०४ असदधिकरणम्

ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ

ॐ असदिति चेन्न प्रतिषेधमात्रत्वात् ॐ

असदधिकरणम्

अत्रासच्छब्दो भावसाधन इत्यत्र उत्पत्स्यमानकार्यजातस्य सत्त्वं नेति भावसाधनतयाऽभावे प्रयुक्त इत्यर्थः । श्रुत्यनुगमार्थमित्यत्र ‘‘असदेवेदमग्र आसी’’दिति श्रुत्यनुगमार्थमित्यर्थः । श्रुतौ हि सन्न भवतीत्यसदिति तत्र कर्तृव्युत्पत्त्यङ्गीकारेऽविद्यमानस्यैव कारणतोक्तास्यात् तच्चानुपपन्नम् । अतो भावव्युत्पत्तिमादाय प्रागभावस्य कारणत्वपरा श्रुतिरिति सिद्धम् । अतः श्रुत्यनुगमायेत्युक्तम् । यथा प्रथमपादार्थप्रपञ्चनाद् द्वितीयपादस्येत्यत्र ‘‘इतरेषां चानुपलब्धेरि’’त्यादि युक्तिपादार्थप्रपञ्चनात्समय-पादस्येत्यर्थः । अकार्यायाः प्रवृत्तेर् बुद्धिव्यभिचाराद्यदर्शनादित्यत्र कार्यायाः प्रवृत्तेर्बुद्धिव्याप्यत्वं जन्यजनकभावेन । अकार्यायास्तु व्यभिचारादर्शनसहकृत साहचर्यदर्शनेन । अभाववत्त्वप्रसङ्गादित्यत्र अभावत्वप्रसङ्गादिति पाठे न विद्यते भावः सत्ता यस्येत्यभावो ऽविद्यमानः । विमतः प्रागभावोऽपि प्रलये असन् वस्तुत्वाद् ब्रह्मवदित्यनुमानसम्भवादसमञ्जसमेतन्मतमिति सूत्राक्षरयोजना । वाश्यादिवदित्यत्र वाश्यापदेन दारुसमीकरणाय कृतमायसं साधनमुच्यते । बाजीत्यप्रभ्रंशभाषा इदं किया स्वान्यावयविसमानकालीनत्वानधिकरण किञ्चित्कालीन क्रियान्येत्यनुमानस्यायमर्थः । इयं क्रिया इदानीन्तनघटक्रिया । स्वपदेन घटक्रियैवोच्यते । तदन्यत्वे सत्यवयविसमानकालीनत्वस्या-नधिकरणा किञ्चित्कालीना काचित्क्रिया तदन्यत्वसाधने स्वान्यत्वे सत्यवयविसमानकालीनत्व रूपविशिष्टस्य तदनधिकरणपदेन तस्यां क्रियायामभाव उक्तस्स्यात् । स च स्वान्यत्वरूपविशेषणा-भावान्न वक्तु• शक्यः । तस्यां क्रियायां स्वपदेनोक्तेदानीन्तनघटक्रियान्यत्वस्य निश्चितत्वात् । अतोऽस्याः क्रियायास् ततोऽन्यत्वसाधने सन्दिग्धावयविसमानकालीनत्वाख्यविशेष्याभावमादायैव पर्यवसितस्स्यात् । तथा च तस्मिन्काले सर्वप्रलयसिद्धिरिति प्रतिज्ञांशस्यार्थः । दृष्टान्ते त्विदानीन्तनघटक्रियायां स्वपदेनोक्त स्वान्यत्वस्यैवाभावोऽस्ति । नत्ववयविसमानकालीनत्वरूपविशेष्यस्य । इदानीन्तनघटक्रियायाः पटाद्यवयविसमानकालीनत्वस्यैव निश्चितत्वात् । एवं च स्वान्यत्वरूपविशेषणाभावमादायैवेदानीन्तन घटक्रियायाः साध्यखण्डपर्यवसानं वाच्यम् । ततोऽन्यत्वं क्रियामात्रे वर्तत इति न दृष्टान्तस्यापि दौर्लभ्यमिति परस्याशयः ।

आकाशादेरिवेत्यत्राऽऽदिपदेन वाय्वादिभूतचतुष्टयं गृह्यते । पाञ्चभौतिकदेहे आकाशस्यापि प्राणादिसञ्चारहेतुतया देवदत्तभोगहेतुत्वादित्यर्थः । अन्यथाख्यातिमाश्रित्येत्यत्र अपूर्वगतसाधनत्वं यागे प्रतीयत इति न्यथाख्यातिरिति भावः । यागजन्यावान्तरव्यापार निष्ठस्वर्गसाधनत्वसादाय यागस्यापि स्वर्गसाधनत्वोपचाराङ्गीकार इत्यर्थः । शक्यं च विशेषान्तरेणेत्यत्र पर्वतत्वाख्य-विशेषणान्तरेणेत्यर्थः । ब्रह्माण्डस्यानङ्गीकृतत्वादित्यत्र प्रलयावसाने उत्पद्यमानब्रह्माख्य- पक्षिणोऽण्डस्थानीयं हि ब्रह्माण्डम् । प्रलयाभाववादिना तस्यानङ्गीकारादित्यर्थः ।

षष्ठं त्वाभाससमानयोगक्षेमत्वादित्यत्र स्वान्यशशविषाणासमानकालीनत्वरहितकिञ्चित्कालीन क्रियान्येति साधने शशविषाणस्यापि सिद्धेः । यद्वा स्वान्यावयवसमानकालत्वानधिकरणकिञ्चित्कालीन क्रियान्येत्यपि साधयितुं शक्यत्वेनावयवस्याप्यभावस्स्यात् । दृष्टान्ते तु विशेषणाभावादेव विशिष्टाभावः। पक्षे त्वदनुमानवदेवास्माकमपि सुलभ इति भावः । दृष्टान्ताभावस्तु स्वयमूहनीय इत्यत्र भर्जितबीजादितोऽङ्कुरस्य क्वाप्यदर्शनेन बीजोपमर्दात्कार्योदयस्याङ्गीकर्तुमनुचितत्वादिति भावः ।

तर्काप्रतिष्ठानादिति वाक्यं भित्वेत्यत्र पृथक् सूत्रं कृत्वेत्यर्थः । न तु साङ्ख्यस्य सत्कार्यवादित्वात्केनचिदंशेन शिष्टपरिगृहीतत्वं किं न स्यादित्यआहि सत्कार्यवादित्वादिकं त्विति अन्यथा यागीयपशुहिंसानिषेधादिनेत्यत्र चतुर्विंशति तत्त्वविचारेणैव कैवल्यवादी निरीश्वरस्सांख्यः याज्ञीयां हिंसां न मन्यत इति विपरिवर्तः शिष्टापरिगृहीतत्वस्य वेदनिन्दकतया पुनस्सांख्य एव परावृत्तिः स्यादित्यर्थः ॥ २-१-४ ॥