ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ
ॐ श्रुतेस्तु शब्दमूलत्वात् ॐ
शब्दमूलत्वाधिकरणं
तदन्ये तत्रतत्र गा इति वदता प्रथमाध्याये प्रत्यधिकरणं येये विरोधाः प्राप्नुवन्ति ते तत्रगास् तत्राधिकरण एव परिहरणीयाः । नतु द्वितीयेऽध्याये । एवं ब्रह्मणो जगदुपादानत्वे प्राप्तशङ्केयं परमते ब्रह्मणो जगदुपादानत्वप्रतिपादक प्रकृत्यधिकरण एव परिहरणीया । नतु द्वितीयेऽध्याये । अतोऽपीदमसङ्गतमिति च सूचितम् ॥ २-१-८ ॥