ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ
भोक्त्रधिकरणम्
ॐ भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॐ
पूर्वं किल चेतनाचेतनात्मकस्येत्यत्र मायावादिमते ब्रह्मचितोरेवैक्याङ्गीकारेण चिद्य्वतिरिक्तस्य सर्वस्यापि जडस्य मिथ्यात्वाङ्गीकारेण जडब्रह्मैक्यस्य प्रागप्यप्रस्तुतत्वात्किलेत्युक्तम् । भावप्रत्ययाभावः परस्येत्यत्र सौत्रपदे भावप्रत्ययाभाव इत्यर्थः ॥ २-१-५ ॥