प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु
भोक्तृत्वाभावसमर्थनम्
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु
सुधा
नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आह प्रकृतेश्चेति ।
अनुव्याख्यानम्
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुः ……..
भोगं भोगव्यवहारकारणम् । अयं तेषामाशयः । भोक्तृत्वं हि न पुरुषस्य स्वभावः । अपवर्गाभावप्रसङ्गात् । आगन्तुकं तु नोपपद्यते । अपरिणामित्वात् । अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् । न च प्रतीतिविरोधः । प्रतीतेरभावात् । व्यवहार एव हि केवलं भोक्ताऽऽत्मेति । स च कर्तृत्वव्यवहारवत्प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।
शेषवाक्यार्थचन्द्रिका
स च कर्तृत्वव्यवहारवदिति । न चोपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वादित्यादि ग्रन्थानुरोधेन, आरोपरूपकर्तृत्वप्रतीतेरभ्युगमस्य सिद्धत्वात्कर्तृत्वव्यवहारस्य विवेकाग्रहनिबन्धनत्वाभावात् कर्तृत्वव्यवहारवदिति कथं दृष्टान्तीकरणमिति वाच्यम् मतान्तराभिप्रायकत्वात् । तस्य ग्रन्थस्य तदनुरोधेनैतन्मते तदसिद्धेः । एतन्मते तु भोक्तृत्वप्रतीतिवत् कर्तृत्वप्रतीतिरपि नास्त्येवेति युक्तं दृष्टान्तीकरणमित्यवधेयम् ।
यादुपत्यम्
भोक्तात्मेतीति । इदमुपलक्षणम् । अहं सुखी दुःखीत्यादिरपि व्यवहार एवेत्यपि द्रष्टव्यम् ।
**वाक्यार्थरत्नमाला **
ग्रन्थानुरोधेनेति । स्वरूपचैतन्यबलादित्यनुव्याख्यानसम्बन्धि नचैवं कर्तृत्वमप्यङ्गीकर्तुमुचितमित्यत्रत्येति शेषः । कर्तृत्वप्रतीतिरपि नास्त्येवेति । विवेकित्वादप्रसवधर्मिच्चाकर्तेत्यर्थकाकर्तृभावश्चेति कारिकोक्तेरिति भावः ।