०६ आरम्भणाधिकरणम्

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ

ॐ तदनन्यत्वमारम्भणशब्दादिभ्यः ॐ

आरम्भणाधिकरणम्

अनन्तराधिकरण इति वाक्यस्य प्रातिस्विकरूपभेदानपह्नवेन लोकसिद्धं कारणाद्भेदमङ्गीकृत्य भोग्यवर्गस्य ब्रह्मैक्यवत् कारणीभूतब्रह्मैक्यवत् शास्त्रतस् तत्त्वमस्यादिशास्त्रतः भोक्तृवर्गस्य स्वाभाविकरूप ब्रह्माविभागे सिद्धान्तिना कथ्यमाने साङ्ख्यमतेन भोग्यस्यापि भोक्तृत्वापत्तिमाशङ्क्य भोग्यस्य भोक्तुश्च ब्रह्माविभागे सति भोक्तृभोग्ययोरन्योन्यधर्मसङ्कलनमपि स्यादित्याशङ्क्येत्यर्थः । अनैकान्तत्वेनेत्यत्र समुद्रेणैकीभूतयोः फेनतरङ्गयोरन्योन्यधर्मसङ्कलनादर्शनाद्य्वभिचारेणेत्यर्थः । स्वरूपकार्यव्यपदेशादिभेदेनेत्यत्र स्वरूपभेदश् चिदचित्त्वम् । कार्यभेदो दृक्वं दृश्यत्वं व्यपदेशभेदो ब्रह्मत्वादि व्यपदेशः घटत्वादिव्यपदेशश्च । अनन्यत्वं हि भेदाभाव इत्यत्रान्यत्वापरपर्यायभेदनिषेध-रूपत्वादनन्यत्वस्येत्युपस्कर्तव्यम् । सांसारिक फलत्वाच्चेत्यत्र सगुणभगवदुपास्त्या मत्स्याद्यवतारै-र्वेदाहरण सुधापानादिलौकिक फलस्मरणादित्यर्थः । लक्षितलक्षणया एष एवार्थ इत्यत्र लक्षितलक्षणा नामैकेन पदेनैकं पदार्थं लक्षयित्वा तत्राप्यनुपपत्तिदर्शनेन पदार्थान्तरलक्षणा । आरम्भणपदसमीपे आदिपदाभावादारम्भणपदेनादीत्युपलक्ष्यते । तेन च तदाक्षेप उपलक्ष्यते । सौत्रमादिपदं तु यथास्थान एव न तस्य व्यत्यास इति भावः । वक्ष्यते हित्यत्र ‘‘सत्त्वाच्चावरस्ये’’त्युत्तरसूत्रे वक्ष्यत इत्यर्थः । तस्यैव प्रथमजत्वादिति वदता ‘‘अहमस्मि प्रथमजा ऋतस्ये’’ति मौक्तब्रह्मविषयिणी श्रुतिस्सूचिता । तत्साचिव्यमतिशयेनैश्वर्यद्योतकमित्यत्र स्वयमेव गन्तुं समर्थस्यापि राज्ञस्स्वाधीनसामन्तकरावलम्बन स्वस्वलंकृतशिबिकायानगजतुरगारोहण चतुरङ्गसेनासंवरणादिना राजाधिराजत्वस्यैव लोके दर्शनादिति भावः ।

भाष्य एव व्यक्ते इत्यत्र यथा पटादिः कुविन्दाधीनतन्त्वादिजन्यः । यथा वा इन्द्रियदेहादिकं देहाधिष्ठातृजीवाधीनप्रवृत्तिमदुपलब्धं तथेत्यर्थ इति च भाष्य एव व्यक्ते व्याख्याते इत्यर्थः । मृदादेः कारणस्य भाव एवेत्यत्र श्रवणादिकारणस्य भाव एवोपलब्धं ब्रह्मापि तदुपादानकं स्यात् । चक्षुरादि-कारणस्य भाव एव रूपाद्युपलब्धेस्तदपि चक्षुराद्युपादानकं स्यात् । किञ्च कार्यादभिन्नस्यापि मृदादेः कार्यं विनैवोपलब्धेस्सहोपलब्धिर्नाभेदसाधिका । किं त्वप्रयोजिकैवेत्यादिदूषणमूहनीयम् । भावे तिलादौ कारणे तैलाद्युपलभ्यत इत्यत्र तैलादेस्तिलांकुरमूलासिक्तजलाद्युपादानत्वेन तिलोपादानत्वाभावा-त्स्वस्याप्यसङ्गतोऽयं दृष्टान्त इति ज्ञेयम् । असदकरणादित्यादिकेत्यस्य असतः शशृङ्गस्या-करणात्कार्यं कारणे सदेवेत्यर्थः ।

वृत्तिविकल्पानुपपत्त्यादिकेत्यत्र कार्यं कारणे वर्तते चेत्कुण्डबदरवदुपलभ्येत । अन्यत्र वर्तते चेन्न कार्यकारणभावः । अतस्तदात्मकतैवेति वक्तव्यमित्यर्थः । शब्दान्तराच्चे’ति सूत्रखण्डस्य योऽर्थ उक्तः प्रतिवादिना सोऽपि श्रुतिद्वयबलेन कार्यस्य सदसत्त्वापादक एव नतु त्वदभिलषितसत्त्वस्यैव साधकः । पटवच्च । यथा प्राणादिरिति सूत्रद्वयमाकुञ्चनप्रसारणाख्यावस्थाविशेषं विनाकार्यकारण-भावस्य परमतेऽप्यभावादनुपयुक्तमेव । उत्तरोत्तरव्यक्तयव्यक्तिसिद्धावित्यत्रानवस्थायां हि कल्पनामूलभूतं बीजादिकं पूर्वमित्युच्यते । तद्वेतुपरस्परतया कल्ष्यभाना बीजांकुरादिपरम्परा उत्तरोत्तरेत्युच्यते । तदिहापि मूलीभूतं पूर्वव्यक्तयव्यक्तिनिर्वाहाय कल्प्यमानोत्तरोत्तर व्यक्तयव्यक्तिपरस्पराया असिद्धौ तदभिलषिते अप्रामाणिके घटोत्पत्तिविनाशतयाऽङ्गीकृते मूलीभूतव्यक्तयव्यक्ती अपि न सिध्यतः । अतो मूलक्षयो दुष्परिहर एव । सकलसम्मत्याप्रमाणसिद्धे तु मूले नायं दोष इति भावः । किञ्च व्यक्तयर्थं कारणचक्रमिति वदन् प्रष्टव्यः । सा च व्यक्तिः कार्या चेत्प्रागपि सत्येवेति पुनः कारणचक्रवैय्यर्थ्यम् । अकार्या चेद्गगनवत्कारणशतैरपि नोत्पाद्येति कारणचक्रवैय्यर्थ्यमेव । अतः परस्याज्ञानविजृम्भणमूलैवेयं शङ्केति ज्ञेयम् ॥ २-१-६ ॥