दर्शनात् । अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च । अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।

समन्वयादित्यप्यसत् । यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमित्यस्या व्याप्तेरव्यक्ताद्य्वक्तजन्माङ्गीकारेणैव भग्नत्वात् । शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम् । अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्यस्य सिद्धौ हि तथा स्यात् । तच्च सत्कार्यवादनिर्वाह्यमिति । अत एव विभागाविभागावपि निरस्तौ । विभागाविभागयोरेव सत्कार्यवादसिद्ध्यधीनयोरसत्त्वात् । स्वप्रक्रियामात्रेणार्थसिद्धौ ‘स्थूलकार्यस्य लोष्ठादेरि’त्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि स्यादित्यास्तां प्रपञ्चः ।

शेषवाक्यार्थचन्द्रिका

एवं मूलोक्तसाधारणदोषैरनुमानानि प्रदूष्य, स्पष्टतया शिष्यैरेवोह्यतामिति भावेन भाष्येऽनभिहितासाधारणदोषैरपि तानि निराकुर्वाण आद्यं तावत्प्रत्याख्याति किञ्चेति । कुत्रानैकान्तिकमित्यतः सत्त्वरजस्तमःस्वेवेत्यभिप्रेत्य तेषु साध्याभावोपपादकं हेतुमुपोद्धातलक्षणसङ्गत्या पूर्वमाह सत्त्वरजस्तमसां साम्यावस्थेति । गुणप्रधानभावपरित्यागेन त्रयाणामपि प्रधानभावेनावस्थितिरित्यर्थः ॥ प्रकृतिरिति । मूलप्रकृतिरित्यर्थः । कथं सत्त्वादिषु व्यभिचार इत्यत उक्तहेतुसत्त्वेऽप्युक्तसाध्याभावादित्यभिप्रेत्य तत्र हेतुवृत्तिमुपपादयति सत्त्वादयश्चेति । किमत्र प्रमाणमित्यत आह यथोक्तमिति । तथाऽप्यव्यक्तान्तरवत्त्वरूपसाध्यस्यापि सत्त्वान्न व्यभिचार इत्यतस्तेषां मूलप्रकृतित्वान्नाव्यक्तान्तरवत्त्वं सम्भवतीत्यभिप्रेत्याह न चेति । प्रकृतिर् मूलप्रकृतिरित्यर्थः । अव्यक्तान्तरवत्त्वे मूलप्रकृतित्वमेव न स्यादिति भावः । न च मूलप्रकृतित्वमेव सत्त्वादीनामसिद्धमिति वाच्यम् । गुणप्रधानभावपरित्यागेन प्रधानभावेनैवावस्थितानां सत्त्वादीनामेव मूलप्रकृतित्वेन तदसिद्धेर शक्यशङ्कत्वात् । एतदेवाभिसन्धायोपोद्घातलक्षणया सङ्गत्या मूलप्रकृतित्वं साम्यावस्थाया उपदर्शितमिति ध्येयम् ।

परोक्तानुमानेऽप्रयोजकत्वं चाह न च परिमितस्यापीति । विपक्षे बाधकसद्भावान्नाप्रयोजकत्वमिति भावेन तदाशङ्कते सार्वत्रिकेति । अनेकैरित्यतःपरं परिमितैरपीति शेषः ॥ अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्चेति । अपरिमितं प्रधानं जगत्कारणमिति वदन्प्रष्टव्य । तत्किं कार्त्स्न्येन महदाद्यात्मना परिणमते किं वैकदेशेनेति । नाद्यः । तथा सति कृत्स्नस्यापि प्रधानस्य कार्याकारताप्रसक्त्या, स्थितौ प्रधानाभावेन, प्रकृतिपुरुषविवेकार्थोपदेशानर्थक्यापातात् । नान्त्यः । तथा सत्येकदेशाङ्गीकारेण अन्त्यावयवत्वप्राप्याऽनित्यत्वप्रसङ्गादित्यपरिमितस्य प्रधानस्य कृत्स्नैकदेशविकल्पाभ्यां कारणतानुपपत्तेरित्यर्थः । यद्वा कृत्स्नस्य प्रधानस्य महादाद्यात्मना भवने महदादेरप्यपरिमितमूलकारणकत्वादपरिमितत्वं स्यात् । यद्यावत्परिमाणोपेतमूलकारणकं तत्तावत्परिमाणकं यथा पलपरिमाणसुवर्णकारणकं कटकं पलपरिमाणकं दृष्टम् । न च महदादेरपरिमितत्वं परेणाङ्गीकर्तुं शक्यम् । तथा सति भेदानां महदादीनां परिमाणात्परिमितत्वादित्युक्तहेतोरसिद्धिप्रसङ्गात् । नाप्येकदेशेन परिणामः । अपरिमितस्य द्रव्यस्य निरवयवत्वनियमेनैकदेशायोगादित्यर्थः । यद्वा शक्तितः प्रवृत्तेश्चेत्यस्य कारणं हि शक्तं कार्याकारेण व्यक्तीभवति । तत्र कारणस्य शक्तिर्नामान्तर्भावितकार्यकत्वमेवेति व्याख्यातत्वंनैकदेशेन कारणत्वेऽन्तर्भावितकार्यकैकदेशत्वस्यैव प्राप्त्याऽन्तर्भावितकार्यकत्वाभावेन तत्राप्यसिद्धिप्रसङ्ग इति । तथा च परिमितत्वेऽपि सत्त्वादेर्मूलप्रकृतित्वेनाव्यक्तान्तरवत्त्वाभावादनैकान्त्यमेवेति हृदयम् । यद्यप्युदाहृतप्रमाणोक्तं गुणत्रयं परिमितमपि न मूलप्रकृतिः किन्त्वादिकार्यमेवेति अव्यक्तान्तरवत्त्वरूपसाध्यसत्त्वादेव न स्वमते तत्र व्यभिचारः । तदन्यमूलप्रकृतेश्चाव्यक्तान्तरवत्त्वाभावेऽपि न स्वमते तस्याः परिमितत्वमिति हेतुविरहादेव न तत्रापि व्यभिचारः । तथाऽपि महदादिकारणगुणत्रयातिरिक्तप्रकृत्यनङ्गीकारिणः परस्य मते गुणत्रयस्यैव मूलप्रकृतित्वेन तत्र चाव्यक्तान्तरवत्त्वाभावस्य परेणाभ्युपगतत्वात्तद्रीत्यैवैतद्-व्यभिचारोद्भावनमित्यवधेयम् । नन्वपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्त्या न कारणत्वानुपपत्तिर्वक्तुं शक्या । तथा सति सिद्धान्तेऽप्यपरिमिततया प्रकृतेः कृत्स्नैकदेशविकल्पानुपपत्त्याऽकारणत्वप्रसङ्गादित्यतः सिद्धान्ते निरवयवस्यापि प्रधानस्य परमेश्वराचिन्त्यशक्तिवशेन कार्यानुगुण्येनैव परिणामसम्भवान्न कृत्स्नप्रसक्तिरित्याशयेनाह अस्माकं त्विति ।

तच्चेति । अव्यक्तकार्यवत्त्वमेवेत्यर्थः ॥ सत्कार्यवादेति । अत्यन्तसत्कार्यवादश्चासिद्ध एव अन्यथाऽ न्योन्याश्रयः स्यादिति भावः । अत एवेत्युक्तमेव विशदयति विभागाविभागयोरिति । व्यक्त्यव्यक्तिरूपयोरित्यर्थः ॥ सत्कार्यवादसिद्ध्यधीनयोरिति । तथा चान्योन्याश्रय एवेति भावः ॥ स्थूलकार्यस्येति । अत्रेत्यादिनेत्यादिपदेनावयवक्रियाविभागादिन्यायेन विभज्यमानस्याल्पाल्पतरतमादिभावाद्यतो नाल्पीयस्तं परमाणुमाचक्ष्महे इत्यादितदुत्तरवाक्यपरिग्रहः । तथा च स्थूलकार्यस्य लोष्ठस्य विभज्यमानावयवस्यावयवविभागे क्रियमाणे य एतद्विभागावधिर्यदविभागप्रक्रमेण यत्संयोगप्रक्रमेण कार्योत्पत्तिर्भवति स परमाणुर्मूलकारणमिति तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणोरपि विश्वकारणत्वं सिद्ध्येदित्यर्थः ।

**परिमल **

मूलगतं चशब्दमनुक्तसमुच्चयार्थं च मत्वा साङ्ख्यमतानुवादोदाहृतश्लोकस्थान् भेदानां परिमाणात्समन्वयादित्यादीन् हेतून् प्रकृतिकारणत्वसाधकानपि विशिष्य निराह किञ्चेत्यादिना आस्तां प्रपञ्च इत्यन्तेन ॥ अनैकान्तिक इति । सत्त्वरजस्तमोगुणेष्विति शेषः । कथमनैकान्तिकत्वमित्यतः साम्यावस्थापन्नसत्त्वरजस्तमोरूपप्रकृतौ परिमितत्वहेतौ सत्यपि त्वदभिमताव्यक्तकारणकत्वरूपसाध्याभावादिति भावेन तत्र साध्याभावहेतुसत्वे व्यनक्ति सत्त्वेत्यादिना । प्रकृतिरुच्यत इत्यनेन साध्याभाव उक्तः । तदुपपादनं च प्रकृतिरिति वाक्येऽग्रे व्यक्तम् ॥ यथोक्तमिति । तात्पर्यनिर्णये एकविंशेऽध्याये । अप्रयोजकश्च हेतुरिति भावेनाह न च परिमितस्यापीति ॥ अनेकैरिति । परिमितैरिति योज्यम् । कृत्स्नैकदेशेति । कार्त्स्न्येन परिणामे एककार्योत्पत्तौ कार्यान्तरमकारणकमापद्येत । अपरिमितपरिणामरूपकार्यस्याप्यपरिमितत्वं चापद्येत । एकदेशेन परिणामे तु निरंशत्वहानिरिति भावः। कथं तर्हि भवन्मतेप्यपरिमितायाः प्रकृतेः परिणाम इत्यत आह अस्माकं त्विति ॥ अन्तर्भावितेति । अव्यक्तकार्यात्मत्वमित्यर्थः ॥ सत्कार्यवादेति । स च तदनन्यत्वाधिकरण एव दूषित इति भावः । किञ्चेत्यादिनोपक्रान्तदूषणसमाप्तौ इति शब्दः । अत एवेत्युक्तहेतुमाह असत्त्वादिति । तत्र हेतुतयोक्तं सत्कार्येत्यादि ॥ स्थूलकार्यस्येत्यादि । द्रव्यकिरणावल्यां ह्युदयनेन परमाणुसिद्धौ विभागाविभागरूपौ हेतू उक्तौ । तथाहि । ‘स्थूलकार्यस्य लोष्ठादेर् अवयवक्रियाविभागन्यायेन विभज्यमानाल्पतरतमादिभावाद् यतो नाल्पीयस्तं परमाणुमाचक्ष्मह’ इति ग्रन्थेन विभागरूपो हेतुरुक्तः ‘एष ह्ययवावयविप्रसङ्गो न तावन्निरवधिरेव । अनन्तावयवारब्धत्वाविशेषे मेरुसर्षपादीनां परिमाणभेदानुपपत्तेः । नचान्यस्तदवधिः सम्भवति । तस्मान्निरवयवावधिरवयवावयविप्रसङ्ग’ इति ग्रन्थेन कार्यद्रव्यस्यावयवाविभागरूपो हेतुरुक्तस् ताभ्यामित्यर्थः ।

यादुपत्यम्

एवं परोक्तानुमानेषु साधारणान्मूलोक्तान्दोषानुपपाद्य मूलमुपलक्षणमित्यभिप्रेत्या साधारणानपि दोषान्दर्शयति किञ्चेत्यादिना । सत्त्वादिषु साध्याभावमुपपादयितुं तेषां तावत्प्रकृतित्वं दर्शयति सत्त्वरजस्तमसामिति । एवं हेतुमागमेनोपपाद्य प्रकृतित्वेनैव हेतुना साध्याभावस्तत्र साधनीय इत्याशयेनाह न च प्रकृतिरिति । ननूदाहृतप्रमाणोक्तं गुणत्रयं परिमितत्वादेव न प्रकृतिः किन्त्वव्यक्तान्तरवदेव अतो न व्यभिचार इत्यत आह न च परिमितस्येति । अनेकैरित्यनन्तरं परिमितैरिति शेषः ॥ कृत्स्नैकदेशेति । अपरिमितं प्रधानमादिकार्यजनने किं कार्त्स्न्येन प्रवर्तते उतैकदेशेन । आद्ये आदिकार्यस्याप्यपरिमितत्वापत्तिः । द्वितीयेऽपरिमितद्रव्यस्य निरवयवत्वनियमेनैकदेशासम्भव इति कृत्स्नैकदेशविकल्पयोर्दूषणाभ्यामनुपपत्तिरित्यर्थः । तथा चोदाहृतप्रमाणोक्तं गुणत्रयं परिमितमपि मूलप्रकृतिरित्येवाङ्गीकार्यम् । ततश्च तत्रानैकान्त्योद्भावनं युक्तमिति भावः । यद्यप्युदाहृतप्रमाणोक्तं गुणत्रयं स्वमते न मूलप्रकृतिः, किन्त्वादिकार्यमत एव तत्परिमितम् । मूलप्रकृतिरपरिमितैव । तथा च नोक्तानैकान्त्यं सम्भवति । तथाऽपि परमते महत एवादिकार्यत्वात्तदनन्तरमुक्तं गुणत्रयं परिमितमत उक्तरीत्या मूलप्रकृतिरित्येव वक्तव्यम् । अन्यथोक्तदोषापत्तेरिति । परं प्रति प्रौढिवादेनैवेदमनैकान्त्योद्भावनमिति मन्तव्यम् । ननु भवन्मतेऽपि मूलप्रकुतेरपरिमितत्वं नोपपद्यते । कृत्स्नैकदेशविकल्पानुपपत्तेरित्यत आह अस्माकं त्विति । अपरिमितद्रव्यस्य विभिन्नावयवाभावेन निरंशत्वेऽप्यभिन्नावयवसत्त्वेनैकदेशेन प्रवृत्तिरुपपद्यते । तस्यैकदेशस्यांश्यभिन्नत्वेन पुनःकार्त्स्न्यपक्षोक्तदोषापत्तिश्च अघटितघटकेश्वरशक्त्यैव परिहार्येति भावः ॥ अन्तर्भावितेति । अव्यक्तकार्यवत्त्वमेवेत्यर्थः । तच्च सत्कार्येति । सत्कार्यवादश्च प्रागेव दूषित इत्याशयः ॥ विभागाविभागयोरिति । व्यक्त्यव्यक्तिरूपयोरित्यर्थः ॥

स्थूलकार्यस्य लोष्ठादेरित्यादिनेति । ‘स्थूलकार्यस्य लोष्ठादेरवयवक्रियाविभागादिन्यायेन विभज्यमानस्याल्पतरतमादिभावाद्यतो नाल्पीयस्तं परमाणुमाचक्ष्महे । एष ह्यवयवावयविप्रसङ्गो न तावन्निरवधिरेव । अनन्तावयवारब्धत्वाविशेषेण मेरुसर्षपादीनां परिणामभेदानुपपत्तेः । न चान्यस्तदवधिः सम्भवति । तस्मान्निरवयवावधिरवयवावयविप्रसङ्ग इति विज्ञायत’ इति किरणावलीग्रन्थेन प्रतिपादिताभ्यामित्यर्थः । अत्र हि स्थूलेत्यादिनाऽऽचक्ष्मह हत्यन्तेन विभागेन मूलकारणपरमाणुसिद्धिरुक्ता । एष ह्यवयवावयविप्रसङ्ग इत्यादिना चाविभागेन । अत्राविभागो नामावयवावयविनोः सम्बन्धः । कार्यद्रव्यस्य सावयवत्वमिति नियमात् । तदेवावयवावयविप्रसङ्गशब्देनात्राभिप्रेतम् । यथाऽऽहुरेतद्ग्रन्थसंप्रदायाभिज्ञाः ‘यत्कार्यद्रव्यं तत्सावयवं यच्च सावयवं तत्कार्यद्रव्यम् । तथा च यतोऽवयवात्कार्यत्वं निवर्तते तत्र सावयवत्वमपीति निरवयवपरमाणुसिद्धिरिति’ ।

**श्रीनिवासतीर्थीया **

महदादयोऽव्यक्तकारणका अव्यापकत्वादित्यनुमाने सत्त्वादिषु प्रकृतिसंज्ञिकेष्वनैकान्त्यं वक्तुं हेतुमुपपादयति सत्त्वरज इत्यादिना । ननु सत्त्वादेः परिमितत्वान्न मूलप्रकृतित्वं, ततश्च साध्यस्य सत्त्वान्न व्यभिचार इत्यत आह नचेति । बाधकमाशङ्कते सार्वत्रिकेति । सर्वकार्याणां मूलोपादानं प्रकृतिर्यदि परिमिता तर्हीति शेषः । ननु भवन्मतेऽप्यपरिमितायाः प्रकृतेः कारणत्वं कृत्स्नैकदेशविकल्पेनानुपपन्नमेवेत्यत आह अस्माकं त्विति । उपपद्यते अपरिमितद्रव्यभूताया अपि प्रकृतेः सावयवत्वमङ्गीकृत्य एकदेशेन परिणाम इत्यर्थः । तथा सकलकार्यगर्भितं प्रधानाख्यमव्यक्तसंज्ञकं मूलकारणं स्वतन्त्रं स्यादित्यर्थः ॥ तच्चेति अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्येतत्प्रमेयम् । ततश्च सिद्धेऽत्यन्तसत्कार्यवादे उक्तप्रमेयसिद्धिस्तसिद्धौ च तत्सिद्धिरिति परस्पराश्रय इति हृदयम् । एवमुत्तरत्रापि ॥

**वाक्यार्थरत्नमाला **

किञ्च परिमाणादित्यादिग्रन्थस्य भाष्यव्याख्यानरूपत्वाभावादसङ्गति रित्याशङ्कापरिहाराय भेदानां परिमाणादिपरोक्तहेतूनां विशिष्य निरासस्याप्युपलक्षणया भाष्याभिप्रेततया तत्प्रकारप्रदर्शनार्थत्वान्नासङ्गतिरित्याशयेनोत्तरग्रन्थं तथा योजयति । एवं मूलेति । इति भावेन भाष्ये अनभिहिता येऽसाधारणदोषास्तैरिति योज्यम् । आद्यं भेदानां परिणामादित्यन्तम् । साध्याभावेति । साध्याभावमुपपादयितुमिति पूरणीयम् । पूर्वमित्यस्य तावदित्यर्थः । उत्तरत्र साध्याभावस्यापि वचनात्तावदित्युक्तम् । अहङ्कारादिप्रकृतिरूपाणामपि महदादीनामव्यक्तान्तरवत्वादाह । मूलप्रकृतिरित्यर्थ इति । सत्वादीनामेवेति । तथाविधानामेव प्रलयकालीनानां प्रधानसङ्ज्ञेति पूर्वमतोपन्यासावसरे उक्तत्वादिति भावः । श्रुतेस्तु शब्दमूलत्वादित्यधिकरणीय स्थितौ ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादित्येतन्मूलानुसारेणाह । तथा सति कृत्स्नस्यापीति । विकल्पाभ्यामिति । विकल्पपूर्वकानुपपत्तिभ्यामित्यर्थः । अनेन विकल्पाभ्यामनुपपत्तिर्विकल्पानुपपत्तिरिति तृतीयासमासोऽयमित्युक्तं भवति । यद्वेति । एतेच पक्षानुसारेण ज्ञेयाः । परमेश्वराचिन्त्येति । यद्धि युक्त्या विरुद्धेत तदीशकृतमेवहीति । कृत्स्नप्रसक्तिसूत्रीयभाष्योक्तरीत्येति शेषः । सदसत्कार्यवादिनामस्माकं मतेऽपि सत्कार्यवादसद्भावात्तदधीनस्याव्यक्तकार्यवत्वस्य सम्भव एवेत्यतः सत्कार्यवादपदमत्यन्त सत्कार्यवादपरतया व्याकुर्वन्नस्तु तर्हि सत्कार्यवादोऽपीत्याशङ्कां परिहरति । अत्यन्तसत्कार्येति । उत्तरवाक्यपरिग्रह इति । परमाणुरूपानित्येति पृथिवीप्रकरणे किरणावल्यां परमाणुसद्भावे प्रमाणकथनपरं तथाहि स्थूलकार्यस्येत्याद्युक्तं तत्रत्योत्तरवाक्यपरिग्रह इत्यर्थः । आदिपदेन ह्यवयवावयविप्रसङ्गोऽपि न तावन्निरवधिरेवेत्यादे र्निरवयवावधिरेवावयविप्रसङ्ग इति विज्ञायत इत्यन्तस्य परिग्रहः । पदविभागप्रक्रमेणेत्यनुवादः यत्संयोग प्रक्रमेणेति व्याख्यानम् ।