११ सत्कार्यवादः

परस्परविभेदश्च कार्याणामालयं भवेत्

सत्कार्यवादः

परस्परविभेदश्च कार्याणामालयं भवेत्

सुधा

अन्यद्भिदोज्ज्ञितमित्युक्तम् । तदसत् । अचेतनानामपि चेतनवत्परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आह परस्परेति ।

अनुव्याख्यानम्

परस्परविभेदश्च कार्याणामालयं भवेत् ॥

आलयं प्रलयपर्यन्तम्, कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः ।**

एतदुक्तं भवति । कार्यं तावत्कारणव्यापारात्प्रागपि सत् । असदकरणात् । असच्चेत् कारणव्यापारात्पूर्वं कार्यं, नास्य सत्त्वं कर्तुं शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ॥ किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा । आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् । न द्वीतीयो ऽसम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः । असम्बद्धत्वेऽपि कारणं तदेव करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत् । सा शक्तिः शक्यविषया वा स्यात्सर्वत्र वा । सर्वत्र चेत्सैवाव्यवस्था । आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् । न च कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदोऽङ्गीकरणीयः । किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य । उपादानोपादेयभावाच्च । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावो, यथा घटपटयोः । संयोगाप्राप्त्यभावाच्च । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः । अप्राप्तिर्वा यथा हिमवद्विन् ध्ययोः । न चेह संयोगाप्राप्ती । तस्मान्नार्थान्तरत्वम् । गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।

एवञ्च कार्याणां परस्परं भेदेऽपि स्वस्वकारणैरभेदात्क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव; इत्यनेनाभिप्रायेणान्यद्भिदोज्खितमित्युक्तमिति । तच्चोक्तम् ‘असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमि’ति ।

शेषवाक्यार्थचन्द्रिका

उदाहरिष्यमाणकारिकागतसत्कार्यमिति प्रतिज्ञानुसारेण प्रतिजातीते कार्यं तावदिति । तत्रोदाहरिष्यमाणकारिकागतमसदकरणादिति हेतुमाह असदकरणादिति । कथमस्य हेतुत्वमित्यतो हेतुं विवृणोति असच्चेदिति । सदसत्त्वे घटस्य धर्मावित्यतो न दोष इति चेत् । तथाऽप्यसति धर्मिणि न तस्य धर्मा इति सत्त्वं तदवस्थमेव । तथा च कथमसत्त्वम् । असम्बन्धेनातदात्मना वाऽसत्त्वे च कथमसन्धटः स्यात् । कारणव्यापारादूर्ध्वमिव प्रागपि ततः सदेव कार्यम् । करणं चास्य सतोऽप्यभिव्यक्तिर् यथा पीडनेन तिलेषु तैलस्य, अवघातेन च धान्येषु तण्डुलानां, दोहनेन च सौरभीषु पयसः । असतः करणे तु न किञ्चिन्निदर्शनमस्ति । न खल्वभिव्यज्यमानं वा उत्पद्यमानं वा क्वचिदसद्दृष्टमिति भावः । तद्गतं ‘उपादानग्रहणादि’ति हेतुं विवृणोति किञ्चेति । अनेनोपादानानि कारणानि तेषां ग्रहणं कार्येणोपादानैः कार्यस्य सम्बन्धादिति यावदिति हेतुविवरणं सूचितं भवति ॥ सर्वसम्भवेति । अनेन सर्वसम्भवाभावादित्येतत्तात्पर्यतो विवृतं भवति । शक्तस्य शक्यकरणादिति हेतुं योजयितुं शङ्कते असम्बद्धत्वेऽपीति ॥ सदेव कार्यमिति । शक्तिभेद एव तादृशो यतः किञ्चिदेव कार्यं न सर्वमिति चेन्न । विकल्पासहत्वात् । तथा हि । शक्तिविशेषः किं कार्यसम्बद्धो वाऽसम्बद्धो वाऽभिमतः । सम्बद्धत्वे नासता सम्बन्ध इति सत्कार्यवादप्रसङ्गात् । असम्बद्धत्वे च सैवाव्यवस्थितिरित्यत्र तात्पर्यात् । नन्वचेतनानामपि चेतनवत्परस्परभेदस्य प्रत्यक्षादिसिद्धत्वादभेदः कथमिति शङ्कापरिहाराय तदभेद एव साधनीय । कार्यस्य कारणव्यापारात्पूर्वं सत्त्ववर्णनं प्रकृतानुपयुक्तं किमर्थमित्यतोऽभेदसाधनार्थमेव तदित्यभिप्रेत्य कार्यस्य प्राक् सत्त्वेऽपि कथमभेदसिद्धिरित्यतस्तत्प्रकारं दर्शयति न चेति । कार्यं कारणाभिन्नं ततः पृथगनुपलभ्यमानत्वादित्यनुमाने कार्यकारणयोरभेदाभावेऽपि कार्यस्यासत्त्वादेव पृथगनुपलब्धिसम्भवादप्रयोजकत्वमित्यतस् तत्सत्त्वसाधनस्य प्रकृतोपयोग इति भावः । न च कारणभावादित्यस्याननुवादापत्तिर्दोष इति वाच्यम् ।

तस्य ह्ययमर्थः । कार्यस्य कारणभावो न हि कारणाद्भिन्नं कार्यं कारणं च सदिति कथं तदभिन्नं कार्यमसद्भवेदिति । तथा च कार्यकारणयोरभेदेन कार्यस्य प्राक् सत्त्वं, तस्माच्च कार्यकारणयोरभेद, इत्यन्योन्याश्रयः स्यात् । अतो भेदसाधनार्थं कार्यस्य कारणव्यापारात्पूर्वमभेदनैरपेक्ष्येण सत्त्वसाधकयुक्तिजातस्यैवात्रानुवाद इति तदननुवादस्यादोषत्वात् । सम्मतं चैतद्ग्रन्थकारस्यापि । अत एव सत्कार्यवादे प्रमाणाभावाच्चेत्यादिना सदकरणादिति कारिकोक्तसत्कार्यवादसाधकयुक्तिनिराकरणावसरे कारणभावाच्चेति युक्त्यनिराकरणं सङ्गच्छते, तस्याः सत्त्वसाधकत्वाभावात् । अन्यथा तदनिराकरणाद्ग्रन्थस्यासामञ्जस्यं स्यादित्यवधेयम् । केचित्तु कारणभावाच्चेत्यस्य कार्यस्य कारणात्मकत्वात् कारणस्य च पूर्वं सत्त्वात्, तदभिन्नमपि कार्यं सदेवेति व्याख्यानं मनसि निधाय, भवेदेतदेवं यदि कार्यस्य कारणाभेदः स्यात् । स एव तु कुत इत्यतस् तत्र प्रत्यक्षं तावदाह न च कारणादन्यदितीत्याहुः । अनुमानान्तराण्यप्याह किञ्चेति ॥ यथेति । धर्मश्च पटस्तन्तूनां तस्मान्नार्थान्तरमिति भावः । उपादानोपादेयभावश्च तन्तुपटयोस् तस्मान्नार्थान्तरत्वमिति भावः ॥ गुरुत्वान्तरेति । यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्यं गृह्यते । यथा पुलिकस्य रुचिकस्य यो गुरुत्वान्तरकार्योऽवनतिविशेषस् ततो द्विपुलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽवनतिभेदोऽधिकः । न च तथा तन्तुगुरुत्वकार्यात्पटगुरुत्वकार्यमधिकं दृश्यते । तस्मादभिन्नस्तन्तुभ्यः पट इति भावः ॥ एवञ्चेति । सत्कार्यवादे सिद्धे सतीत्यर्थः ।

**परिमल **

संमतित्वेनोदाहरिष्यमाणश्लोके सत्कार्यमिति साध्यभागं व्यनक्ति कार्यं तावदिति । अत्रोपात्तहेतुपञ्चकं क्रमेण विवरिष्यन् आद्यं तावद्य्वनक्ति असदकरणादिति । कार्यं कारणव्यापारात्पूर्वमसच्चेदित्यर्थः । द्वितीयतृतीयहेतू क्रमात्कल्पद्वयनिरासकाविति भावेन विवृणोति किञ्चेत्यादिना ।

उपादानस्य कारणस्य कार्येण ममेदं कारणमिति ग्रहणात् सम्बद्धत्वादिति यावदित्यर्थमुपेत्यार्थमाह आद्य इति । शक्तस्येत्यादिनोक्तं घटयितुमाह असम्बद्धत्वेऽपीति । द्वेधा विकल्प्यान्त्यं सर्वेति पूर्वहेतुना निरस्य आद्यकल्पेऽस्य हेतोर्घटनां व्यनक्ति सा शक्तिरित्यादिना ॥ सैवेति । सर्वस्मादित्युक्तेत्यर्थः । कारणभावात्कारणात्मकत्वादिति पञ्चमहेतोरसिद्धिं निरसितुं प्रत्यक्षं तावदाह नच कारणादिति । अनुमानैरपि कारणात्मकत्वं कार्यस्य साधयति किञ्चेति ॥ नार्थान्तरत्वमिति । कार्यकारणयोरित्यनुषङ्गः । अभेदे हेत्वन्तरमाह गुरुत्वान्तरेति । तन्तुपटयोर्भेदे तन्तुषु यद्गुरुत्वं ततोऽन्यच्चषु गुरुत्वं पटे स्यात् । नचेष्टापत्तिः । पूर्वं पटोपादानतन्तूनां तुलायां स्थापने यादृशमवनमनं तदुपादानकपटस्थापनेऽपि तादृगवनमनं न स्यात् । किन्तु पुनरधिकावनतिः स्यात् । गुरुत्वद्धयसत्त्वात् । न च तथोपलभ्यते । अतो गुरुत्वान्तरकार्यस्यावनमनविशेषस्यादर्शनादनन्यत्वं कार्यकारणयोरित्यर्थः ॥ एवं चेति । कार्यस्य कारणाभेदे प्रामाणिके सतीति वा कार्यस्य कारणव्यापारात्प्रागपि सत्वे सतीति वार्थः ।

यादुपत्यम्

उदाहरिष्यमाणकारिकागतमसदकरणादिति हेतुं विवृणोति किञ्च कार्येणेति । अनेनोपादानानि कारणानि तेषां ग्रहणं कार्येण । उपादानैः कार्यस्य सम्बन्धादिति यावदिति तद्-व्याख्यानं सूचयति सर्वसम्भवापत्तेरिति । अनेन सर्वसम्भवाभावादित्यस्य तात्पर्यमुक्तं भवति । शक्तस्य शक्यकरणादित्येतद्-व्याख्यातुमाह असम्बद्धत्वेऽपीति । कारणभावाच्चेत्यस्य कार्यस्य कारणात्मकत्वात्कारणस्य च पूर्वं सत्त्वात्तदभिन्नमपि कार्यं तदा सदेवेति व्याख्यानं मनसि निधाय स्यादेतद्यदिकार्यस्य कारणाभेदः स्यात्स एव कुत इत्याशङ्कायां प्रत्यक्षं तावत्तत्राह न च कारणादन्यदिति । अनुमानान्यप्याह किञ्चेत्यादिना ॥ गुरुत्वान्तरकार्यस्येति । यद्यस्माद्भिन्नं तस्मात्तस्य गुरुत्वान्तरकार्यं गृह्यते । यथा पुलिकस्य रुचिकस्य यो गुरुत्वकार्योऽवनतिविशेषस्ततो द्विपुलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽवनतिभेदोऽधिकः । न च तथा तन्तुगुरुत्वकार्यात्पटगुरुत्वस्य कार्यान्तरं दृश्यते । तस्मादभिन्नस्तन्तुभ्यः पट इत्यर्थः ॥ एवं चेति । उक्तरीत्या सत्कार्यवादस्य समर्थितत्वादित्यर्थः ।

**श्रीनिवासतीर्थीया **

करोतीति । जीवस्येति शेषः ।

**वाक्यार्थरत्नमाला **

उदाहरिष्यमाणेति । मूले साङ्ख्यकारिकोदाहरिष्यते उपष्टंभकतया तत्र सत्कार्यमिति प्रतिज्ञा । असदकरणादित्यादयो हेतवस्तदनुसारेण प्रतिज्ञापूर्वं कथिता इतेत्यर्थः ॥ भामत्यनुसारेण व्याख्यानपरं मूलं तत्राधिकांशं भामत्युक्तमुपयोगानुसारेणाह । सदसत्वे घटस्येत्यादि । तेषां ग्रहणं कार्येण सम्बन्धः । उपादानैरिति पाठः । भामत्यां तथैवोक्तेर्युक्तत्वाच्च । कार्येणेत्यनन्तरं सम्बन्ध इत्येतदभावो लेखकागतः । तात्पर्यत इति । तेन तद्धेत्वनुवादाभाव इति शङ्का नेति भावः । शक्तिभेद एव स तादृश इत्यादिभामत्यनुसारेणाह । शक्तिभेद एवेत्यादि । ननु साङ्ख्यपरिक्षकारिकोक्तरीत्या सदकारणादिहेतु चतुष्टयस्यानुवादेऽपि कारणाभावाच्चेति पञ्चमहेतुत्वनुवादाभाव इत्याशङ्कते । न च कारणभावादित्यस्येति । नास्य हेतोरननुवादो दोषाय । इतरहेतुवदस्योपपन्नत्वाभावेनापाततोऽपि साधकतयोपन्यासानर्हत्वाद् इत्याशयेन तद्धेतोरयोगमुपपादयितुं तदर्थं तावदाह । तस्य ह्ययमर्थ इति । कार्यस्येति । कार्यस्य कारणात्मकत्वादिति भामती । एवमर्थं कथयित्वा तदयोगं दर्शयति । तथाचेति । एवं कारणभावादित्युक्तहेतोरयुक्तत्वेनानुवादानर्हतामुपपाद्य हेत्वन्तरेऽनुवादार्हतां दर्शयन्नुक्ततोहेरनुदाभावस्यादोषतामुपसंहरति । अतोभेदसाधनार्थमिति ॥

कुत एवमनुवादाभावस्यान्यथासिद्धिः कल्प्यते । तदनुवादाभावो दोष एव किं नेष्यत इत्यतो यद्यत्रानुवादाभावो दोषत्वेनेष्यते तर्हि मूलकारीयमुत्तरत्र तदनिराकरणं न सङ्गच्छेतनहि दूषणाय प्रवृत्तेनानुवादावसरे त्यागेकृतेऽपि दूषणावसरेऽपि त्यागः कुत इति शक्यते वक्तुम् । तस्मादनभिप्रेत एवायं हेतुरित्येवेष्टव्यमित्याह । अत एव सत्कार्येत्यादि । आहुरिति कारणव्यापारात्प्राक् कार्यस्य सत्वसाधनमात्रं कृतं न त्वभेदः कथमित्याशङ्कापरिहारायाभेदः साधित इत्यसदकारणादिहेतूनाम सङ्गतिशङ्कापरिहाराय फलमूलकृतः सङ्गतिप्रदर्शनपरस्यास्य वाक्यस्यानुपपन्नतयाऽनुवादानर्हकारणभावाख्यहेत्वनुवादपरत्वाश्रयणायोगः । अत एव मिथ्यात्वखण्डनादावुपनयादेरनुवादाभावसमर्थनमेव कृतमित्याशयः । भामत्यां कार्यस्य कारणाभेदसाधनानिच प्रमाणानीति प्रतिज्ञाय न पटस्तंतुभ्य इत्याद्यनुमानान्युक्तानि तानि मूले उक्तानीत्याशयेनाह । अनुमानान्तराण्यपीति । विशेषानुमानानीत्यर्थः । वक्ष्यति चैतदनुमाननिरासमूलटीकायां विशेषानुमानान्येवेति । भामत्यनुसारेणाधिकमाह । धर्मश्च पठ इत्यादि । भामत्यनुसारेण विवृणोति । यद्यस्माद्भिन्नमिति । यथा पुलिङ्गकस्य । रुचिकस्येति । यथा पुलिकस्येति च भामती रुचिकस्य स्वस्तिकस्येत्यत्र रुचिकं स्वस्तिकं चस्वर्णविकारौ प्रत्येकं भवत इति च तुर्थप्रथमपादीय न प्रतीके न हि स इत्येतत्सूत्रशाङ्करभाष्यस्थनहिरुचिकस्य स्वस्तिकयोरितरेतरात्मकत्वमस्तीति एतद्वाक्य इवार्थो ज्ञेयः ।