०९ नप्रयोजनवत्वाधिकरणम्

ॐ न प्रयोजनवत्त्वात् ॐ

ॐ न प्रयोजनवत्त्वात् ॐ

नप्रयोजनवत्वाधिकरणम्

प्रयोजनवत्त्वहेतोरित्यत्र ‘‘न प्रयोजनवत्त्वादि’’ति हेतोरित्यर्थः । सृष्ट्यादिनेश्वरस्य प्रयोजना-सत्त्वादिति सूत्रार्थः । तथा चासिद्धो हेतुरित्यर्थः । यद्वा योऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति टीकाकृतैव वक्ष्यमाणत्वाज्जगत्सृष्ट्यादौ नेश्वरस्य स्वप्रयोजनम् । अङ्गुलिचालनादिका इत्यत्राऽऽदिपदेन चक्षुरुन्मीलननिमीलनादिकं गृह्यते । इच्छावत्त्वस्य प्रमाणसिद्धत्वादित्युपलक्षणम् । ‘‘आप्तकाम-स्ये’’ति हेतुगर्भं विशेषणं भगवति ददती श्रुतिः काम्यत इति काम इति व्युत्पत्या कामपदोक्त-प्रयोजनस्पृहामेव निषेधति नतु स्पृहामात्रमित्यपि द्रष्टव्यम् । एष ह्येव साधु कर्म कारयतीति श्रुतेर् यं येभ्यो लोकेभ्य उन्निनीषते तं साधुकर्म कारयतीति योजना । उक्तानुमानाच्चेत्युपलक्षणम् । ज्ञानस्य चिरनष्टत्वेनाऽऽमोक्षं स्थायित्वायोगात्तज्जन्यस्तज्जन्यजनको हि व्यापार इत्यपि द्रष्टव्यम् ॥ २-१-९ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां द्वितीयाध्यायस्य प्रथमः पादः ॥