१२ साङ्ख्योक्तश्रुतिनिरासः

श्रुतिरेव प्रमा हि नः

साङ्ख्योक्तश्रुतिनिरासः

श्रुतिरेव प्रमा हि नः

सुधा

नाप्यागमः । स ह्यपौरुषेयः पौरुषेयो वा स्यात् । नाद्य इत्याह श्रुतिरेवेति ।

अनुव्याख्यानम्

…. …… श्रुतिरेव प्रमा हि नः ॥

श्रुतिर्नोऽस्माकमेव मते प्रमा हि । सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति । प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति । तथा हि । ‘यः सर्वज्ञः सर्ववित्’ । ‘यो योनिमधितिष्ठत्येक’ इत्यादि । तथा च श्रुतिः परस्य प्रतिपक्षभूतैव ।

शेषवाक्यार्थचन्द्रिका

‘ननु श्रुतिरेव प्रमा हि न’ इति श्रुतिप्रामाण्यमुक्त्वा कथं तद्विरुद्धं वक्तुराप्तत्वासिद्ध्या तदप्रामाण्यवर्णनमित्यतो नैतद्द्वयं श्रुतिविषयं येनोक्तदोषः, किन्तु भिन्नविषयकमित्यभिप्रेत्य तथोत्तरवाक्यद्वयं योजयितुं सम्भावितविकल्पद्वयप्रदर्शनपूर्वकमाद्यपक्षनिरासपरतयाऽऽद्यवाक्यं योजयति नापीति । ननु श्रुतितुल्यतया ‘अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यत’ इत्यादिना प्रत्यक्षादेरपि प्रामाण्याभ्युपगमात्कथं ‘श्रुतिरेव प्रमा हि न’ इत्युक्तिरित्यतोऽत्रावधारणस्य भिन्नक्रमत्वेन यथास्थितसम्बन्धानाश्रयणान्नानुपपत्तिरित्यभिप्रेत्य भिन्नक्रमतया तद्योजयति श्रुतिरिति । कथं श्रुतेः स्वपक्षमात्रसाधकतेत्यत आह ॥ सर्वाऽपि हीति । तत्र सार्वज्ञ्यादिविशिष्टतयेश्वरप्रतिपादिकां श्रुतिमुदाहरति तथा हि ॥ यः सर्वज्ञ इति । प्रधानस्येश्वरायत्तत्वप्रतिपादिकां श्रुतिमुदाहरति यो योनिमिति ।

**परिमल **

एवकारो भिन्नक्रम इत्युपेत्याह अस्माकमेवेति ॥ योनिम् । जगदुपादानभूतप्रकृतिमित्यर्थः । फलितमाह तथा चेति ।

**वाक्यार्थरत्नमाला **

आद्यं वाक्यमिति । श्रुतिरेवेत्येतद्वाक्यमित्यर्थः । तद्योजयतीति । श्रुतिरेवेत्यवधारणं योजतीत्यर्थः । कथं श्रुतेरित्याद्याहेत्यन्तम् । उपलक्षणमेतत् । अन्यैरपि श्रुतिप्रामाण्याङ्गीकारात्कथं स्वमत एव प्रामाण्यमित्युक्तिश्चेत्यपि ज्ञेयम् । तथाऽस्मन्मत एवेत्यनेनास्मदभिमते जगत्कारणत्वादिविशिष्टेश्वरादावेवेत्यर्थस्य विवक्षितत्वान्नानुपपत्तिरित्यप्याहेत्यपि द्रष्टव्यम् ।