०१ पौरुषेयागमनिरासः

आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

पौरुषेयागमनिरासः

आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

सुधा

पौरुषेयोऽपि किं स्मृतीतिहासपुराणलक्षणः । उत साङ्ख्याचार्यप्रणीतः । नाद्यः । तस्याप्यस्मन्मतानुसारित्वात् । ‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान्सृष्ट्यर्थं जगतो विभुः’ इत्यादिवचनात् । न द्वितीयः । तत्प्रामाण्यस्यासंमतेः । आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत्तत्राह आप्तत्वमिति ।

अनुव्याख्यानम्

आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥

उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या श्रुतिविरुद्धभाषित्वादित्यर्थः । वक्तुः साङ्ख्यप्रणेतुः । यद्वा ‘‘इतरेषां चानुपलब्धे’’रित्युक्तमार्गेण । साङ्ख्यशास्त्रेऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवोऽर्थाः प्रतिपाद्यन्ते । अथवा‘ऽविप्रलम्भस्तज्ज्ञानमि’त्याद्युक्तमार्गेणाप्तत्वनिश्चायकप्रमाणाभावादित्यर्थः । ‘कपिलो वासदेवाख्यस्तन्त्रं साङ्ख्यं जगाद ह । ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च । तथैवासुरये सर्ववेदार्थपरिबृंहितम् । सर्ववेदविरुद्धं च कपिलोऽन्यो जगाद ह । साङ्ख्यमासुरयेऽन्यस्मै कुतर्कपरिबृंहितमि’ति पुराणोक्तमार्गेणेति वा । ‘ऋषिं प्रसूतं कपिलमि’त्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् । एतेनैव ‘आगमाद्योगिप्रत्यक्षावगम’ इत्यपाकृतम् ।

शेषवाक्यार्थचन्द्रिका

ननु स्मृतीतिहासादिरूपपौरुषेयागमस्य श्रुतिमूलतयेश्वरस्य सार्वज्ञ्यादि नाऽप्तिमूलतया च प्रामाण्याभ्युपगमादाप्तत्वमुक्तमार्गेणेत्युत्तरग्रन्थानुपपत्तिरित्यतो न स्मृत्यादिविषयं तत् किन्तु साङ्ख्यागमविषयमेवेति नानुपपत्तिरिति भावेन, तर्हि माऽस्तु साङ्ख्यागमः प्रमाणं स्मृत्यादि रूपस्त्वागमः प्रमाणं भवेदेवेति न परोक्तार्थस्याप्रामाणिकत्वसिद्धिर् इत्यतोत्र सम्भावितविकल्पद्वयप्रदर्शनपूर्वकमाद्यपक्षस्य परेणावक्तव्यतां चोपपाद्य द्वितीयपक्षनिरासतयोत्तरमूलं योजयितुं विकल्पद्वयं तावदाह पौरुषेयोऽपीति । स्वमतानुसारितामेव प्रमाणेनोपदर्शयति प्रकृतिमिति । उक्तमार्गेणेति भाष्ये सामान्योक्तिर्नानाप्रकारोपसंहारायेति भावेनानेकधा व्याख्याति ॥ श्रुतिरेवेत्यादिना । किमनेनोक्तं भवतीत्यत आह श्रुतिविरुद्धेति । असिद्धिं परिहरति साङ्ख्यशास्त्रेऽपीति । अथ वेति पक्षेऽभिप्रायमाह आप्तत्वमिति । ननु ‘ऋषिं प्रसूतं कपिलं यस्त्वमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । सुखादनन्तात्पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्तीति । बाभ्रव्यश्रुतिरेव साङ्ख्यशास्त्रप्रणेतुराप्तत्वनिश्चायिकाऽस्तीति कथं तन्निश्चायकप्रमाणाभाव इत्यत उक्तमार्गेणेत्येतत्प्रकारान्तरेण योजयति कपिल इत्यादिना । किमेवं व्याख्यानस्य प्रयोजनमित्यत उक्तशङ्कानिरास एवेत्याह ऋषिं प्रसूतं कपिलमित्यादिश्रुतिवचनमपीति ॥ अनेनैवेति । उक्तमार्गेणेत्यस्य पुराणोक्तमार्गेणेति व्याख्यानेन इत्यर्थः । ‘कपिलो वासुदेवाख्य’ इत्युदाहृतपुराणवाक्यानुसारेण ‘ऋषिं प्रसूतमित्युदाहृतश्रुतिवचनस्य भगवदवतारकपिलपरत्वेन त्वदभिमतसाङ्ख्यप्रणेतृकपिलपरत्वाभावान्न तेन तस्य सार्वज्ञ्यादिसिद्धिरिति भावः । एतेनैवेति । अपौरुषेयागमस्योक्तरीत्या परं प्रति प्रतिकूलत्वात्पौरुषेयस्यापि स्मृतीतिहासादेर् अस्मन्मतानुसारित्वात्तदन्यस्य साङ्ख्याचार्यप्रणीतागमस्य प्रामाण्यस्यैव असंमतेर् न आगमावष्टंभेनापि प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वविषयकयोगिप्रत्यक्षसिद्धिरिति भावः ।

**परिमल **

मूले श्रुतिरित्युपलक्षणं मत्वा श्रुतिरेवेत्यादिवाक्यस्य फलितार्थमाह तस्याप्यस्मन्मतानुसारित्वादिति ॥ इत्युक्तमार्गेणेति । इति पूर्वपादीयस्मृत्यधिकरणसूत्रेण । ‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारत’ इत्यनुव्याख्यानोक्तमार्गेणेत्यर्थः ॥ इत्याद्युक्तमार्गेणेति । जिज्ञासाधिकरणे वेदापौरुषेयत्वोक्तिप्रस्तावे अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत्’ इत्युक्तमार्गेणेत्यर्थः । तथैवासुरय इति । आसुरिनाम्ने मुनय इत्यर्थः । साङ्ख्यमासुरय इत्यत्रासुरिरयोग्यः कश्चिज्ज्ञेयः ॥ इति पुराणेति । प्रथमस्कन्धतृतीयाध्यायतात्पर्योक्तपद्मपुराणेति ज्ञेयम् ॥ ऋषिमिति । ‘ॠषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । सुखादनन्ताप्तालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्तीति साङ्ख्यकृतश्रुत्युदाहरणमपि पुराणोदाहरणेन भगवदवतारपरत्वेनोपपादनेन तदभिमतार्थपरत्वं निरस्तमित्यर्थः ॥ एतेनैवेति । वक्तुराप्तत्वनिश्चयायोगकथनेनेत्यर्थः ॥

यादुपत्यम्

ऋषिं प्रसूतमिति ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् । सुखादनन्तात्पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्ती’त्यादिश्रुत्युदाहरणं स्वशास्त्रे क्रियमाणमित्यर्थः ॥ अनेनैव निरस्तमिति । उदाहृतपुराणबलेनैव श्रुतेर्भगवदवतारकपिलपरत्वस्यैव कल्पनादिति भावः ।

**श्रीनिवासतीर्थीया **

एतेनैवेति । ननु प्रधानं स्वातन्त्र्येण जगत्कारणमित्यत्र योगिप्रत्यक्षं मानम् । न च न ह्येवं योगिनः पश्यन्तीत्यत्र प्रमाणमस्तीत्युक्तमिति वाच्यम् । आगमस्यैव प्रमाणस्य तत्र सत्त्वादिति त्येतदप्येतेनैव अपास्तम् । भृग्वादीनां योगिनां वासृदेवेन स्वोक्तसाङ्ख्यशास्त्रोपदेशस्यागमसिद्धत्वात्तच्छास्त्रोक्तप्रकारेण च ज्ञातव्यत्वात् । तत्र च प्रधानाद्यस्वातन्त्र्योक्तेः । प्रधानादिक मस्वातन्त्र्येणैव जगत्कारणमित्येव पश्यन्तीत्यागमाल्लब्धत्वेन नागमाद्योगिप्रत्यक्षावगम इत्यर्थः । स्मृतीति हासादीति । ईश्वरप्रणीतेति शेषः । पौरुषेयागमस्येति । श्रुतिमूलतया आप्तिमूलतया च प्रामाण्याभ्युपगमादिति सम्बन्धः । आप्तिमूलकत्वमुपपपादयितुमुक्तमीश्वरस्य सार्वज्ञ्यादिनेति । आदिपदेन विप्रलम्भाभावादिपरिग्रहः । इत्यादिश्रुत्युदाहरणमपीतीत्येव प्रतीकोपादानम् । श्रुतिवचनमपीतीति पाठे तु उदाहरणशब्दो मूलेन भावसाधनोऽपि उदाह्रियत इत्युदाहरणमिति कर्मसाधनस्तथा च श्रुतिवचनमपीति मूलवाक्याकार इति द्योतयितुं वचनमपीति प्रतीकोपादनमित्यप्याहुः । त्वदभिमतसङ्ख्यशास्त्रेति । अत्र त्वदभिमतेति साङ्ख्यशास्त्रस्य विशेषणम् । प्रधानस्य स्वातन्त्रेणेति । प्रधानस्य यत्स्वातन्त्र्येण जगत्कारणत्वं तद्विषयकेति योजना ।