११ परपक्षनिरासः

न च काचित्प्रमोक्तार्थे

परपक्षनिरासः

न च काचित्प्रमोक्तार्थे

सुधा

तदेवं पटाद्युत्पत्तौ चेतनस्य कुविन्दादेः प्रवृत्तेरुपलम्भात्तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवं स्वपक्षं प्रसाध्य परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमिति सूत्रं व्याख्यातुं पीठमारचयति न चेति ।

अनुव्याख्यानम्

न च काचित्प्रमोक्तार्थे….. …..

न केवलमस्मन्मते प्रमाणसद्भावः । किन्तु साङ्ख्योक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे किमपि प्रमाणं नास्ति । तथा हि । किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमोऽथवाऽनुमानं वा । नाद्यः । तध्द्यस्मदादीनां वा योगिनां वा । न प्रथमः । अस्यार्थस्यातीन्द्रियत्वात् । न द्वितीयः । असिद्धेः । न हि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।

शेषवाक्यार्थचन्द्रिका

न चेत्याद्युत्तरभाष्ये प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे प्रमाणाभाववर्णनस्यानर्थक्यमाशङ्क्य रचनानुपपत्तेरित्येतत्सूत्रव्याख्यानार्थं पीठिकारचनरूपत्वान्न तदिति भावेन वृत्तवर्तिष्यमाणार्थप्रदर्शनपूर्वकं तत्परोत्तरवाक्यं योजयति तदेवमित्यादिना । अनेन सूत्रार्थतयेति प्रागुक्तं विवृतं भवति ॥ व्याख्यातुमिति । ‘इदं नाचेतनवश’मित्यादिनेति शेषः । स्वपक्षे प्रमाणसद्भावसमुच्चयद्योतनार्थत्वान्न चशब्दस्यानर्थक्यमित्यभिप्रेत्य समुच्चयप्रदर्शनपूर्वकं परोक्तार्थे प्रमाणाभावोपदर्शनपरतया भाष्यं व्याचष्टे न केवलमिति । प्रमाणसामान्याभावं प्रतिज्ञाय प्रत्यक्षाभावमनुपपाद्य श्रुत्यनुमानरूपतद्विशेषाभावोपपादनमसङ्गतमित्यतस्तन्निरासस्य स्पष्टत्वेन शिष्यैरेव ज्ञातुं शक्यत्वान्न पृथक् तन्निरास इति भावेन स्वयं प्रत्यक्षाभावमुपपादयितु सम्भावितान्पक्षान्विकल्पयति तथा हीत्यादिना ॥ अस्यार्थस्येति । प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वमित्यस्यार्थस्येत्यर्थः ॥ असिद्धेरिति । अस्मान्प्रतीति शेषः । तथा च न तेनाप्यस्माकमुक्तार्थसिद्धिरिति भावः । कुतोऽस्माकं तदसिद्धिरपीत्यतस्तत्साधकप्रमाणाभावादित्याह ॥ न हीति । न तावदेवं योगिनः पश्यन्तीत्यत्रार्थे प्रत्यक्षं मानं सम्भवति । अस्यार्थस्यातीन्द्रियत्वेन तदनवकाशात् । नाप्यनुमानम् । तत्प्रतिबद्धलिङ्गाभावात् । नाप्यागमः । वक्ष्यमाणरीत्या तदसम्भवादिति भावः ।

**परिमल **

ॐ रचनानुपपत्तेश्च ॐ । व्याख्यातुमिति । ‘इदं नाचेतनवशमि’त्यादिना व्याख्यातुं श्लोकद्वयेन तदुपोद्धातमारचयतीत्यर्थः । चशब्दस्यार्थो न केवलमित्यादि । मूले निरासक्रमानुरोधादागमानुमानयोर्व्युत्क्रमेण निर्देश उतागम इत्यादि ।

**श्रीनिवासतीर्थीया **

‘प्रवृत्तेश्चे’ति सूत्रार्थं वदन्नेवोत्तरवाक्यमवतारयति तदेवमित्यादिना । प्रधानं स्वातन्त्र्येण जगत्कारणमित्येवंरूपेणेत्यर्थः ।

वाक्यार्थरत्नमाला — सूत्रार्थतयेति प्रागुक्तमिति । प्रवृत्तेश्चेति सूत्रार्थतया प्रमाणमाहेति यदुक्तं तत्पटाद्युत्पत्तौ चेतनस्य कुविंदादेः प्रवृत्तेरुपलम्भात्तदृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवमनुमानरूपं प्रमाणमाहेति विवृतमित्यर्थः । निरासार्थमित्यनन्तरं मूले प्रवृत्तमिति शेषः ।