०२ साङ्ख्यप्रणेतुर्नाप्तत्वम्

अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि

साङ्ख्यप्रणेतुर्नाप्तत्वम्

अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि

सुधा

न केवलमुक्तमार्गेणाप्तत्वानुपपत्तिः । किन्नामानुपपन्नभाषित्वादपीत्याह अप्रामाण्येति ।

अनुव्याख्यानम्

अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि ……

अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति । ज्ञानानां प्रामाण्यमप्रामाण्यं च ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्ख्यः । तच्चानुपपन्नमित्यतोऽप्यसौ नाप्तः ।

शेषवाक्यार्थचन्द्रिका

आप्तत्वमुक्तमार्गेणेत्यनेनैव साङ्ख्याचार्यप्रणीतागमस्याप्रामाण्य व्युत्पादनात् किमप्रामाण्यस्वतस्त्वस्येत्युत्तरवाक्येनेत्यत आप्तत्वानुपपत्तौ हेत्वन्तरोपदर्शनार्थत्वान्न तदिति भावेन तत्स्वरूपप्रदर्शनपूर्वकं तत्परतयोत्तरवाक्यं योजयति न केवलमिति ॥ अपिशब्देनेति । अनेनाप्रामाण्यस्वतस्त्वस्य स्वीकारादपीत्यपिशब्दो न केवलमनुपपन्नभाषित्वरूपहेत्वन्तरसमुच्चयार्थः, किन्तु व्याहतभाषित्वोपपादकप्रामाण्यस्वतस्त्वस्वीकारस्यापि समुच्चयार्थ इत्युक्तं भवति ।

**परिमल **

अपिपदस्य षष्ठ्यन्तपूर्वपदेनान्वयमुपेत्याह अपिशब्देनेति । स्वतस्त्वशब्दार्थः ज्ञानकरणेत्यादि ।

वाक्यार्थरत्नमाला — स्वतस्त्वमपि समुच्चिनोनीत्यपिशब्दार्थं दर्शयति । अनेनाप्रामाण्यस्येति ।