ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ
अथ नविलक्षणत्वाधिकरणम्
ॐ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॐ
नहि पिपीलिकालिपेः पुरुषलिपेरित्यत्र पुरुषलिपिपदेन मिश्रिताद्भिः श्रीतालीपत्रे लिखितमषीलिपिर्गृह्यते । कण्ठलिखितलिपौ पिपीलिकालिपितो व्यावृत्तेस्सर्वानुभवसिद्धत्वेनोक्तसन्दिग्धासिध्यनुपपत्तेः । श्रुतेरपि नाङ्गीक्रियत इत्यत्र प्रमाजननयोग्यत्वरूपप्रामाण्यस्य । श्रुतेः स्वभावेनैव सत्त्वेऽपि प्रमाख्यफलोपहितप्रामाण्यस्य सङ्केतग्रहणसापेक्षत्वादित्यर्थः । यद्यपि स्मरणजनकमनसस्तद्-व्यापाररूपसंस्कारोद्बोधस्य च प्रामाण्यसम्भवेऽपि संस्कारोद्बोधकलिप्यादेर्न प्रामाण्यम् । अतिप्रसङ्गात् । तथापि यथा द्रौणेरित्यनुमापक दृष्टान्तं वदतो भाष्यकारस्य रेखारूपपिपीलिकालिपिरपि स्वसङ्केतितवर्णानुमापकत्वादनुमानरूपप्रमाणमिति हृदयम् । अतो न कश्चित्क्षुद्रोपद्रवः । टीकाकारस्य त्वसाधारण्येन प्रमाणसचिवस्यापि प्रामाण्यमिति भावः ।
भाक्तमित्यस्य प्रमितिकरणे प्रमितिपदप्रयोगः ‘‘कार्यकारणशब्दाश्चान्योन्यं सङ्कीर्यन्त’’ इति वचनादौपचारिक इत्यर्थः । भाक्तमित्यङ्गीकृत्योदितम् । वस्तुगत्या वेदाः प्रमाणमिति वदताऽप्युद्देश्यव्यत्ययेन प्रयोगसम्भवे न प्रमाणीति प्रयोगस्याऽवश्यकता । टित्करणमहिम्ना नारायण इत्यादिप्रयोगनिर्वाहायागत्याऽधिकरणे त्रिलिङ्गत्वाङ्गीकारेऽपि करणसाधनतायां ‘‘नान्तं नपुंसक’’मिति वचनेन नित्यनपुंसकत्वान्न कोऽपि दोषः । आमन्तानुप्रयोगस्येत्यत्र कारयामास पातयामासेत्यादौ कारयां पातयामित्याद्यामन्तोपपदमनुसृत्य प्रयोगस्येत्यर्थः । अङ्गीकृत्येदमुदितम् । वस्तुतस्तु ‘‘लावण्यमुत्पत्तुमिवासयत्नः’’ ‘‘तस्माद्धान्यन्न परः किञ्चनासे’’ति लोकवेदयोः प्रयोगदर्शनात् । ‘‘अस्तेर्भू’’रित्यस्य लटीव लिट्यप्यनित्यत्वं द्रष्टव्यम् । यद्वा अनुभवसाधनत्वावच्छिन्न इत्यत्र सम्यगनुभवसाधनं नेति साध्यस्याऽगमो नेति साध्यस्य प्रमाणं नेति साध्यस्य च घटे गतत्वेन प्रमाणबाधितत्वरूपोपाधेश्च तत्राभावेन साध्याव्याकता स्यादित्यतो ऽनुभवसाधनत्वावच्छिन्ने वाक्यत्वावच्छिन्ने बोधकत्वावच्छिन्ने इत्युक्तम् । एवं वाक्यत्वावच्छिन्ने साध्ये इत्यत्र प्रागवच्छिन्नसाध्यत्रयेऽपि प्रमाणबाधितत्वमुपाधिरित्युक्तम् । इदानीं वाक्यत्वावच्छिन्ने तस्मिन्नेव साध्यत्रये अनाप्तप्रणीतत्वमुपाधिः । तदभावेनानाप्ता प्रणीतत्वेन वेदस्य सम्यगनुभवसाधनत्वादिकमनुमेयमित्यर्थः । वेदेतरवाक्यत्वावच्छिन्नसाधनेनेत्यत्र वेदसंवादित्वसाधनेनाऽऽप्तवाक्यत्वसाधने वेदेऽपि शाखान्तरसंवादोऽस्त्येव । तत्र चाऽऽप्तवाक्यत्वं नास्तीति व्यभिचारस्स्यात् । अतो वेदेतरेत्युक्तम् । वेदसंवाद्यनुमानादि व्यवच्छेदाय वाक्यत्वमित्यर्थः ।
आगमसचिवतयोपपत्तेस्ततो दुर्बलस्याकिञ्चित्करत्वादित्यत्रोपपत्तेरागमसचिवतया कारणेन तत उपपत्तितः दुर्बलस्यान्यतरागमस्येति सम्बन्धः । व्यावृत्तिस्वीकारेणाव्यापकत्वादित्यत्र प्रमाणत्वेन सजातीयाद्य्वावृत्तौ च लक्षणस्याव्याप्तिरिति भावः । प्रामाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेरित्यत्र तदवगमानुपपत्तेलक्षणावगमानुपपत्तेरव्याप्त्यति व्याप्त्यादिविचारस्य प्रमाणत्वावगममन्तरेणा सम्भवादिति भावः ॥ तदवगमाय प्रमाणत्वावगमाय अस्य लक्षणस्य प्रतीतावित्यर्थः । अस्तु वाऽन्यदपि किञ्चिदित्यत्र अन्यद् लिङ्गं यथार्थसाक्षात्कारत्वादिकं सास्नादिमत्त्वं तदा प्रतीतमिति चेदित्यस्य यदायदा गोव्यक्तिः प्रतीयते तदातदा सास्नादिमत्त्वमपि प्रतीतम् । अतस्सास्नादिमत्त्वप्रतीतेस्सदा विद्यमानत्वाद्य्ववच्छेदबुद्धिरपि सदा स्यादिति शङ्कितुराशयः । ज्ञानं तत्साधनं च सजातीयमित्यत्र ज्ञानं संशयविपर्ययादिज्ञानं तत्साधनं दुष्टेन्द्रियादिकं सजातीयमित्यर्थः ।
वस्तुतो यल्लक्ष्याद्भिन्नं ततो व्यवच्छेदावगमार्थत्वादित्यत्र पशुत्वजात्या सजातीयत्वेन महिषादिज्ञानस्य तयैव जात्या विजातीयत्वेन घटादिज्ञानस्यापेक्षितत्वेऽपि साक्षाल्लक्ष्याद्भेदज्ञानस्य प्रागनपेक्षितत्वादिति भावः । किं चोक्तलक्षणरहितत्वान्महिषादिकमेतद्भिन्नमिति ज्ञानदशायामर्थान्महिषादेरपि गोभेदसिद्धिरिति वदता महिषनिष्ठभेदप्रतियोगित्वाद्गौरपि महिषभिन्नेति गोनिष्ठभेदप्रतीतेरपि सम्भवात्तदर्थं किं लक्षणेनेत्युक्तं स्यात् । इदं चानुपपन्नम् । महिषादीनां गोभिन्नत्वस्य व्यावर्तकधर्मसापेक्षतयोक्तलक्षणरहितत्वं महिषादिनिष्ठभेदव्यावर्तकधर्म इत्यङ्गीकार्यम् । गोनिष्ठभेदस्य चोक्तलक्षणसाहित्यमेव व्यावर्तको धर्म इति वक्तव्यम् । अन्यथा कुतो भेद इति शङ्काया निरुत्तरत्वप्रसङ्गात् । एवं च कथं नोभयत्रापि लक्षणस्योपयोगः । अत एव हि उष्णत्वशीतलत्वाभ्यां दहनतुहिनयोर्भेदं प्रतियन्ति नान्यथा । तत्रान्वर्थज्ञाज्ञापनं प्रयोजनमित्यत्राक्षोद्भवं ज्ञानं प्रत्यक्षमिति कथने अक्षं प्रति गतं प्रत्यक्षमिति प्रत्यक्षशब्दस्यान्वर्थता ज्ञापनं प्रयोजनमित्यर्थः । उपलक्षणं चेदम् इन्द्रियान्वयव्यतिरेकानुविधायित्वस्य गुरुत्वाच्चेत्यपि द्रष्टव्यम् । अवधीर्यतामित्यत्रावधीरणं नाम धिक्कारः । तत्र सिद्धांशेन पक्षीकरणमित्यत्र इयं व्यक्तिरिति पक्षीकरणम् । गौरिति साध्यनिर्देश इत्यर्थः । प्राग्विज्ञातार्थेषु व्यवस्थानादित्यस्य राजसदृशालङ्कारभरित बहुमानुषसन्दर्भे राजा क इति प्रश्ने श्वेतच्छत्रवानिति लक्षणं कथ्यते ।
श्वेतच्छत्रं त्वसङ्कीर्णत्वात् श्वेतच्छत्रपदादेव विज्ञातमिति न तत्र शङ्का नापि समाधानमिति क्वानवस्थेति भावः । गोत्वेन व्यवहर्तव्य इत्यत्र गोत्ववत्तया व्यवहर्तव्यो गोशब्दवाच्यतया व्यवहर्तव्य इत्यर्थद्वयमभिप्रेत्य शङ्कते तत्र किमिति । एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानमित्यत्र स्वस्तिमती शोभनक्षीरवती । आदिशब्देन गृष्ट्यादिपदं गृह्यते । गोमात्रे सौरभेय्यां वृषभे च । विप्रलम्भकतापाता दित्युपलक्षणम् । एव वदता त्वयाऽपि निर्गुणनिर्विशेषादिश्रुत्या निर्गुणादिव्यवहारं कुर्वता शून्यश्रुत्या शून्यमित्यादिव्यवहारः कुतो न क्रियते । जन्मादिसूत्रोक्तलक्षणवत एव ब्रह्मत्वान्न शून्यादिव्यवहारो ब्रह्मणीति यदि मन्यसे तर्हि लक्षणचरणानुसरणं त्वयाऽपि कर्तव्यम् । एवं च मयाऽपि सास्नादिमत्त्वलक्षणस्य गोमात्रे सत्त्वेन गोमात्रानुस्यूतो लक्षणवाक्ये सहनिर्दिष्टश्च गोशब्दव्यवहार एव क्रियते न त्वेकदेशबोधकोऽन्यबोधको विपरीतबोधको वा शब्दो व्यवह्रियत इति परोऽपि कुतो न ब्रूयादित्यपि ग्राह्यम् ।
न ह्ययं ब्रह्मसाक्षात्कार इत्यत्रायं तवाध्यासलक्षणे समानन्यायत्वेनाऽऽपतितो दोषो ब्रह्मसाक्षात्कारो न हि येनैतद्दोषेण बाधोऽपि ब्रह्मसाक्षात्कारेणैव बाध इति व्यावहारिकनिर्वाहस्स्यात् । नाप्यबाधः । बाधो नेत्यपि न । अतो व्यावहारिकत्वं गतमेव । न दूषणम् । किंतु ब्रह्मसाक्षात्कारात्प्रागेवोक्त दोषदूषितत्वाच्छुक्तिरजतादि वद्भवदीयलक्षणशास्त्रस्य प्रातिभासिकत्वं च स्यादित्यर्थः । क्रियावद्ग्रहणमन्यार्थमित्यत्र अन्यार्थं द्रव्येष्वपि पञ्चानां मूर्तत्वनिवारणार्थमित्यर्थः । अर्थयोग्यताया अर्थानां वेत्यत्र वीप्सायां सर्वार्थानामेव प्राप्तेरर्थानां वेत्युक्तम् । अर्थशब्दस्य चाभिधेयादिवाचिन इत्यत्राभिधानज्ञानस्याभिधेयज्ञानाधीनत्वेन व्याप्तिः । अभिधेयशब्दस्य केवलान्वय्यर्थपरत्वेऽभि धानेऽर्थान्तरोपादानवैयर्थ्यादिति भावः ।
ज्ञानतत्कारणाभ्यामुपाधिनिमित्ताभ्यामित्यत्र कुठारस्य किं छेद्यं छिदिक्रियायाश्च किं छेद्यमिति प्रश्नस्य दार्वित्येव शिष्टैरुत्तरस्य दीयमानत्वात्साक्षादुपाधि भूतज्ञानेन ज्ञेयो घटादिः करणभूतप्रमाणेनापीति भावः। अहमिति साक्षिज्ञानस्य प्रमेयसमानदेशत्वात्तद्-व्यवच्छेदाय असमानविषयेत्युक्तम् । घटमात्रविषयप्रमाणस्यापि यावत्प्रमेयव्यापित्वेऽतीतानागत सकलघटविषयत्वस्याप्यापातेन सर्वज्ञत्वापरिहारादिति भावेनोक्तम् असर्वज्ञविज्ञानानामिति । तदेव हि तत्वावेदकं यत्तत्वमेवावेदयति नातत्त्वम् । अन्यथा भ्रमस्याप्यधिष्ठानरूपतत्त्वावेदनरूपत्वेन तत्करणस्यापि तत्त्वावेदकत्वप्रसङ्गः । एवं च तत्त्वाव्यभिचारित्वमेव तत्त्वावेदकत्वमिति भावेनोक्तम् औतागमादेरिति । यद्यपि करणत्रयस्याप्यनुप्रमाणत्वादमुख्यमेव याथार्थ्यम् । तथाऽपि यथार्थज्ञानकरणत्वस्य वेदे नियतत्वरूपमुख्यत्वमादाय शब्दे मुख्यमित्युक्तम् । परमसाध्यमपि सूचयितुमित्यत्र वेदानामेव मीमांस्यत्वमित्यर्थः । अन्यथा प्रत्यक्षमित्यत्र अर्थं प्रति गतमक्षं प्रत्यक्षमित्युक्ते सन्निकर्षस्यापि संग्रहो भवतीति भावः । अजाकृपाणीयन्यायेनेत्यत्र अभ्यासार्थं कृपाण्या इतस्ततः क्षेपे यदृच्छया तत्रागताया अजायाः शस्त्रघातेन मरणमजाकृपाणीयन्यायः । आहार्यनिश्चयकल्पनमप्यपास्तमित्यत्र शुकबालवत्पदावलीज्ञानमात्रेण वाक्यप्रयोगसम्भवादिति भावः । सत्त्वेऽप्यपरामृष्टत्वादित्यत्राभिनवाग्नावल्पतया सत्त्वेऽपीत्यर्थः । प्रामाण्यस्य स्वतस्त्वमते दोषाभावदशायां वह्निज्ञानकरणधूमज्ञानस्यैव प्रमां प्रत्यपि कारणत्वाद्वह्निज्ञानकारणमेव धूमज्ञानं वह्निप्रमां प्रत्यपि कारणमिति यावत् । तदेव लौकिककारणत्वं तर्ह्यसल्लिङ्गपरामर्शाख्य दोषसद्भावात्कथमत्र प्रमोदय इति चेत्सत्यम् । प्रतिबन्धकमणेर्मन्त्रौषधाद्युत्तेजकसद्भावेऽपतिबन्धकत्ववद्यादृच्छिकवह्नि सद्भावस्योत्तेजकत्वेनेहापि दोषस्याप्यप्रतिबन्धकत्व सम्भवादिति भावेनोक्तं लिङ्गविभ्रमस्य लौकिककरणत्व इति । स्वलक्षणस्य व्यापकतयाऽङ्गीकृतत्वादिति स्वाभिमत प्रमाणमात्रव्यापकतयेत्यर्थः ।
अनेकान्तवाद इत्यत्र सत्त्वभावत्वक्षणिकत्वानां तैस्तैर्वादिभिरङ्गीकृतानां पदार्थस्वभावानामनेकान्तवादे सर्वं सप्तभङ्ग्या प्रवर्तते न त्वेकधैवेति नियमवाद इत्यर्थः । तदाहि (१) क्षणिकमपि स्यात् (२) अक्षणिकमपि स्यात् (३) उभयमपि स्यात् (४) अवक्तव्यं स्यात् (५) क्षणिकमवक्तव्यं स्यात् (६) अक्षणिकमवक्तव्यं स्यात् (७) उभयमवक्तव्यं स्यादिति भङ्गिसप्तकस्याप्यङ्गीकारेण क्षणिकत्वस्याप्यङ्गीकारादिति भावः । नच निवृत्तपूर्वावस्थतयेत्यत्र पूर्वावस्थतयेदानीं वर्तमानतया ग्रहणे खल्वयाथार्थ्यं निवृत्तपूर्वावस्थतयैव ग्रहणे तु कुतोऽयाथाथार्थ्यमिति शङ्कितुरभिप्रायः । पूर्वावस्थाया निवृत्तावनुभवाप्रवृत्तेरित्यत्र पूर्वावस्थाया निवृत्तौ अनुभवाप्रवृत्तेः । अनुभवाभावात्कथं तस्यास्स्मरणमिति भावः ।
अन्यथा द्य्वङ्गविकलत्वादित्यत्र यथार्थत्वानुभवत्वाख्यद्य्वङ्गविकलत्वादित्यर्थः । सर्वप्रमाणाप्रामाण्यप्रसङ्ग इत्यत्रैकैकस्यार्थस्याविषयीकरणमात्रेणाप्रामाण्ये घटप्रत्यक्षस्य पटाविषयत्वेन बह्न्यनुमानस्यानित्यत्वाविषयत्वेन ज्योतिष्टोमवाक्यस्याश्वमेधाविषयत्वेन चाप्रामाण्यं स्यादित्यर्थः । तदवस्थानिवृत्यनिवृत्त्योस्तूदासीनैवेत्यत्र तदाऽतीतकाल इत्यर्थाङ्गीकारेऽनुभवकाले वर्तमानकाल इव स्मृतिकालेऽतीतकालोऽपि साक्ष्युपनीतः प्रतीयते । अस्मिन्पक्षे पूर्वावस्तानिवृत्तेः स्मरणेऽपि न कश्चिद्दोषः । अत एव हि ‘‘प्रध्वंसो हि तथोच्यत’’ इति तत्त्वोद्योते टीकाकृतैव लिखितम् । अनुभवकालः स काल इत्यङ्गीकारे निवृत्यनिवृत्योरौदासीन्यम् । अनुभवश्चानुभवकालीन तदनुव्यवसायोत्थसंस्कारेणैवोल्लिख्यत इत्याशयः । कृत्संज्ञकतिप्रत्ययान्तत्वे हि कृतिः करणं स्मृतिः स्मरणं ज्ञप्तिर्ज्ञानमिति वत् स्मृतिपदेनापि स्मरणमेव लभ्यते । नतु स्मरणपूर्वकं कृतो ग्रन्थ इति भावेनाह कृदन्तताया इति स्मरणपूर्वकं कृतत्वं हि स्मृतित्वं वक्तव्यम् । तच्च पञ्चरात्रादावव्याप्तं रघुवंशादावतिव्याप्तं चेति भावेनाह अव्याप्त्यतिव्याप्तिभ्यामिति । अन्यथेश्वरानुमान इत्यत्र परनिरूपित शरीरिजन्यत्वरूपोपाधौ शरीरिपदस्य पक्षभूतेश्वरमात्रव्यावर्तकत्वेन पक्षेतरत्वात्तया निरसनीयं तन्नस्यादित्यर्थः । हरिगुर्वादिस्मृतीनां तन्नामानुवादानां च पापपरिहाराख्यफलोपलम्भादिति भावेनाह कासाञ्चित्स्मृतीनामिति । नहि वैनाशिकानामित्यत्र वैनाशिकानां क्षणिकत्ववादिनामित्यर्थः । प्रत्यभिज्ञानानुपपत्तेश्चेत्यत्रैको वर्तमान एव प्रतीयत इति नियमस्य प्रत्यभिज्ञायामभावादित्यर्थः । अनुवादोऽपि यदा वादविषय इत्यत्र परोदितपदमालारूपवादमात्रविषयो नतु तदभिप्रेतार्थविषय इत्यर्थः । धारावाहिकसमानो न्याय इत्यत्रात्र घटोऽस्तीति वाक्यस्य लटा प्राग्वादकालः कथ्यते । अनुवादे त्वनुवादकाल इति कालभेदप्रत्ययोभवतीत्यर्थः । अयं च दोषोऽध्येतॄणामनुवादवत्केवलानुवादविषयः । या गौरस्तीत्युक्ता तामानयेति वाक्ये तु स्पष्टमधिकविषयत्वमिति भावेनाह अधिकविधानेनेति । विचारे क्रियमाणे व्यभिचारादर्शनं वा तत्रोदासीनस्य व्यभिचारादर्शनं वेति विकल्पं मनसि निधायाह धारावाहिक इत्यादि आद्येऽप्यापत्तेरित्यत्र पूर्वज्ञानस्याप्युत्तरज्ञानसापेक्षया तत्सत्वादिति भावः ।
यत्र करणानां समुच्चय इत्यत्र यत्र बहुभिः कारुभिः स्वहस्तकुठारैः स्थूलवृक्षच्छेद इत्यर्थः । समासानुपपत्तिस्तु ‘‘विशेषणं विषेष्येण सम्बध्यत’’ इत्यत्र बहुलग्रहणाद्वैकल्पिक इति भावेनाह द्वितीयं पक्षमिति । किञ्च गृहेगृहे छिदाकरणपरशूनां युद्धेयुद्धे वैर्यङ्गनिर्भेदकरणशस्त्रशरादीनां धर्मशान्तिकरणजलच्छायादीनां च प्राप्तानामेव करणता त्वयाऽप्यङ्गीक्रियते । ‘‘व्यापारवद्धि करण’’मिति करणलक्षणं च सार्वजनीनम् । ‘‘एकत्र निर्णीतश्शास्त्रार्थोऽपरत्रापी’’ति न्यायेन सर्वत्रापि करणमीदृशमेव वक्तुमुचितम् । न दृश्यत इति नाङ्गीकार्यं चेन्मोक्षोऽपि नाङ्गीकार्यस्स्यात् । अतः करणस्य चक्षुषो ऽप्राप्तस्यैव करणत्ववचनं परस्यैवाप्राप्ततासाधकम् । केवलं दुराग्रहमूलमेवेत्युपेक्षणीयमेवेति कृत्वा प्राप्तेः प्रामाणिकत्वादिति भावेनाह विशेषकारणाभावा दिति । प्राप्त्युपलम्भादित्युपलक्षणम् । कुड्यव्यवहिते दर्शनानुदयेन तदपसरणे दर्शनोदयेन योग्यताया इव प्राप्तेरप्यन्वयव्यतिरेकदर्शनादिति च ग्राह्यम् ।
तथाभूतस्योत्पाद एवेत्यत्र दर्शनगोचरस्य तदगोचरस्य चोत्पाद इत्यर्थः । एवं च कुड्यव्यवहितोऽपि पटः दर्शनगोचरतयोत्पन्नत्वात्कुड्यापरभागस्थैर्दृश्यते । क्षणिकपरिणामवादे दर्शनागोचरतयाऽपि तदैवोत्पन्नत्वात्कुड्यव्यवहितैर्न दृश्यत इति परस्याशयः । एवं सति दर्शनगोचरतयोत्पत्तिदशायां सर्वैर्दृश्यते । तदगोचरतयोत्पत्तिदशायां न केनापीति भावेनाह तदा सोऽर्थ इति । द्रष्टृनिबन्धनोऽपि तद्भेद इत्यत्र कुड्यान्तरितानन्तरितद्रष्टृनिबन्धन इत्यर्थः । काचादेर्व्यूहान्तरापत्तिरित्यत्र व्यूहान्तरत्वं नवद्रव्यातिरिक्त द्रव्यत्वम् । जलानलव्यतिभेद इत्यत्र जलानलव्यतिभेदे उष्णोदकतादशायां जलानलयोर्मिश्रण इत्यर्थः । तदभावाद् व्यूहान्तरत्वाभावादित्यर्थः । प्रदीपेऽनैकान्त्यमित्यनेनैव दूरस्थवस्तुग्रहणमेव सान्तरग्रहणमित्यपि परास्तम् ।
अप्राप्तौ सर्वत्र सन्देह इत्यत्र दूरस्थघटवत्समीपस्थेऽपि सन्देहस्स्यादित्यर्थः । सन्देह आगन्तुकं कारणान्तरं कल्पयिष्यतीत्यङ्गीकृत्योदितम् । वस्तुतस्तु चक्षुषा घटादिज्ञाने प्राच्यां प्रतीच्यां वेति दिक्सन्देह एव नास्तीति च ज्ञेयम् । निमीलितनयनस्य सत्यप्यन्तश्चक्षुषि घटाद्यदर्शनेनोन्मीलितनयनस्य च चक्षुःप्राप्त्या घटदर्शनेन चान्वयव्यतिरेकितया चक्षुःप्राप्तेरपि दर्शनहेतुतायाः प्रामाणिकत्वादिति भावेनाह प्राप्तेः प्रमाणसिद्धत्वादिति । प्रदीपस्य स्वातिसमीपस्थदशाग्राप्रकाशकत्वदर्शनेनातिदूरस्थघटाप्रकाशकत्वदर्शनेन चातिदूरत्वातिसामीप्ययोरप्यर्थदोषत्वसिद्धेरतिसमीपस्थनयनगोलकाप्रकाशनमप्यतिसामीप्याख्यार्थदोषनिबन्धन मेव । नतु प्राप्तेरहेतुत्वकल्पकम् । किञ्च पित्तद्रव्यसंयुक्तनयनं पीतमेव शङ्खं गोचरयत्काचान्तरितं सत्कुतो न तथा गोचरयेत् । अयं हि विशेषः । सर्वत्र नयनरश्मिभिस्सह गच्छतां पित्तसूक्ष्मांशानामतेजोरूपतया काचनिर्भेदनाशक्तया तत्रैव प्रतिबन्धे सति तेजोरूपसूक्ष्मशुद्ध चक्षुरंशानामेव सूर्यकान्ताप्रतिबद्धसौरप्रभाया इव काचाप्रतिबन्धेन शङ्खप्राप्तावेव प्रकाशस्स्यात् । अतोऽपि प्राप्तेः प्रामाणिकत्वं सिद्धमिति ।
शरीरपरिस्पन्दो भवतीत्यत्र शरीरपरिस्पन्दः शरीरस्य तत्र गमनम् । उन्मील्यनिमीलनेऽप्यर्थ प्रतीतिस्स्यादित्यत्रोन्मीलने प्राप्तेर्जातत्वात्पुनर्निमीलनेऽपि प्रतीतिस्स्यादित्यर्थः । प्रदीपेन समानयोगक्षेममिति वदता यथा प्रदीपः जालकवाटोद्घाटने सति गेहान्तरस्थमर्थं प्रकाशयन्नपि पुनः पिधाने सति न प्रकाशयति । ततस्त्वयाऽपि यदायदा अर्थप्रकाशनं तदातदा प्राप्तिरपेक्षितेति वक्तव्यं तथा चक्षुषोऽपीति भावः । रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वादित्यत्र रसाव्यञ्जकत्वविशेषणमदृष्टादौ व्यभिचारपरिहारार्थम् । पार्थिवत्वादिमात्रसाधने सिद्धसाधनत्वमित्यत्र तैजसत्ववादिनाऽपि मया भूतैरुपचयस्याङ्गीकारात्सिद्धसाधनत्वमित्यर्थः । किं व्यक्तिपुरस्कारेणेत्यत्र एकैकादृष्टव्यक्तिपुरस्कारेणेत्यर्थः ।
उपाध्यवच्छेदपुरस्कारेणेत्यत्र उपाधिरदृष्टत्वम् । इन्द्रियत्वावच्छेदेनासिद्धेरित्यत्र घ्राणेऽपीन्द्रियत्वावच्छेदेन रसाव्यञ्जकत्वासिद्धेरित्यर्थः । यदि च घ्राणत्वोपाध्यवच्छेदेन हेतुसिद्धिं मन्यसे तर्हि गन्धव्यञ्जका दृष्टत्वोपाध्यवच्छेदेन व्यभिचारतादवस्थ्यम् । पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेष्वित्यत्र पृथिव्यादिद्रव्यचतुष्टय सन्निकर्षे रूपादिगुणचतुष्टयसन्निकर्षे च व्यभिचार इत्यर्थः । तैजसत्वसाधने रूपसन्निकर्षे आप्यत्वसाधने रससन्निकर्षे पार्थिवत्वसाधने गन्धसन्निकर्षे वायवीयत्वसाधने स्पर्शसन्निकर्षे च व्यभिचार इति यावत् । लोक व्यवहारानुरोधेन गुणेषु क्रमोल्लङ्गनम् । चर्मादिगन्धव्यञ्जकत्वं जलादेरित्यत्र चर्मगन्धव्यञ्जनसमये रसाव्यञ्जकत्वस्यापि सत्वाद्य्वभिचार इत्यर्थः । रसव्यञ्जकत्वं लवणादेरित्यत्र रसव्यञ्जकत्वं नाम शाकरसव्यञ्जकत्वम् । स्पर्शव्यञ्जकत्वं कर्पूरादेरित्यत्र चन्दनरसस्थित शीतस्पर्शव्यञ्जकत्वमित्यर्थः ।
मुक्तग्रहणमित्यत्र कदाचिन्मुक्तानां प्राकृतेन्द्रियरहितत्वे किं नित्यमुक्तयोरीशरमयोरित्यस्यार्थस्य व्यधिकरणेनापि मुक्तत्वेन लाभादिति भावः । उपलक्षणं चेदम् । ईशपदेनातिसामर्थ्यसूचनाद्रमापदेन च सदा रमत इत्यर्थसूचनात्प्राकृतेन्द्रियवत्वं न युक्तिमदिति च द्रष्टव्यम् । न लीलयाऽपि राजा वह्नौ प्रविशति अमेध्यं वा भक्षयति । ईशरमेतीत्यत्र मुक्तत्वाविशेषादीशवद्रमावच्च शुद्धेन्द्रियस्यापि सिद्धेरिति भावः । इदं चोपलक्षणम् । अनिष्टरूपसंसारान्मुक्तानामनिष्टदायकस्वभाव लीलाविग्रहस्य सदा ग्रहणायोगेनान्यदापि मौक्तस्रक् चन्दनवनितादि भोगहेतुभूतशुद्धेन्द्रियस्यापि कथं न सिद्धिः । ‘‘स्वेन रूपेणाभिनिष्पद्यते स तत्र पर्येति जक्षन् क्रीडन् रममाण’’ इति श्रुतेः । कदाचिद्ग्रहणं तु ईशरमासाम्यनिवृत्त्यर्थं तत्प्रेरणयेत्यपि द्रष्टव्यम् । ‘‘न खलु भगवतः प्राकृतो जातु देह’’ इत्यभियुक्तवचनात्तस्यैव हि स महिमा । कदाचिद्ग्रहणे तु न दुःखस्यावकाशः । न हि सदा आतपसेविनीव कदाचित् शीतनिवृत्त्यर्थं बालातपसेविन्यपि दुःखम् । सदोषत्वमेवेति भाव इत्यत्र परापरतत्त्वविषये सदोषत्वम् । अन्यथा रावणकुम्भकर्णादीनां वरप्राप्तसुखानुभवः रामशरघातजदुःखानुभवश्च संसारेऽपि न स्यात् । अन्धेतमसि च पूयासृङ्मूत्रविष्ठादिना पञ्चेन्द्रियाणामपि दुःखदायककूपे निपतनेनास्त्रशस्त्रविघातेन क्षुप्तिपासादिना च सर्वदाऽऽक्रोशमानानां शाश्वतदुःखानुभवोऽपि न भवेत् । तदभावे तु तमसो ऽनिष्टताऽपि न स्यादित्याद्यूहनीयम् ।
पञ्चेन्द्रियमनोभेदादिति वदता अचार्येणेन्द्रियाणां परस्परं भेदकथना‘‘दधिष्ठाये’’ति स्मृतौ आधाराधेयभावेन जीवाद्भिन्नत्वकथनाच्चान्योन्यं द्रष्टुश्च भेदकथनात्प्राकृतेन्द्रियाणामेवायं विभागः । वस्तुतस्तु लावण्यभरितमूर्तिषु मुक्तेष्वपि श्रोत्र नयन नासा रसनस्पर्शनभेदेन बहिः पञ्चेन्द्रियाणामन्तर्मनस इति षण्णां ज्ञानेन्द्रियाणां वाक् पाणिपाद पायूपस्थाख्यकर्मेन्द्रियाणां मुक्तजीवस्वरूप भूतानामेकादशेन्द्रियाणामपि हराविव रमायामिव च सत्त्वमस्त्येवेति भाष्यकृतोऽभिसन्धिरूहनीयः । कथमन्यथा ‘‘अक्षण्वन्तः कर्णवन्तस्सखायो मनोजवेष्वसमा बभूवु’’रिति श्रुतिः । अन्यथा च सुपुष्पाघ्राणनं सुविषयास्वादनं सुखदायकस्वपत्यालिङ्गनं सुभगतन्मुखदर्शनं सुरसतद्वचःश्रवणं च स्वरूपभूतानामप्येषां विशेषशक्तयाऽसङ्कीर्णकार्यकारित्वमित्यादिकमूहनीयम् । कथं तर्हि न तु सर्वमिति टीकोक्तिरिति चेन्न । षोढा भेदवन्न तु सर्वमित्यर्थोपपत्तेः । कथं प्राकृतत्वमित्यत्र प्राकृतत्वं प्रकृतिविकृतकार्यत्वमित्यर्थः । वैशेषिकास्त्वित्यत्र क्वचित्कार्यं कारणस्यानुमापकम् । यथा धूमः । क्वचित्कारणं कार्यस्यानुमापकम् । यथा विशिष्टपुष्पोन्नतिः । क्वचित्सम्बन्ध्येव सम्बन्ध्यन्तरानुमापकम् । यथा भेरीश्रवणं राजगमनस्य । एकार्थसमवायी रसो रूपस्य । विरोधितमःप्रकाशनिवृत्तेरित्यर्थः । मात्रानिमित्तेत्यत्र मात्रा रूपादिविषयः । तेन चक्षुराद्यनुमानम् ।
तदभावव्यापकाभावत्वादित्यत्र व्यापको ऽभावो यस्येति समासः । स्फुटप्रतीतिकतया अस्मदुक्तावान्तरभेदस्य स्फुटप्रतीतिकतया । अन्यथाऽभावस्याभावेन व्याप्तौ भावेन भावसाधनमसङ्गतं स्यात् । अतो भावाभावायोरपि कश्चित्सम्बन्धोऽन्तर्णीत इति कथं न विवेकिनो मन्येरन्निति भावः । यथा भूतत्वमूर्तत्वे इत्यत्र भूतत्वं मूर्तत्वं विहाय नभसि वर्तते । मूर्तत्वं च भूतत्वं विहाय मनसि वर्तते । भूतचतुष्टये तयोरुभयोस्समावेशात्सङ्कीर्णत्वं चेति भावः । प्रसिध्यप्रसिद्धिभ्यामित्यत्र यत्प्रसिद्धं रसवत्त्वं तेनातीन्द्रियत्वाद प्रसिद्धं गुरुत्वमनुमातव्यमित्यर्थः । भावयतोऽनुमितिमित्यस्य अनुमितिं न भावयतः नोत्पादयत इत्यर्थः । पराङ्गतापन्नेत्यत्र पराङ्गता परप्रत्यायनाङ्गता । लिङ्गस्वरूपतदीयपक्षधर्मतेत्यत्र लिङ्गस्वरूपमात्रज्ञापने हेतोर्लिङ्गवचनस्योपयोगः साध्यान्वितधर्मिणि लिङ्गस्वरूपोपदर्शनायोपनयोपयोगः । तस्य व्याप्तिग्रहणोत्तरकालीनत्वादिति विवेकः । स्मारकत्वमुक्तस्य सर्वस्योपलक्षणमित्यत्र सर्वस्य प्राक् ज्ञातव्याप्तिकं प्रति स्मारकत्वम् । अज्ञातव्याप्तिकं प्रति तु जिज्ञासाजनकत्वमित्युक्तस्य सर्वस्योपलक्षणमित्यर्थः । दृश्यते खलु लोके इत्यत्र भीमः सत्येत्यादिप्रयोगे भीमसेनसत्यभामादीनां स्मरणदर्शनादित्यर्थः । अत एव भारते अध्यायादौ वैशम्पायनस्मरणाय वैशमित्येव लिखन्ति । वाक्यैकदेशप्रयोग इत्यत्र विस्मृतश्लोकं प्रति तत्स्मारणाय पादमात्रोत्कीर्तनम् । अन्यथा सांव्यवहारिकः केवलव्यतिरेकिप्रयोग इत्यत्र अन्यथा पञ्चावयवसहितस्यैव प्रत्यायकत्वे । तर्हि भवतामपि कथं केवलव्यतिरेकिव्यवहार इत्यत आह वास्तवेति । प्रतिवादिन्यनुसरण इत्यत्र प्रतिवादिन्यनुसरणे सत्यवयवनियमाभावाङ्गीकारादेकैकावयव प्रयोगस्याप्यनुसरणे सति जल्पादिकथायामनुमानप्रयोक्तरि न्यूनाधिक्यादिनिग्रहस्थानोद्भावनं न स्यादिति चेदित्यर्थः । लौकिकशास्त्रीय संव्यवहारातिक्रम इत्यत्र कथासमयबन्धातिक्रमेण कथान्तरारम्भे एकावयवस्याप्रयोगे तस्यैव द्विःकीर्तनेऽसिद्धविरुद्धादिहेतुकथने चेत्यर्थः । उदाहरणवाक्येनेत्यत्र यो यो धूमवानसावग्निमान् यथा महानस इत्युक्ते पक्षमात्रवर्तिनोऽसाधारणस्यापि व्यवच्छेदसिद्धिरिति भावः । उक्तं युक्तेस्समर्थ्यमित्यत्र व्याप्त्याख्यसामर्थ्यं प्रति दूषणमिति सम्बन्धः । साध्यसाधनोभयाव्यावृत्त्याश्रयहीनानित्यत्र साध्यस्य दृष्टान्तादव्यावृत्तिः साधनस्याव्यावृत्तिर् उभयाव्यावृत्तिः । आश्रयस्य दृष्टान्तस्यैवाभाव इति व्यतिरेकदृष्टान्ते दोषाच्चत्वारः । प्रागुक्ताश्चत्वारो ऽन्वयदृष्टान्तदोषा इति भावः । केवलान्वयिकेवलव्यतिरेकीत्यनुमानं मानमुक्तवा तयोस्समुदायमादायान्वय व्यतिरेकीति कथमित्यभिप्रायेण शङ्कते कथं तर्ह्यन्वयव्यतिरेकीति । न ह्युपाधिमन्तर्भाव्य भवन्नित्यत्र कोपोपाधिनिमित्तगुरुद्रोहस्याप्यदोषत्वप्रसङ्गादित्यर्थः । साध्यापेक्षया वैपरीत्य मित्यत्र साध्यापेक्षया साध्यव्यापकस्य धर्मस्य यदानुकूल्यं साध्यस्य व्याप्यत्वं स्वस्य व्यापकत्वं च तदादाय साध्यव्यापकाद्यत्साधनस्य वैलोम्यं साधनस्याव्याप्यत्वमुपाध्यभिमतस्या व्यापकत्वं च तदिदं साध्यापेक्षया वैपरीत्यमित्यर्थः ।
अव्याप्तत्वमिति यावदित्यत्र अव्याप्तत्वं व्याप्यव्यापकभावाभावः । एवं च साध्यव्यापकात्साधनस्य यद्वैलोम्यं व्यापकभावाभावलक्षणं वैपरीत्यं सा अव्याप्तिरेवेति यथास्थितयोजनाऽपि द्रष्टव्या । व्याप्तिग्रहणदशायां यत्र धूमोऽस्ति तत्र वह्निरस्तीति व्यवहारेऽपि धूमाद्वह्निरस्तीति साध्यसाधनभावस्याभावादित्यभिप्रायेण शङ्कते नन्वेवं चेदिति । भावप्रधानस्यादोषत्वमित्यत्र पक्षात् स्वाभावनिरपेक्षस्य केवलभावधर्मस्येत्यर्थः । इहापि अव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुतेत्यत्र साध्येन तस्योपाधेर् व्याप्तिर्व्याप्यता न भवेच्चेदुपाधेर व्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुताऽपि न स्यादिति योजना । पाक्षिकसिध्यादिना सत्प्रतिपक्षताफलस्यानिवारणादित्युपलक्षणम् । नेदं साध्यवत्तया निर्णेतुं योग्यं सन्दिग्धतद्-व्यापकधर्मत्वात् । यथा निषिद्धत्वसंशयवान्न पापसाधनत्वेन निर्णेय इति । मेघवैल्यसन्देहे यथा वृष्टिर्न निर्णेय इति वेति साक्षात्प्रतिपक्षसम्भवाच्चेत्यपि द्रष्टव्यम् ।
साधनावच्छिन्नसाध्यव्यापक कृतकत्वोपाध्यव्यापनादित्यत्र यत्र समवेतत्वं तत्र कृतकत्वमिति व्याप्तेः सामान्ये भग्नत्वेन सम्बन्धत्वे सति समवेतत्वं यत्र तत्र कृतकत्वमिति साधनावच्छिन्न साध्यव्यापकता तार्किकैरङ्गीक्रियते । तत्र केवलसाध्यव्यापकत्वाभावादव्याप्तिरित्यर्थः । अनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वादित्यत्र उपलभ्यमान स्पर्शाधिकरणत्वादित्येवोक्ते तप्तवारिस्थतेजसि व्यभिचारस्स्यात् । तस्य बहिर्द्रव्यप्रत्यक्षता प्रयोजकस्य महत्वसमानाधिकरणोद्भूतरूपवत्वस्याभावेन स्पार्शनत्वाभावात् । रूपानधिकरणत्वादित्येतावता व्यभिचारपरिहारेऽपि घटदृष्टान्ते साधनवैकल्यं स्यात् । अतो ऽनुद्भूतरूपानधिकरणत्वे सतीत्युक्तम् । यत्र स्पार्शनत्वं तत्र चाक्षुषत्वमिति व्याप्तेः स्पर्श एवाभावाद्द्रव्यत्वावच्छिन्न साध्यव्यापकत्वं वदन्ति । तत्राप्यव्याप्तिः । व्यतिरेकव्याप्त्यव्यापनाच्चेत्यत्र यत्राधर्मसाधनत्वाभावस्तत्र हिंसात्वाभाव इति व्यतिरेकव्याप्तौ निषिद्धत्वाभाव उपाधिरुच्यते । तत्र साध्याभावव्यापकत्वेऽपि साध्यव्यापकत्वाभावः स्पष्ट एवेत्यर्थः । न चान्वयव्यतिरेकिधर्मत्वमित्यत्र यत्सत्वे एव यत्सत्वमित्यन्वयः । तदभावे तदभाव इति व्यतिरेकः । तादृशान्वय व्यतिरेक प्रतियोगित्वं प्रयोजकमुपाधिसामान्यलक्षणमित्यर्थः । यथा विशिष्टसमय इत्यत्र विशिष्टसमयः ग्रहणादिपुण्यकालः । कर्तृभेदेन कथाभेदे अतिप्रसङ्ग इत्यत्र आर्यद्राविडयोः कथा तौलवकर्नाटकयोः कथेत्यादिकर्तृभेदेनाति प्रसङ्ग इत्यर्थः । इदं च मन्दाशङ्कामङ्गीकृत्योक्तं वस्तुतस्तु सदसतोः कथेत्युक्ते न कुत्राप्यतिप्रसङ्गः । पक्षान्तरं तु वैभवादिति ज्ञेयम् । नन्ववैदिकं प्रति कथमित्यत्र ग्रन्थश्रवणसमये अवैदिकमतं पुरस्कृत्य प्रवृत्तं शिष्यं प्रति कथमित्यर्थः । अन्यथा वितण्डायां प्रतिवादिना प्रमाणस्यावक्तव्यत्वादसङ्गतं वाक्यं स्यात् । वस्तुतस्तु विद्यापरोक्षोपयोगिवादकथायामसतामप्यधिकार सम्भवेन स्वपक्षसाधनायागमप्रयोगोपपत्तेः । वितण्डायामपि परपक्षोपालम्भार्थमागमोपन्याससम्भवाच्च नोक्तशङ्कावकाश इति ज्ञेयम् । इदं वाक्यं वाक्यार्थवदित्यनुमानं न प्रौढानाम् । वाक्यार्थपदेन वाक्यप्रतिपाद्यो ह्यर्थः कथनीयः । तथा च वाक्यस्यैवार्थप्रतिपादकत्वात्किमनुमानेनेति दूषणसम्भवात् । स्वस्मारितार्थान्वयप्रतितिपूर्वकाणीत्यनुमानमपि न प्रौढानाम् । वक्तरि पदानां स्वस्मारितार्थसंसर्गबोधकत्वे श्रोतर्यपि तद्बोधकत्वं स्यादिति पुनरनुमानस्य वैयर्थ्यात् । किञ्च वाक्यस्य स्वप्रतिपाद्यार्थानुमापकत्वे तेनैव वाक्यार्थबोधोऽस्तु किमनुमानेन । स्वाप्रतिपाद्यार्थानुमापकत्वे नदीतीरे सन्ति फलानीति वाक्येन गामानयेति वाक्यार्थस्याप्यनुमानप्रसङ्गात् । अतो यत्किञ्चिदेतत् । दैवात्प्रयुक्तेष्वाकांक्षादिमत्स्वित्यत्र शुकबालादिवाक्येष्वित्यर्थः । रूपादिमत्येव द्रव्ये इत्यत्र रूपपदेन प्राकृतरूपमुच्यते । अप्राकृतरूपस्य ‘‘रूपोपन्यासादि’’ति सूत्रकृतैव निर्णीतत्वात् । यद्वा रूपपदेन रूपमेवोच्यते । परमात्मरूपं तु तत्कृपापर्यन्तं मायया अभिभूतत्वान्न साक्षात्कारोपयोगीति भावः ॥ २१२ ॥
इति नविलक्षणत्वाधिकरणम्