ॐ रचनानुपपत्तेश्च नानुमानम् ॐ
निरीश्वरसाङ्ख्यमतानुवादः
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ
सुधा
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ तदेवं समर्थितः पादारम्भः । तत्राद्याधिकरणे निरीश्वरसाङ्ख्यमतं निराक्रियते । न च तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतस् तन्मतस्थितिं तावद्दर्शयति चेतनेति ।
अनुव्याख्यानम्
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ॥
आहुः ….. …… …… ॥
चेतनमचेतनं चेति द्वन्द्वैकवद्भावः । आहुः साङ्ख्या इति शेषः । ननु च विधान्तरासम्भवात्प्रामाणिकैस्तत्त्वद्वयमेव वक्तव्यम्; तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तं निरीश्वरा इति । ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।
शेषवाक्यार्थचन्द्रिका
ॐ रचनानुपपत्तेश्च नानुमानम् ॐ ॥ भाष्यकारीयपरमतानुवाद प्रयोजनोक्त्या तद्वैयर्थ्यं परिहर्तुं सङ्गतिं सूचयन्नेव वृत्तानुवादपूर्वकं वर्तिष्यमाणमर्थं दर्शयति तदेवमित्यादिना ॥ सुबोधं भवतीति । सामयिकानेकपदार्थाश्रितन्यायाभाससन्दृब्धे मते बुद्धिस्थे सत्येव तद्दूषणज्ञानसम्भवादिति भावः ॥ एकवद्भाव इति । ततश्च नैकवचनानुपपत्तिरिति भावः ॥ विधान्तरासम्भवादिति । ऐकविध्यबाहुविध्ययोः प्रत्यक्षादिबाधिततयाऽसम्भवादित्यर्थः ॥ तत्त्वद्वयमेव वक्तव्यमिति । अन्यथा ‘द्विविधं तत्त्वमिष्यत’ इति सिद्धान्तेऽपि तदुक्तिर्न स्यादिति भावः ॥
**परिमल **
ॐ रचनानुपपत्तेश्च ॥ द्वन्द्वैकवद्भाव इति । सर्वो द्वन्द्वो विभाषयैकद्भवतीत्युक्तेरिति भावः ।
**वाक्यार्थरत्नमाला **
रचनानुपपत्तेश्च नानुमानम् । सामयिकेति । समयः शास्त्रं तत्र भवाः सामयिकाः शास्त्रकारीय संकेतविषया ये पदार्थास्तदाश्रिता ये न्यायाभासास्तै संदृब्धे सङ्घटिते इत्यर्थः। ततश्च नैकवचनेति । सर्वो द्वन्द्वो विविभाषयैकवद्भवतीति परिभाषयैकवद्भावसिद्धावेकवचनोपपत्तिरित्यर्थः । तिष्यपुनर्वस्वोरित्येतत्सूत्रीयैतत्परिभाषाविचारस्य पूर्वं भक्तिपादे तत्र तत्र कृतत्वादत्राव्युप्तादनं न दोषाय । प्रत्यक्षादीति । तत्त्वसङ्ख्यानादिटीकोक्तरीत्येति शेषः । सिद्धान्तेऽपितदुक्तिरिति । ननु स्वतन्त्रास्वतन्त्रभेदेन तत्वद्वैविध्यमेव सिद्धान्तेऽभिहितम् । न तु चेतनाचेतनत्वेनेति उक्तप्रकारेण द्वैविध्याश्रयणे सिद्धान्तो न साधक इति चेन्न । चेतनाचेतनत्वाभ्यां तत्वविभागस्याऽपि सिद्धान्तसंमतत्वेपि प्राधान्यमात्रमाश्रित्य स्वातन्त्र्यास्वातन्त्र्याभ्यां विभागः कृतः । नत्वेवं विभागे न्यूनाधिक्यादिबाधकमस्तीति तत्परित्याग इति सिद्धान्तीयद्वैविध्यकथनमप्यत्र साधकं सम्भवत्येव, विधान्तरासम्भवात्सिद्धान्तस्य द्वैविध्यमात्रसाधकत्वाभिप्राये तु न काचिदनुपपत्तिः । अत एवेश्वरं तृतीयत्वेनाशङ्क्य निराकरिष्यतीति द्रष्टव्यम् ।