ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ
गुर्वर्थदीपिका
॥ द्वितीयाध्यायस्य प्रथमः पादः ॥
गुर्वर्थदीपिका
अभिमान्यधिकरणम्
ॐ अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॐ
इन्द्रियादीनामपि वक्तृत्वादिदर्शनादित्यत्र इन्द्रियादीनां शरीरहितकेवलेन्द्रियादीनां ‘‘प्राणा वा अहं श्रेयसि व्यूदिरे’’ इति वक्तृत्वदर्शनात् । आदिपदेन श्रोतृत्वं बहिर्गमनमन्तःप्रवेशनमित्यादिकं गृह्यते । तत्पक्षीकारे हेतोरसिद्धेरित्यत्र जडमृत्त्वं हि हेतुतया परस्याभिप्रेतम् । तच्च तत्र नास्तीत्यर्थः । यद्यप्यत्राकांक्षानुसारेणेत्यत्र व्याप्तावुक्तायां कुतस्तर्हि न दृश्यत इत्याकांक्षा जायते । तत्परिहाराय शक्तिविशेषो वक्तव्यः । अतो व्याप्तिरेवादौ वक्तव्येत्यर्थः । अल्पाच्तरस्य पूर्वनिपातमनुसृत्येत्यत्र सूत्रगतानुगतिशब्दापेक्षया विशेषशब्दस्याल्पाच्तरत्वादिति भावः । जगद्य्वापारसम्बन्धिन्यपि तत्प्रयोगादित्यत्र दिक्पालनादिकं जगद्य्वापारः । यद्वा शास्त्रं तैस्तैः प्रणीतमित्यत्र वेदस्याकृत-त्वात्पुराणपञ्चरात्रादीनां भगवत्कृतत्वात्स्मृतीनां च मन्वादिकृतत्वान् मृदादिदेवताकृतं शास्त्रं किमिति चेत् । सत्यम् । तेष्वेव पुराणेषु धर्मधरणीसंवादे वराहधरणीसंवादादौ तत्कृतव्यासकृतानुवादस्य वादमूलत्वात्तत्कृतशास्त्रमप्यस्तीति भावः । एरण्डे साक्षात्कृते चन्दनशब्दव्युत्पत्तिरित्यत्र भ्रमाद् अज्ञानाद् विप्रलिप्सया वा कृता चन्दनशब्दव्युत्पत्तिरित्यर्थः ॥ २-१-३ ॥