स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः
द्वितीयपादानारम्भणीयत्वशङ्कापरिहारः
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः
सुधा
नन्वनारम्भणीय एवायं पादः । तथा हि साङ्ख्यादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथयन्तीति शङ्क्यते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ॥ नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ॥ अत एव न चतुर्थः ॥ न द्वितीयः, उक्तार्थविरुद्धानां सकलयुक्तीनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् । प्रबलयुक्तिविरोधोऽत्र निरस्यत इति चेन्न । प्राबल्यं हि युक्तीनां श्रुत्यादिप्रमाणमूलत्वेन तत्संवादित्वेन (वा), बहुत्वेन वा स्यात् । सर्वथाऽपि नाधिकाशङ्कावकाशः । श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तीनां तत्रैव निराकृतत्वात् । काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न । सूत्राणामुपलक्षणार्थत्वात् । अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात् । पादभेदश्चैवं सति न स्यात् ॥ न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ॥
अत्र कश्चिदाह । स्वपक्षसाधनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति । तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् । तस्य युक्तिविरोधो द्वितीयस्य आद्यपादेन निरस्तः । एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपार्थमयं पाद आरभ्यत इति ॥ तदयुक्तम् । परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति । साधनानि च स्मृत्यादीन्येव । निरस्तानि न समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् । किञ्चैवं सति विरोधपरिहारोऽध्यायार्थो न स्यादिति ।
अपर आह । उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापितेऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का । कथम् । यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथाऽपि कारणान्तरं जगतोऽवगमयितुमलम् । ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावाद् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् । अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते । किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ॥ एतदप्ययुक्तम् । तथा हि । किमनेनोक्तं स्यात् । यदि; प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थापना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति । तदोक्तमेवोत्तरम् ॥ अथ; युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणमिति, तन्न । न्यायसाम्येन तासामपि शक्यनिराकरणत्वात् (सार्वज्ञं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।
अतो नायं पाद आरम्भणीय इत्यत आह स्मृतीति ।
अनुव्याख्यानम्
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ॥
एवं चतुर्विधा नैव विरुध्द्यन्तेऽन्वयं प्रति ॥
इति प्रथमपादेन निर्णीतेऽप्यभियोगतः ॥
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥
श्रुतयो गुणा उपसर्जना(नि) यासां तास्तथोक्ताः । चतुर्विधा विरोधिप्रतीतयः । अन्वयं प्रति न विरुध्यन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः । अभियोग आग्रहः । दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्ख्यादिशास्त्राणि । एतदुक्तं भवति । यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्वपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः । तथाऽप्युक्तेऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति । कस्मात् । अभियोगतो (दर्शनानां) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।
शेषवाक्यार्थचन्द्रिका
एवं पादप्रतिपाद्यमभिधाय, इदानीं गतार्थताशङ्कामुत्थापयति नन्विति ॥ स्मृतित्वेनेति । अलौकिकार्थविषयाप्तवाक्यरूपस्मृतित्वेनेत्यर्थः ॥ प्रतिस्मृतीति । पञ्चरात्रादिस्मृतीत्यर्थः ॥ आप्तिनिश्चायकाभावेन चेति । ‘इतरेषां चानुलब्धेः’ ‘एतेन योगः प्रत्युक्तः’ इति सूत्रद्वयोक्तरीत्येति शेषः ॥ प्रथमपाद इति । स्मृत्यधिकरण इति शेषः ॥ अत एवेति । ‘आप्तैः प्रत्यक्षतो दृष्ट्वे’त्यादिना प्रत्यक्षोपेततया प्रबलत्वेन शङ्कितानामपि साङ्ख्यादिस्मृतीनां ‘हरिपूर्वकः । किन्नाशेषविद इत्यादिना नितरां सर्वज्ञविष्ण्वादिप्रत्यक्षमूलकपञ्चरात्रादिस्मृतिविरुद्धत्वेनाप्तिनिश्चायकाभावेन चापस्मृतित्वस्य प्रथमपादे समर्थितत्वादेवेत्यर्थः ॥ तत्रैवेति । प्रथमपादे एवेत्यर्थः । ‘न विलक्षत्वात्’ इत्यादिनेति शेषः । तथा च न परमतानां युक्त्युपेतत्वमिति भावः ॥ श्रुत्यादिप्रमाणमूलत्वेनेति । आदिशब्देन प्रत्यक्षपरिग्रहः । क्वचित्प्रमाणमूलत्वेनेति पाठः । तत्र प्रमाणशब्दः श्रुत्यादिपरो द्रष्टव्यः । तत्र युक्तीनां श्रुतिमूलत्वं श्रुतिरूपप्रमाणसिद्धत्वं; प्रत्यक्षप्रमाणमूलत्वं च तदवधृतव्याप्त्यादिमत्त्वमिति द्रष्टव्यम् । तत्संवादित्वेनेति । श्रुत्यादिप्रमाणसंवादित्वेनेत्यर्थः ॥ बहुत्वेनेति । बहुत्वं चात्रानेकप्रकारं विवक्षितमिति युक्तोऽनेनानेकसङ्ग्रहः ॥ श्रुत्यादिसंवादिनीनामिति । श्रुतिसंवादिनीनां श्रुत्यनुभवसंवादिनीनां चेत्यर्थः ॥ तन्मूलानामिति । श्रुत्यादिमूलानामित्यर्थः ॥ तत्रैवेति । असदधिकरणे श्रुतिसंवादिनीनाम् ‘इतरव्यपदेशादि’त्यत्र श्रुत्यनुभवसंवादिनीनां ‘भोक्त्रापत्तेरि’त्यत्र श्रुतिमूलानाम् ‘अभिमानी’त्यत्र प्रत्यक्षमूलानां, तदनन्यत्वम् इत्यादौ बह्वीनां च युक्तीनां निरस्तत्वात्प्रबलयुक्तिविरोधपरिहारोऽपि पूर्वपाद एव सिद्ध इत्यर्थः ॥ पादेति । युक्तिविरोधपरिहारकत्वे पादद्वयस्यापि युक्तिपादत्वप्रसङ्गादिति भावः ॥ समन्वयस्येति । तथा च न परमतानां श्रुत्युपेतत्वमपीति भावः ॥ स्वपक्षस्थापने जात इति । स्वपक्षसाधकबाधकभावाभावरूपेण द्विविधत्वात् स्वपक्षसाधनस्य; आद्ये स्वपक्षसाधकप्रमाणोपन्यासेन, द्वितीयस्याद्ये च युक्तिविरोधनिरासाद्बाधकपरिहारेण च स्वपक्षस्थापन सिद्धिरिति भावः ॥
परपक्षप्रतिक्षेपार्थमिति । परपक्षे बाधकसाधकप्रमाणभावाभावव्युत्पादनार्थमित्यर्थः ॥ साधननिरासादन्य इति । उपलक्षणं चैतत् । तत्पक्षबाधकप्रमाणकथनादन्य इत्यपि द्रष्टव्यम् । अस्तु तर्हि तदीयसाधननिरासाद्यर्थमेवैतत्पादारम्भ इत्यतो न तावत्साधननिरासार्थत्वमस्य युज्यत इत्याह साधनानि चेति । नापि परपक्षे बाधकप्रमाणभावव्युत्पादनार्थमप्येतत्पादप्रवृत्तिः । आद्यपादेऽपि ‘इतरेषां चानुपलब्धेः,’ ‘एतेन योगः प्रत्युक्तः’ ‘स्वपक्षदोषाच्च’, ‘एतेन शिष्टा अपरिग्रहा अपि व्याख्याता’ इत्यादौ बाधकप्रमाणव्युत्पादनेन परपक्षाणां दुष्टत्वोक्तेस्तवापि सम्मतत्वेन तस्यापि तत्रैव सिद्धत्वेनास्य तादर्थ्यायोगात् ॥ यदि चाद्ये तेषां दुष्टत्वोक्तिः स्वपक्षस्य तैर्विरोधनिरासार्थैवेति न तेन तत्सिद्धिरिति मन्यसे हन्त तर्हीहापि दुष्टत्वोक्तिः स्वपक्षस्य तैर्विरोधनिरासार्थैवेति नानेनापि तत्सिद्धिः । अन्यथोक्तेऽर्थे विरोधपरिहारार्थत्वाभावेनास्य पादस्य द्वितीयाध्यायान्तर्भावो न स्यादित्याशयेनाह किञ्चेति । यद्वा ‘निरस्तानि च समस्तानि तानि प्रथमपाद’ इत्युपलक्षणम् । बाधकप्रमाणान्यपि एतेन योगः प्रत्युक्तः’ इत्यादौ प्रथमपाद एवोपन्यस्तानीत्यपि द्रष्टव्यम् । उभयत्रापि दूषणान्तरमाह किञ्चैवं सतीति । तदीयसाधननिरासकत्वे तत्पक्षबाधकप्रमाणकथनपरत्वे चास्य पादस्येत्यर्थः । उक्तार्थे विरोधपरिहारार्थत्वाभावादिति भावः ॥ उक्तमेवेति । ‘परपक्षनिरासो हि तदीयसाधननिरासादन्यो नास्तीत्यादिने’ति शेषः । प्रागेवेति । ‘न चाप्तिनिश्चयस्तत्र शक्यत’ इत्यादिना पूर्वपाद एवेत्यर्थः ।
उपसर्जनभूता इति । अत्रोपसर्जनत्वं न तन्मूलत्वमात्रेण । तथा सत्येतदधिकरणासङ्ग्रहप्रसङ्गात् । नापि संवादकत्वेनैव । तथा सति भोक्त्रापत्तेरित्याद्यधिकरणासङ्ग्रहप्रसङ्गात् । किन्त्वेतयोरन्यतररूपेणैवेति नानुपपत्तिरिति द्रष्टव्यम् । स्मृतियुक्तीति मूले युक्तिशब्दस्य दृढादृढयुक्तिपरतायाः, श्रुतिगुणत्वस्य च तन्मूलत्वतत्संवादित्वरूपताया बहुत्वस्य चानेकप्रकारताया अभिमतत्वाद्युक्तं विरोधिप्रतीतीनां चतुर्विधत्वमिति द्रष्टव्यम् । अत्रायं विवेकः । आद्येऽधिकरणे स्मृत्या, द्वितीये युक्त्या, तृतीये दृढयुक्त्या, चतुर्थे श्रुतिसंवादियुक्त्या पञ्चमे बहुश्रुतिसिद्धयुक्त्या, षष्ठे बह्वीभिर्युक्तिभिः, सप्तमे बहुप्रमाणसंवादियुक्त्या, अष्टमे व्याघातपर्यवसायित्वेन बहुतमयुक्त्या, नवमे प्रयोजनोद्देशेऽनुद्देशे च दोष इति बहुमुखदृढयुक्त्या, दशमे कर्मादिसापेक्षत्वेऽनपेक्षत्वे च दोष इति बहुमुखदृढयुक्त्या, एकादशे निर्दोषत्वे सति गुणपूर्णत्वरूपमहाप्रमेयविरोधित्वेन बहुतमयुक्त्या विरोधनिरास इत्यन्यत्र विस्तरः । मूले विशेष्यानुक्तेर्योग्यं विशेष्यमध्याहरति विरोधिप्रतीतय इति । विरोधिन्यः प्रतीतयो याभिरिति विरोधिप्रतीतयः, विप्रतिपत्तय इत्यर्थः । विरोधिप्रतीतयो न विरुध्यन्त इति विप्रतिषिद्धमेतदित्यतः स्वकार्याकारितया तथोक्तिरित्यभिप्रेत्य तदभिप्रायमाह अन्वयं प्रतीत्यादिना । दुराग्रहगृहीतत्वादित्युत्तरग्रन्थानुरोधादाह अभियोग आग्रह इति । ‘अनादिकालतो वृत्ताः समयाः,’ ‘वर्तन्ते समयाः सदे’त्युत्तरग्रन्थानुरोधादत्र दर्शनशब्दः शास्त्रपरः न ज्ञानपर इति भावेन तस्य शास्त्रपरतां व्युत्पादयति दृश्यत इति । आशङ्कत इत्युक्तसंशयप्रकारदर्शनपूर्वमभियोगतो दर्शनानां प्रवृत्तत्वस्य तत्रोक्तहेतुत्वं चोपपादयन्नाह एतदुक्तं भवतीति । ‘उपलम्भादिती’त्यत्रत्यस्येतिशब्दस्य पूर्वेणैतच्छब्देन सम्बन्धः ।
**परिमल **
मूलोक्ताभ्यधिकाशङ्कोपपत्तये पूर्वेण गतार्थतया पादारम्भमाक्षिपति नन्वित्यादिना । ‘स्मृतियुक्तिश्रुतिगुणे’ति मूलक्रमानुरोधेन विकल्पयति किं स्मृतित्वेनेत्यादिना । ‘अवशिष्टस्यान्त’ इति न्यायेनाह यद्वा प्रत्यक्षेति । अन्यस्मृत्यनवकाशेति सिद्धान्तसूत्रांशार्थोक्तिः प्रतिस्मृतीति । इतरेषां चेति सूत्रतात्पर्यार्थो ऽपस्मृतीत्यादि ॥ अत एवेति । विष्णुप्रत्यक्षमूलप्रतिस्मृतिपराहतत्वादेवेत्यर्थः । उक्तेति । प्रथमाध्यायोक्तेत्यर्थः ॥ तत्रैवेति । आद्यपादे‘न विलक्षणत्व,’ ‘अभिमानिव्यपदेशस्त्वि’त्यधिकरणद्वय इत्यर्थः । श्रुतिगुणेत्येतद्-व्यावर्त्य(प्रदर्शन)पूर्वं विवृणोति प्रबलेति ॥ श्रुतिगुणेत्यत्र श्रुतिपदमुपलक्षणं प्रत्यक्षस्येत्याशयेनोक्तं श्रुत्यादीति । गुणपदं मूलपरं संवादिपरं चेति भावेन मूलत्वेन तत्संवादित्वेन वेत्युक्तम् । बहुयुक्तय इत्येतद्-व्यावर्त्यं बहुत्वेनेति ॥ श्रुत्यादिसंवादिनीनामिति । तत्रैवेति । ‘इतरव्यपदेशादि’त्यत्र श्रुत्यनुभवसंवादियुक्तेः ‘असदिति चेदि’त्यत्र श्रुतिसंवादियुक्तेः, ‘भोक्त्रापत्तेरि’त्यत्र श्रुतिमूलयुक्तेः ‘तदनन्यत्वमि’त्यादौ बहुयुक्तीनां निरासादिति भावः । परोक्तं गतार्थतापरिहारमनूद्य निराह कश्चिदाहेत्यादिना ॥ स्मृत्यादीति । स्मृतितत्सहभूतयुक्तिश्रुतिप्रत्यक्षाणीत्यर्थः । उक्तमेवोत्तरमिति । ‘परपक्षप्रतिक्षेपो ही’त्यादिनोक्तमेवेत्यर्थः । प्रत्युतेत्यादिनोक्तं मतं निराह सार्वज्ञ्यं(सर्वज्ञत्वं)चेति ॥ प्रागेवेति । ‘इतरेषां चानुपलब्धेरि’त्यत्र ‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारत’ इत्यादिना पूर्वपाद एवेत्यर्थः । उपसर्जना(नीति) इति । उपसर्जनत्वं च मूलतया संवादितया चेति ज्ञेयम् । एवं चतुर्विधा इत्यत्रापेक्षितविशेष्यं पूरयति विरोधिप्रतीतय इति । किमनेनोक्त शङ्कानिरासः कृत इत्यत आह एतदुक्तमिति । ‘परमार्थ’ इत्यन्तेन ‘अप्य’न्तमूलतात्पर्यानुवादः । ‘अभियोगत’ इत्यादेस्तात्पर्य‘मुक्तेऽर्थे पुनरि’त्यादि ।
यादुपत्यम्
मूलमुत्थापयितुमाह नन्विति ॥ अत एवेति । ‘आप्तैः प्रत्यक्षतो दृष्ट्वे’त्यादिना प्रत्यक्षोपेततया प्रबलत्वेनाशङ्कितानामपि साङ्ख्यादिस्मृतीनां ‘हरिपूर्वकाः । किन्नाशेषविदः’ इत्यादिना नितरां सर्वज्ञविष्ण्वादिप्रत्यक्षमूलकपञ्चरात्रादिस्मृतिविरुद्धत्वेनाप्रामाण्यस्य प्रथमपादे समर्थितत्वादेवेत्यर्थः ॥ तत्रैवेति । प्रथमपाद एवेत्यर्थः । ‘असदिति चेदि’त्यत्र श्रुतिसंवादिनीनां, ‘भोक्त्रापत्तेरि’त्यत्र तन्मूलानां’ ‘तदनन्यत्वमि’त्यत्र बह्वीनां युक्तीनां, निराकृतत्वादिति भावः ॥ समन्वयस्येति । तथा च न परमतानां श्रुत्युपेततेति भावः ।
प्रागेवेति । ‘न चाप्तिनिश्चयस्तत्र शक्यते व्यभिचारत’ इत्यत्रेत्यर्थः ॥ उपसर्जनभूता इति । अत्र श्रुतीनां संवादकतया मूलतया वोपसर्जनत्वं विवक्षितम् । मूले ‘स्मृतियुक्ती’त्यत्र युक्तिशब्देन दृढयुक्तिरेवाभिमान्यधिकरणे निरस्ता ग्राह्या । एवं चोक्तानुवादत्वसिद्धिरिति ज्ञातव्यम् । विरोधिप्रतीतयः’ इति (तत्)योग्यस्य विशेष्यस्याध्याहारः ।
**श्रीनिवासतीर्थीया **
अन्यथेति । सूत्राणामुपलक्षणत्वाभावे । स्यात् शास्त्रस्य । एवं सति युक्त्युपेततयोक्तमर्थमन्यथयन्तीति युक्तिविरोधो यदि निराक्रियत इत्यर्थः ॥ एवं सतीति । परपक्षप्रतिक्षेपमात्रस्यैवात्र साक्षात्प्रतिपाद्यत्वेनाद्यपाद इव साक्षाद्युक्तिविरोधनिरासाप्रतिपादनादित्यर्थः । लोके कर्तुरेकस्यैव दर्शनादित्याशयः । न्यायो युक्तिः । वस्तुविकल्पेति । वस्तुनो जगत ईश्वरतदितरकर्तृकत्वरूपविरुद्धधर्मद्वयापत्तेरित्यर्थः । उक्तमेवेति । परपक्षप्रतिक्षेपो हीत्यादिनेति शेषः । तासामपि स्वपक्षविरोधियुक्तिनिराकरणन्यायानां प्रमाणबाधादीनां परपक्षसाधकयुक्तिष्वपि साम्येन निराकर्तुं शक्यत्वादित्यर्थः । स्मृतियुक्ती’त्यत्र युक्तिशब्दो दृढयुक्तिपरो मन्तव्यः । ‘चतुर्विधाः’ इत्यस्य विशेष्यस्यानुक्तेराह विरोधीति । प्रवृत्तानां स्वरूपसतां दर्शनानां कथमेतच्छङ्काजनकत्वमत आह तदिति । तेषां दर्शनानाम् ।
**वाक्यार्थरत्नमाला **
स्मर्यमाणत्वमात्रादेरतिप्रसक्तत्वात्स्मृतिपदार्थमाह । अलौकिकेति । गामानयेत्यादि व्यावर्तनायालौकिकपदम् । अलौकिकार्थविषयवेदवारणायाप्तवाक्यरूपेत्युक्तम् । विस्तरस्तु मन्दारमञ्जरीस्थस्मृतित्वनिर्वचनानुसारेण ज्ञेय इत्याशयः । सूत्रद्वयोक्तरीत्येति । साङ्ख्यादिस्मृतिषु यत्फलसाधनतया यदुपदिष्टं तदनुष्ठानेऽपि तत्फलानुलम्भादित्यादिरीत्येत्यर्थः । संपूर्णपादप्रमेयत्वाभावादाह । स्मृत्यधिकरण इति शेष इति । उक्तार्थविरुद्धानामिति मूलम् । उक्तार्थो विरुद्धो याभिस्तास्तथोक्ताः । उक्तार्थविरोधिनीनामिति यावत् । श्रुत्यादिपर इति । श्रुत्यादीत्युत्तरमूलगतादिपदेनानुभवस्य व्याख्येयत्वात्तन्मूलानामित्यस्य च श्रुत्यादिमूलानामित्यर्थकत्वेनादिपदेन प्रत्यक्षस्यैव ग्राह्यतया तदनुसारेण प्रमाणशब्दस्य श्रुतिप्रत्यक्षपरत्वमेवेति भावः । अत्र श्रुतिप्रत्यक्षमूलत्वरूप एक उपाधिरिति भ्रमनिरासाय पञ्चाधिकरणोपाधिभूतश्रुतिसिद्धत्वस्य तृतीयोपाधिभूतप्रत्यक्षावधृतव्याप्त्यादिकत्वस्य चात्र प्रतिपादनेनाधिकरणद्वयोपाधिरनेनोक्त इति दर्शयन्प्रमाणमूलत्वपदात्तल्लाभं च दर्शयति । तत्र युक्तीनामित्यादि ।
यद्यपि प्रमाणेति पाठे प्रमाणशब्दस्य प्रत्यक्षमात्रपरत्वाश्रयणेऽपि न दोषः । न च प्रत्यक्षावधृतव्याप्त्यादिमत्वरूपप्रमाणमूलत्वमात्रोक्तया तृतीयसङ्ग्रहोऽपि न श्रुतिसिद्धत्वरूपपञ्चमोपाधिलाभ इति वाच्यम् । श्रुतिसिद्धयुक्तित्वरूपपञ्चमोपाधेरपि बह्वीनामित्यनेनैव सङ्ग्रहोपपत्तेः । अत एव चन्द्रिकायां बहुश्रुतिसिद्धयुक्तयेत्येव पञ्चमोपाधिरभिहितः । पञ्चममारभ्य सप्ताप्युपाधयो बहुयुक्तिशब्देन विवक्षिता इत्यप्युक्तम् । तथापि तदनन्यत्वमित्येतत् षष्ठाधिकरणमारभ्यैव बहुत्वसञ्चारस्य मूले स्पष्टमुक्तत्वाच्चन्द्रिकायाश्च वर्णकान्तरत्वाच्छतिसिद्धत्वरूपप्रमाणमूलत्वाभिधायि श्रुतिगुणेत्युक्त एव पञ्चमोपाधिरित्याशयेनात्र प्रमाणपदस्य श्रुत्यादिपरत्वमाश्रित्य तद्विवरणं कृतम् । वक्ष्यमाणसङ्ग्रहे पञ्चमोपाधिश्चन्द्रिकारीत्यैव प्रायपाठानुसारेण कथितः । चन्द्रिकोक्तवर्णकान्तरस्यापि संमतत्वमित्याशयादिति न दोषः । श्रुत्यादीत्यादिपदेनानुभवपरिग्रहः । श्रुत्यादीत्यादिपदेनाप्रत्यक्षमूलकत्वश्रुत्यादिसंवादित्वश्रुतिसिद्धत्वबहुत्वरूपोपाधिप्रतिपादनेनाभिमानीत्यादिचतुरधिकरणोपाधिलाभेन स्मृतियुक्तिमेलनेन षण्णामधिकरणानां सङ्ग्रहसिद्धावपि इतरव्यपदेशादित्यादिपञ्चाधिकरणानां न सङ्ग्राहकमत्रोक्तमिति तदसङ्ग्रहप्रसङ्ग इत्यतो बह्वीनामित्यस्यैव षष्टस्येवेतरपञ्चकस्यापि सङ्ग्रहरूपत्वान्नदोष इत्याशयेन बहुत्वस्यैकप्रकारत्वे तेन तत्सङ्ग्रहायोग इत्यतो बहुत्वस्याप्येकप्रकारताचन्द्रिकां मनसि निधायाह । बहुत्वं चेति । अनेकप्रकारमिति । अत्रायं विवेक इति वक्ष्यमाणप्रकारेणानेकविधमित्यर्थः । अनेकसङ्ग्रह इति । इतरव्यपदेशाद्धिताकरणादिदोषेत्याद्यधिकरणपञ्चकसङ्ग्रह इत्यर्थः । मूले श्रुतिसंवादिनीनामिति । एतच्च पाणिनीयानुसारिणीमितिवद् व्युत्पाद्यम् । व्युत्पादितं चास्माभिर्देवताधिकरण तत्त्वप्रकाशिकाव्याख्याने । भावाभावरूपेणेति । तद्-व्युत्पादनमस्यापीत्यर्थः । स्वपक्षसाधनस्य द्विविधत्वादिति पूर्वेणान्वयः । आद्ये प्रथमेऽध्याये । तस्यापीति । परपक्षे बाधकप्रमाणव्युत्पादनस्यापीत्यर्थः । न तेनेति । दुष्टत्वोक्तिमात्रेणेत्यर्थः । सामान्ये नपुंसकमिति । उक्तिशब्देन प्रकृतं वचनं वा तेनेत्यनेन परामृश्यते । एवं नानेनेत्युत्तरत्रापि ज्ञेयम् । तत्सिद्धिः परपक्षे बाधकप्रमाणव्युत्पादनसिद्धिरित्यर्थः । नन्वत्र विरोधनिरासार्थत्वं नाङ्गीक्रियत इत्यत आह । अन्यथेति । अत्र पादे स्वपक्षस्य तैर्विरोधनिरासार्थत्वाभावादित्यर्थः । एवं परपक्षे साधकनिरासादन्यस्य तत्र बाधकप्रमाणसद्भावव्युत्पादनस्य परपक्षप्रतिक्षेपस्य सत्त्वात्कथं तदभावोक्तिरित्याशङ्कानिरासपरतया किं चेत्युत्तरमूलं योजयितुं स्वयं तत्प्रकारनिराकरणं कृत्वा तदुपयोगितया किञ्चेति मूलं योजितम् अथ मूल एवोक्तशङ्कापरिहारायोपलक्षणया बाधकान्यप्युपन्यस्तानीत्याद्याह । यद्वेति ।
एवं सतीत्येतद्-व्याचष्टे । तदीयेति । तन्मूलत्वमात्रेणेति । श्रुतिमूलत्वमात्रेणेत्यर्थः । असदधिकरणेति । असदधिकरणे श्रुतिसंवादित्त्वमेव युक्तीनां न तु श्रुतिमूलत्वं तत्सिद्धत्वरूपमित्याशयः । भोक्त्रापत्तेरित्यादीति । आदिपदेन संपूर्णसूत्रपरिग्रहः । भोक्त्रापत्तेरित्येतदधिकरणेत्यर्थः । बहुयुक्तीत्यनेन तत्सङ्ग्रहस्तु न सम्भवति । उक्तं च तदधिकरणमूले । इदानीं तु श्रुतिसिद्धत्वेन प्रबलतयेति । तदुत्तराधिकरणेऽपि प्रमाणमूलत्वत्संवादित्वाभ्यां प्रबलतया युक्तयोक्तेऽर्थे विरोधो निराकृतः बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहारायेदमधिकरणमारभ्यत इत्युक्तम् । ततश्च चन्द्रिका वर्णकान्तरपरैवेति न तदुक्तप्रकाराश्रयणं शङ्कनीयमिति ज्ञेयम् । स्मृतियुक्तीति मूल इत्यतः प्राक् चतुर्विधा इतीति प्रतीकोपादानम् । प्रतीकोपादानयुक्तपाठाभावे वा चतुर्विधा इति मूलस्येदमुपादानमिति व्याख्येयम् । मूलोक्तं विरोधिप्रतीतीनां चतुर्विधत्वं न सम्भवति । एतत्पादीयैकादशाधिकरणसम्बन्धियुक्तिजनित प्रतीतीनामेकादशत्वादित्यतः कैश्चिदवच्छेदकैस्तेषां तेषां सङ्ग्रहकरणात्क्रोडीकृतरूपापेक्षया चतुर्विधत्वसम्भवान्नानुपपत्तिरित्याशयेन केन कस्य सङ्ग्रह इत्यस्याप्रतीतेस्तत्तत्सङ्ग्रहप्रकारं दर्शयति । स्मृतियुक्तीति मूल इति । तन्मूलत्वेत्येतदुपापादनं पूर्ववत् । अनेन प्रकारताऽनुपदं वक्ष्यमाणा बोध्या । तत्राद्येऽधिकरणे स्मृत्येत्यादिचन्द्रिकानुसारेण विवेकमाह । अत्रायं विवेक इति । पञ्चमे बहुश्रुतीत्येतच्चन्द्रिकोक्तवर्णकान्तरमपि संमतमिति प्रदर्शनायोक्तम् । वस्तुतस्तु श्रुतिसिद्धेत्येवाभिप्रेतमित्युक्तमेव । चन्द्रिकोक्तैकादशाधिकरणे आद्यत्रिकं तदुत्तरं चतुष्टयम् । तदुत्तरमेकं तदुत्तरं द्विकम् अन्तिमञ्चेति पञ्च पेटिकाः कृत्वा तत्तदवान्तरविशेषः प्रागव्युत्पादितोऽप्यधिकोऽस्ति । बहुप्रमाणसंवादितादिव्युत्पादनस्य हेतुमुखफलमुखत्वादिप्रतिपादनस्य च तत्र सत्वात् । स विशेषोप्यत्रानुसन्धेय इत्याशयेनाह । अन्यत्र विस्तर इति । स्वकार्याकारितयेति पाठः । वृत्ताः समया इति । अत्र समया इत्यन्तमेकं वाक्यं वर्तत इत्यादि वाक्यान्तरमिति बोध्यम् । एतच्छब्देनेति । एतदुक्तं भवतीत्यत्रत्यस्यैतच्छब्देनेत्यर्थः ।