०१ भोक्तृत्वसमर्थनम्

स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्

भोक्तृत्वसमर्थनम्

स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम्

सुधा

ननु कर्तृताभावे भोक्तृत्वमपि कथम् । तस्यापि क्रियावेशात्मकत्वादित्यत आह स्वरूपेति ।

अनुव्याख्यानम्

स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥

सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वम् । तच्चात्मनः क्रियावेशमन्तरेण स्वरूपचैतन्येनैवोपपद्यत इत्याहुः । कुतो भोक्तृत्वमाहुरित्यत उक्तं स्वप्रकाशादिति । सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः । यथाऽऽह । भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति । न चैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम् । उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।

शेषवाक्यार्थचन्द्रिका

क्रियावेशात्मकत्वादिति । तस्य च परिस्पन्दनादिलक्षणस्य सर्वगतत्वादिनाऽऽत्मन्यसम्भवादिति भावः । स्वरूपचैतन्यबलादित्युक्तार्थे परस्य सम्मतिमाह यथाऽऽहेति । भोक्तृत्वयोग्यत्वं सुखदुःखाद्यनुभवितृत्वयोग्यत्वं पुरुषस्य चेतनत्वमित्यर्थः ॥ उपपत्तिबाधितत्वेनेति । क्रियावेशो हि कर्तृत्वमित्यादिपूर्वोक्तोपपत्तिबाधितत्वेनेत्यर्थः ।

**परिमल **

प्रकाश्यत इति प्रकाशस् तस्मात्स्वप्रकाशात् । भावसाधनं चेदमित्युपेत्यर्थामाह स्वप्रतीतिसिद्धत्वादिति ॥ उपपत्तीति । क्रियावेशो हि इत्यादिना प्रागुक्तोपपत्तिबाधितत्वेनेत्यर्थः ।

यादुपत्यं

स्वप्रतीतिसिद्धत्वादिति । अनेन मूले प्रकाशशब्दः कर्मणि व्युत्पन्न इत्युक्तं भवति । भोक्तृत्वं स्वरूपचैतन्येनैवेत्यत्र सम्मतिमाह यथाऽऽहेति । नन्वेवं भोक्तृत्वस्य स्वाभाविकत्वापत्त्याऽपवर्गाभावप्रसङ्ग इत्यत उक्तं योग्यतेति । तथा च मोक्षे भोक्तृत्वयोग्यतासत्त्वेऽपि फलोपधानरूपस्य तस्याभावात्पुरुषार्थत्वोपपत्तिरिति भावः ॥

**वाक्यार्थरत्नमाला **

स्वरूपचैतन्येति । स्वरूपचैतन्येनैवेत्युक्तस्यार्थानुवादो बलादित्युक्तार्थ इति । यद्वा स्वरूपचैतन्यबलादित्यस्योक्तार्थ इत्यर्थः। तेन सुधायामिदं वाक्यं नास्तीति शङ्का न भवति ।