ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ
ॐ इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॐ
इतरव्यपदेशाधिकरणम्
महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितमित्यत्र जीवस्याशङ्कितमिति वदतोऽयं भावः । यद्यपि ‘‘जीवाद्भवन्ति भूतानी’’ति पूर्वपक्ष्युदाहृतश्रुतौ जीवस्य पञ्चमहाभूतादिसकलकार्यकर्तृत्वश्रवणा-न्महदादिसर्वकर्तृत्वमेव पूर्वपक्षिणोऽभिमतमिति ज्ञायते । तथापि प्रत्यक्षसिद्धजीवबाहुल्यत्यागायोगेन सर्वकर्तुरेकस्य जीवस्य परमतेऽप्यभावाज्जीवादिति जातावेकवचनमङ्गीकृत्य महत्तत्त्वं ब्रह्मणो जायते । अहङ्कारतत्त्वं रुद्राज्जायते । एवं तानितानि कार्याणि तत्तज्जीवेभ्यो जायन्त इतिनानाकार्याणां नानाजीव-कर्तृत्वे नेश्वरस्य सर्वकर्तृत्वसिद्धिरिति । चेतनमात्रेऽप्ययं न्याय इति वदतो जीवव्यतिरिक्तेश्वरतत्त्वे लक्ष्मीतत्त्वे चायं न्याय इत्यभिसन्धिः ॥ २-१-७ ॥